Tuesday, 16 February 2016

श्रीवरदराजविरचिता-लघुसिद्धान्तकौमुद्याम्

श्रीवरदराजविरचिता-लघुसिद्धान्तकौमुद्याम्
विभक्ति-अर्थ प्रकरणम्
--
891. प्रातिपदिकार्थ-लिङ्ग-परिणाम-वचन-मात्रे प्रथमा ।
(अष्टाध्यायी 2/3/46 ॥)
नियतोपस्थितिकः प्रातिपदिकाऽर्थः । मात्राशब्दस्य प्रत्येकं योगः ।प्रातिपदिकार्थमात्रे लिङ्गमात्राधिक्ये परिमाणमात्रे संख्यामात्रे च प्रथमा स्यात् ।
प्रातिपदिकार्थमात्रे :
उच्चैः । नीचैः। कृष्णः । श्रीः । ज्ञानम् ।
लिङ्गमात्रे :
तटः । तटी । तटम् ।
परिमाणमात्रे :
द्रोणो व्रीहिः । वचनं श्रुत्वा ।
संख्यामात्रे :
एकः । द्वौ । बहवः ।
’प्रथमा’ विभक्तिविधिसूत्रम् :
892.
सम्बोधने च ।
(अष्टाध्यायी 2/3/47 ॥)
प्रथमा स्यात् ।
हे राम!
’कर्म’ संज्ञासूत्रम् :
893. कर्तुरीप्सीतमं कर्म ।
(अष्टाध्यायी 1/4/49 ॥)
कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् ।
’द्वितीया’ विभक्तिसूत्रम् :
894. कर्मणि द्वितीया ।
(अष्टाध्यायी 2/3/2 ॥)
अनुक्ते कर्मणि द्वितीया स्यात् ।
हरिं भजति ।
अभिहिते तु कर्मादौ प्रथमा :
हरिः सेव्यते ।
लक्ष्म्याः सेवितः ।
’कर्म’ संज्ञासूत्रम् :
895. अकथितं च ।
(अष्टाध्यायी 1/4/51 ॥)
अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ।
(’दुह्’ आदिधातुपरिणामम्)
दुह्-याच्-पच्-दन्ड्-रुधि-प्रच्छि-चि-ब्रू-शासु-जि-मथ्-मुषाम् ।
कर्मयुक् स्यादकथित तथा स्यात् नी-हृ-कृष्-वहाम् ॥
गां दोग्धि पयः ।
(गां द्वितीया पञ्चम्यार्थे अपादाने > गोः दोग्धि पयः)
बलिं याचते वसुधाम् ।
(बलिं द्वितीया पञ्चम्यार्थे अपादाने > बलेः ...)
तण्डुलान् ओदनं पचति ।
(तण्डुलान् द्वितीया पञ्चम्यार्थे अपादाने > ...तण्डुलेभ्यः > पञ्चमी न तु चतुर्थी)
गर्गान् शतं दण्डयति ।
(गर्गेभ्यः ...)
व्रजम् अवरुणद्धि गाम् ।
(व्रज > अधिकरणं सप्तम्यामर्थे द्वितीया अत्र)
माणवकं पन्थानं पृच्छति ।
(माणवकः > बालकः अपादान-अर्थे द्वितीया)
वृक्षं अवचिनोति फलानि ।
(वृक्षं > वृक्षात् इति अपादानं)
माणवकं धर्मं ब्रूते शास्ति वा ।
(माणवकं > सम्प्रदान-अर्थे > माणवकाय [आचार्यः] धर्मं ब्रूते शास्ति वा ..)
शतं जयति देवदत्तम् ।
(देवदत्तम् > देवदत्तात्... पञ्चमी)
सुधां क्षीरनिधिं मथ्नाति ।
(सुधाम् > द्वितीया, सम्प्रदान-अर्थे सुधाम्-प्राप्त्यर्थे)
देवदत्तं शतं मुष्णाति ।
(देवदत्तम् > पञ्चमी )
ग्रामम् > ग्रामात् ...अजां नयति, हरति, कर्षति, वहति वा ।
अर्थ-निबन्धना इयम् संज्ञा
बलिं भिक्षते वसुधाम् ।
