सूत्र 14
--
ननु यदि पारमार्थिकं चिच्छक्तिपदं सकल-भेद-कवलन-स्वभावं, तत् अस्य मायापदेऽपि तथारूपेणभवितव्यं यथा जलदाच्छादितस्यापि भानुः भावावभासकत्त्वम् । इत्याशङ्क्य आह
चितिवह्निरवरोहपदे छन्नोऽपि मात्रया मेयेन्धनं प्लुष्यति ।।१४।।
'चितिरेव' विश्वग्रसनशीलत्वात् 'वह्निः', असौ एव 'अवरोहपदेमायाप्रमातृतायां छन्नोऽपि' -- स्वातन्त्र्यात् आच्छादितस्वभावोऽपि, भूरिभूतिच्छन्नाग्निवत् 'मात्रया' -- अंशेन, नीलपीतादिप्रमेयेन्धनं प्लुष्यति -- स्वात्मसात् करोति । मात्रापदस्य इदम् आकूतम् -- यत् कवलयन् अपि सार्वात्म्येन न ग्रसते, अपि तु अंशेन, संस्कारात्मना उत्थापयति ।
ग्रासकत्वं च सर्वप्रमातृऽणां*१ स्वानुभवत एव सिद्धम् । यदुक्तं श्रीमदुत्पलदेवपादैः निजस्तोत्रेषु
'वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः ।
ग्रसमानास्ततो वन्दे देव*२ विश्वं भवन्मयम् ।।'
इति ।।१४।।
***
(*१ न ह्रस्वं, अपि च दीर्घं ऋकारं अत्र दृष्टव्यं)
*२वा, देवं... वर्तनीत्रुटिः?)
यदा पुनः करणेश्वरीप्रसरसंकोचं संपाद्य सर्गसंहारक्रमपरिशीलन युक्तिम् आविशति तदा
बललाभे विश्वमात्मसात्करोति ।।१५।।
(क्रमशः -follows the next post)
***
No comments:
Post a Comment