वरदराजाचार्यविरचिता लघुसिद्धान्तकौमुद्याम् संज्ञाप्रकरणम्
--
नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहम् ।
पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् ॥
--
अक्षरसमाम्नायः
अइउण् 1
ऋलृक् 2
एओङ् 3
ऐओच् 4
हयवरट् 5
लण् 6
ञमङणनम् 7
झभञ् 8
घढ्धष् 9
जबगडदश् 10
खफछठथचटतव् 11
कपय् 12
शषसर् 13
हल् 14
अक्षरसमाम्नायप्राप्तिहेतुफलयोः प्रदर्शनम्
इति माहेश्वराणि सूत्राण्यणादिसंज्ञार्थानि ।
वर्णसमाम्नायसूत्रस्थान्त्यवर्णानामित्संज्ञकत्वप्रतिज्ञा
एषामन्त्या इतः ।
हकारादिव्यञ्जनस्थाकारप्रयोजनम्
हकारादिष्वकार उच्चारणार्थः ।
लण्-प्रत्याहारस्थस्य अकारस्य इत्संज्ञकत्वप्रतिज्ञा
लण्मध्येत्वित्संज्ञकः ।
इत्संज्ञासूत्रम्
1. हलन्त्यम् ।
(अष्टाध्यायी 1/3/3 ॥)
उपदेशेऽन्त्यं हलित्स्यात् !
उपदेशलक्षणम्
उपदेश आद्योच्चारणम् ।
अनुवृत्तिप्रकारप्रदर्शनम्
सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्त्तनीयं सर्वत्र ।
लोपसंज्ञासूत्रम्
2. अदर्शनं लोपः ।
(अष्टाध्यायी 1/1/60 ॥)
प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् ।
लोपविधायकसूत्रम्
3. तस्य लोपः ।
(अष्टाध्यायी 1/3/9 ॥)
णकारादि-अनुबन्धप्रयोजनम्
णादयोऽणाद्यार्थाः ।
’हल्’ आदिप्रत्याहारसंज्ञाविधायकसूत्रम्
4. आदिरन्त्येन सहेता ।
(अष्टाध्यायी 1/ 1 71 ॥)
अन्त्येनेतासहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् ।
यथा ’अण्’ इति ’अ इ उ’ वर्णानां संज्ञा । एवम् - अच्, अल् इत्यादयः ।
5. ऊकालोऽज्ह्रस्व-दीर्घ-प्लुतः ।
(अष्टाध्यायी 1/2/27 ॥)
उश्च ऊश्च उ३श्च वः ।
वां काल इव कालो यस्य सोऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात् ।
अचां त्रैविध्यनिरूपणम्
स प्रत्येकमुदात्तादिभेदेन त्रिधा ।
उदात्तसंज्ञासूत्रम्
6. उच्चैरुदात्तः ।
(अष्टाध्यायी 1/2/29 ॥)
ताल्वादिषु सभागेषु स्थानेष्वूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात् ।
अनुदात्तसंज्ञासूत्रम्
7. नीच्चैरनुदात्तः ।
(अष्टाध्यायी 1/2/30 ॥)
ताल्वादिषु सभागेषु स्थानेष्वधोभागे निष्पन्नोऽच् अनुदात्तसंज्ञः स्यात् ।
स्वरितसंज्ञासूत्रम्
8. समाहारः स्वरितः ।
(अष्टाध्यायी 1/2/31 ॥)
उदात्तादनुदात्तत्वे वर्णधर्मौ समाह्रियेते यत्र सोऽच् स्वरितसंज्‘जः स्यात् ।
अचामनुनासिकनिरनुनासिकभेदेन पुनर्द्वैविध्यप्रतिपादनम्
स नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा ।
अनुनासिकसंज्ञा सूत्रम्
9. मुखनासिकावचनोऽनुनासिकः ।
(अष्टाध्यायी 1/1/8 ॥)
मुखसहितनासिकयोच्चर्यमाणोऽनुनासिकसंज्ञः स्यात् ।
अचां सर्वभेदनिरूपणम्
तदित्थम् -
’अ इ उ ऋ’ एषां वर्णानां प्रत्येकमष्टादश भेदाः ।
’लृ’ वर्णस्य द्वादश, तस्य दीर्घाभावात् ।
एचामपि द्वादश, तेषां ह्रस्वाभावात् ।