माणवकं धर्मं भाषते अभिधत्ते वक्ति-इत्यादि ।
’कर्तृ’ संज्ञासूत्रम्
896. स्वतन्त्रः कर्ता ।
(अष्टाध्यायी 1/4/54 ॥)
क्रियायाम् स्वातन्त्रेण विवक्षितोऽर्थः कर्ता स्यात् ।
’करण’ संज्ञासूत्रम्
897. साधक-तमं करणम् ।
(अष्टाध्यायी 1/4/42 ॥)
क्रिया-सिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् ।
’तृतीया’ विभक्तिसूत्रम्
898. कर्तृ-करणयोस्तृतीया ।
(अष्टाध्यायी 2/3/18)
अनभिहिते कर्तरि करणे च तृतीया स्यात् ।
रामेण वाणेन हतो वाली ।
अनभिहिते > अनुक्ते, ’हतः’ कर्मवाचकः प्रत्ययः..
सम्प्रदान-सज्ञासूत्रम्
899. कर्माणा यम् अभिप्रैति स सम्प्रदानम् ।
(अष्टाध्यायी 1/4/32 ॥)
दानस्य कर्मणा यम् अभिप्रैति स सम्प्रदानसंज्ञः स्यात् ।
’चतुर्थी’ विभक्तिसूत्रम्
900. चतुर्थी सम्प्रदाने ।
(अष्टाध्यायी 2/3/ 13)
विप्राय गां ददाति ।
चतुर्थी’ विभक्तिसूत्रम्
901. नमः- स्वस्ति-स्वाहा-स्वधा-ऽलं-वषट्‍योगाच्च ।
(अष्टाध्यायी 2/3/16 ॥)
एभिर्योगे चतुर्थी ।
हरये नमः ।
प्रजाभ्यः स्वस्ति ।
अग्नये स्वाहा ।
पितृभ्यः स्वधा ।
अलमिति प्र्याप्यर्थम्, तेन-दैयेभ्यो हरिरलं, प्रभुः, समर्थः, शक्तः इत्यादि ।
’अपादान’ संज्ञासूत्रम्
902. ध्रुवम् अपायेऽपादानम् ।
(अष्टाध्यायी 1/4/24 ॥)
अपायो विश्लेषः, तस्मिन् साध्ये यद् ध्रुवम् अवधिभूतं कारकं तद् अपादानं स्यात् ।
’पञ्चमी’ विभक्तिसूत्रम्
903. अपादाने पञ्चमी ।
(अष्टाध्यायी 2/3/28 ॥)
ग्रामाद् आयाति । धावतोऽश्वात् पतति-इत्यादि ।
’षष्ठी’ विभक्तिसूत्रम्
904. षष्ठी शेषे ।
(अष्टाध्यायी 2/3/50 ॥)
कारक-प्रातिपदिकाऽर्थ-व्यतिरिक्तः स्वस्वामिभावाऽदिः संबंधः, तत्र षष्ठी ।
राज्ञः पुरुषः ।
कर्मादीनामपि संबंधमात्रविवक्षायां षष्ठ्येव ।
सतां गतम् ।
सर्पिषो जानीते ।
मातुः स्मरति ।
एधोदकस्यपस्कुरुते ।
एधस् > एधः > पञ्चमी, षष्ठी, उदकस्य अपः कुरुते ।*
(*editing needed)
भजे (अहं) शम्भोश्चरणयोः ।
’अधिकरण’ संज्ञासूत्रम्
905. आधारोऽधिकरणम् ।
(अष्टाध्यायी 1/4/ 45 ॥)
कर्तृ-कर्मद्वारा तन्निष्ठ क्रियाया आधारः कारकं अधिकरणं स्यात् ।
’सप्तमी’ विभक्तिसूत्रम्
906. सप्तम्यधिकरणे च ।
(अष्टाध्यायी 2/3/36 )
अधिकरणे सप्तमी स्यात्, चकाराद् दूराऽन्तिकार्थेभ्यः । औपश्लेषिकः, वैषयिकः, अभिव्यापकश्च इति आधारस्त्रिधा ।
कटे आस्ते ।
स्थाल्यां पचति ।
मोक्षे इच्छास्ति ।
सर्वस्मिन्नात्मास्ति ।
वनस्य दूरे अन्तिके वा ।
इति विभक्ति-अर्थ प्रकरणम् ॥
--

No comments:

Post a Comment