प्रत्यभिज्ञाहृदये -- 2.
--------------------------
.... अथ विश्वस्य स्वरूपं विभागेन प्रतिपादयितुमाह --
तन्नाना अनुरूपग्राह्यग्राहकभेदात् ।।३।।
'तत्' विश्वं 'नाना' -- अनेकप्रकारम् ।
कथं?
'अनुरूपाणां' -- परस्परौ चित्यावस्थितीनां 'ग्राह्याणां ग्राहकाणां' च 'भेदात्' -- वैचित्र्यात् ।
तथा च सदाशिवतत्त्वे अहन्ताच्छादित-अस्फुटेदन्तामयं यादृशं परापररूपं विश्वं ग्राह्यं, तादृगेव श्रीसदाशिवभट्टारकाधिष्ठितो मन्त्रमहेश्वराख्यः प्रमातृवर्गः परमेश्वरेच्छावकल्पिततथावस्थानः ।
ईश्वरतत्त्वे स्फुटेदन्ताहन्ता-सामानाधिकरण्यात्म यादृक् विश्वं ग्राह्यं, तथाविध एव ईश्वर-भट्टारकाधिष्ठितो मन्त्रेश्वरवर्गः ।
विद्यापदे श्रीमदनन्तभट्टारकाधिष्ठिता बहुशाखावान्तरभेदभिन्ना यथाभूता मन्त्राः प्रमातारः, तथाभूतमेव भेदैकसारं विश्वमपि प्रमेयम् ।
मायोर्ध्वे यादृशा विज्ञानाकलाः कर्तृताशून्यशुद्ध-बोधात्मानः, तादृगेव तदभेदसारं सकल-प्रलयात्मक-पूर्वावस्थापरिचितम् एषां प्रमेयम् । मायायां शून्यप्रमातृणां प्रलयकेवलिनां स्वोचितं प्रलीन-कल्पं प्रमेयम् । क्षितिपर्यन्तावस्थितानां तु सकलानां सर्वतो भिन्नानां परिमितानां तथाभूतमेव प्रमेयम् । तदुत्तीर्णशिवभट्टारकस्य प्रकाशैकवपुषः प्रकाशैकरूपा एव भावाः । श्रीमत्परमशिवस्य पुनः विश्वोत्तीर्ण-विश्वात्मक-परमानन्दमय-प्रकाशैकघनस्य एवंविधमेव शिविका धरण्यन्तम् अखिलम् अभेदेनैव स्फुरति, न तु वस्तुतः अन्यत् किञ्चित् ग्राह्यं ग्राहकं वा, अपि तु श्रीपरमशिवभट्टारक एव इत्थ नानावैचित्र्य-सहस्रैः स्फुरति-इत्यभिहितप्रायम्।। ३।।
यथा च भगवान् विश्वशरीरः, तथा
चितिसंकोचात्मा चेतनोऽपि संकुचितविश्वमयः।। ४।।
(क्रमशः, follows in the next post)
***
No comments:
Post a Comment