हिन्दू दैनन्दिन प्रार्थना
--
कराग्रे वसतु लक्ष्मी करमध्ये सरस्वती ।
करमूले स्थिता गौरी प्रभाते करदर्शनम् ॥
--
समुद्रवसने देवि पर्वतस्तनमण्डले ।
विष्णुपत्नी नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥
--
गोविन्देति सदा स्नानं गोविन्देति सदा जपम् ।
गोविन्देति सदा ध्यानं सदा गोविन्द कीर्तनम् ।
--
गङ्गे च यमुने चैव गोदावरी सरस्वती ।
नर्मदा सिन्धु कावेरी जले अस्मिन् सन्निधिं कुरु ॥
--
ॐ अग्निरिति भस्म जलं इति भस्म
स्थलं इति भस्म व्योमिति भस्म ।
सर्वं ह वा इति भस्म
मन एतानि चक्षूंषि भस्म ॥
--
सरस्वति नमस्तुभ्यं वरदे कामरूपिणी ।
विद्यारंभं करिष्यामि सिद्धिर्भवतु मे सदा ॥
--
ब्रह्मार्पणं ब्रह्महविर्
ब्रह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मैव तेन गन्तव्यम्
ब्रह्मकर्म समाधिना ॥
--
तुलसीश्रीसखीशुभे
पापहारिणि पुण्यदे ।
नमस्ते नारदानुते
नमो नारायणप्रिये ॥
--
शुभम् करोति कल्याणं
आरोग्यं धनसंपदा ।
शत्रुबुद्धिविनाशाय
दीपज्योति नमोऽस्तुते ॥
--
मूलतो ब्रह्मरूपाय
मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय
वृक्षराजाय ते नमः ॥
--
करचरणकृतं वा कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम् ।
विहितं विहितं वा सर्वमेतत् क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥
--
--
कराग्रे वसतु लक्ष्मी करमध्ये सरस्वती ।
करमूले स्थिता गौरी प्रभाते करदर्शनम् ॥
--
समुद्रवसने देवि पर्वतस्तनमण्डले ।
विष्णुपत्नी नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥
--
गोविन्देति सदा स्नानं गोविन्देति सदा जपम् ।
गोविन्देति सदा ध्यानं सदा गोविन्द कीर्तनम् ।
--
गङ्गे च यमुने चैव गोदावरी सरस्वती ।
नर्मदा सिन्धु कावेरी जले अस्मिन् सन्निधिं कुरु ॥
--
ॐ अग्निरिति भस्म जलं इति भस्म
स्थलं इति भस्म व्योमिति भस्म ।
सर्वं ह वा इति भस्म
मन एतानि चक्षूंषि भस्म ॥
--
सरस्वति नमस्तुभ्यं वरदे कामरूपिणी ।
विद्यारंभं करिष्यामि सिद्धिर्भवतु मे सदा ॥
--
ब्रह्मार्पणं ब्रह्महविर्
ब्रह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मैव तेन गन्तव्यम्
ब्रह्मकर्म समाधिना ॥
--
तुलसीश्रीसखीशुभे
पापहारिणि पुण्यदे ।
नमस्ते नारदानुते
नमो नारायणप्रिये ॥
--
शुभम् करोति कल्याणं
आरोग्यं धनसंपदा ।
शत्रुबुद्धिविनाशाय
दीपज्योति नमोऽस्तुते ॥
--
मूलतो ब्रह्मरूपाय
मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय
वृक्षराजाय ते नमः ॥
--
करचरणकृतं वा कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम् ।
विहितं विहितं वा सर्वमेतत् क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥
--
hindū dainandina prārthanā
--
karāgre vasatu lakṣmī karamadhye sarasvatī |
karamūle sthitā gaurī prabhāte karadarśanam ||
--
samudravasane devi parvatastanamaṇḍale |
viṣṇupatnī namastubhyaṃ pādasparśaṃ kṣamasva me ||
--
govindeti sadā snānaṃ govindeti sadā japam |
govindeti sadā dhyānaṃ sadā govinda kīrtanam |
--
gaṅge ca yamune caiva godāvarī sarasvatī |
narmadā sindhu kāverī jale asmin sannidhiṃ kuru ||
--
om̐ agniriti bhasma jalaṃ iti bhasma
sthalaṃ iti bhasma vyomiti bhasma |
sarvaṃ ha vā iti bhasma
mana etāni cakṣūṃṣi bhasma ||
--
sarasvati namastubhyaṃ varade kāmarūpiṇī |
vidyāraṃbhaṃ kariṣyāmi siddhirbhavatu me sadā ||
--
brahmārpaṇaṃ brahmahavir
brahmāgnau brahmaṇāhutam |
brahmaiva tena gantavyam
brahmakarma samādhinā ||
--
tulasīśrīsakhīśubhe
pāpahāriṇi puṇyade |
namaste nāradānute
namo nārāyaṇapriye ||
--
śubham karoti kalyāṇaṃ
ārogyaṃ dhanasaṃpadā |
śatrubuddhivināśāya
dīpajyoti namo:'stute ||
--
mūlato brahmarūpāya
madhyato viṣṇurūpiṇe |
agrataḥ śivarūpāya
vṛkṣarājāya te namaḥ ||
--
karacaraṇakṛtaṃ vā kāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vāparādham |
vihitaṃ vihitaṃ vā sarvametat kṣamasva
jaya jaya karuṇābdhe śrīmahādeva śambho ||
--
No comments:
Post a Comment