सवर्णसंज्ञाविधायकं सूत्रम्
10. तुल्यास्यप्रयत्नं सवर्णम् ।
(अष्टाध्यायी 1/1/9 ॥)
ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद् द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् ।
ऋलृवर्णयोः सवर्णसंज्ञाविधायकं वार्त्तिकम्
वार्त्तिकम् - ऋलृवर्णयोर्मिथः सावर्ण्यं वाच्यम् ।
वर्णानां स्थानानि
-1. अकुहविसर्जनीयानां कण्ठः ।
-2. इचुयशानां तालु ।
-3. ऋटुरषाणां मूर्धा ।
-4. लृतुलसानां दन्ताः ।
-5. उपूपध्मानीयानामोष्ठौ ।
-6. ञमङणानानां नासिका च ।
-7. एदैतोः कण्ठतालु ।
-8. ओदौतोः कण्ठोष्ठम् ।
-9. वकारस्य दन्तोष्ठम् ।
-10. जिह्वामूलीयस्य जिह्वामूलम् ।
-11 नासिकाऽनुस्वारस्य ।
यत्ननिरूपणम्
यत्नो द्विधा - आभ्यन्तरो बाह्यश्च ।
आभ्यन्तरप्रयत्नभेदनिरूपणम्
आद्यः पञ्चधा-स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृतभेदात् ।
तत्र स्पृष्टं प्रयत्नं स्पर्शानाम् ।
ईषत्स्पृष्टमन्तःस्थानाम् ।
ईषद्विवृतमूष्मणाम् ।
विवृतं स्वराणाम् ।
ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्, प्रक्रियादशायां तु विवृतमेव ।
बाह्ययत्नभेदनिरूपणम्
बाह्यस्त्वेकादशधा -
विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति ।
खरो विवाराः श्वासा अघोषाश्च ।
हशो संवारा नादा घोषाश्च ।
वर्गाणां प्रथम-तृतीय-पञ्चमा यणश्चाल्पप्राणाः ।
वर्गाणां द्वितीय-चतुर्थौ शलश्च महाप्राणाः ।
वर्णानां ’वर्ग’ करणम्
कादयो मावसानाः स्पर्शाः ।
यणोऽन्तस्थाः ।
शल ऊष्माणः ।
अचः स्वराः ।
’क*ख*’ इति कखाभ्यां प्रागर्द्धविसर्गसदृशो जिह्वामूलीयः ।
(अधोबिन्दु सहित ’क’ तथा ’ख’)
’प*फ*’ पफाभां इति प्रागर्द्धविसर्गसदृश उपध्मानीयः ।
(अधोबिन्दु सहित ’प’ तथा ’फ’)
’अं अः’ इत्यचः परानुस्वारविसर्गौ ।
सवर्णग्राहकसूत्रम्
11. अणुदित्सवर्णस्यचाप्रत्ययः ।
(अष्टाध्यायी 1/1/69 ॥)
प्रतीयते विधीयते इति प्रत्ययः ।
अविधीयमानोऽणुदिच्च सवर्णस्य संज्ञा स्यात् ।
अत्रैवाण् परेण णकारेण ।
(पर-ण > परण > तृतीया एकवचनं > परेण)
उदितां निरूपणम्
कु चु टु तु पु एते उदितः ।
अकारादिवर्णानां स्व-यावद्-बोध्यनिरूपणम्
तदेवम् -
अ इत्यष्टादशानां संज्ञा ।
तथाकारोकारौ ।
ऋकारस्त्रिंशत् ।
एवं लृकारोऽपि ।
एचो द्वादशानाम् ।
यवलवर्णानां द्वैविध्यनिरूपणम्
अनुनासिकाननुनासिकभेदेन यवला द्विधा ।
तेनाननुनासिकास्ते द्वयोर्द्वयोः संज्ञा ।
संहितासंज्ञासूत्रम्
12. परः संनिकर्षः संहिता ।
(अष्टाध्यायी 1/4/109 ॥)
वर्णानामतिशयितः संनिधिः संहितासंज्ञः स्यात् ।
संयोगसंज्ञा सूत्रम्
13. हलोऽनन्तराः संयोगः ।
(अष्टाध्यायी 1/1/7 ॥)
अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ।
पदसंज्ञासूत्रम्
14. सुप्तिङन्तं पदम् ।
(अष्टाध्यायी 1/1/14 ॥)
इति संज्ञाप्रकरणम्

उपकृतः अस्मि
ReplyDelete