Thursday, 15 July 2021

तद्भूमिकाः सर्वदर्शनस्थितयः ।।

प्रत्यभिज्ञाहृदये 8

***

एवं च 

तद्भूमिकाः सर्वदर्शनस्थितयः ।।८।।

'सर्वेषां' चार्वाकादिदर्शनानां 'स्थितयः'-सिद्धान्ताः 'तस्य' एतस्य आत्मनो नटस्येव स्वेच्छावग्रहीताः कृत्रिमा भूमिका ।

तथा च,

'चैतन्यविशिष्टं शरीरमात्मा ।'

नैयायिकादयो ज्ञानादिगुणगणाश्रयं बुद्धितत्त्वप्रायमेव आत्मानं संसृतौ मन्यन्ते, अपवर्गे तु तदुच्छेदे शून्यप्रायम् ।

अहंप्रतीतिप्रत्येयः सुखदुःखाद्युपाधिभिः तिरस्कृतः आत्मा-इति मन्वाना मीमांसका अपि बुद्धावेव निविष्टाः ।

ज्ञानसंतान एव तत्त्वम्-इति सौगता बुद्धिवृत्तिषु एव पर्यवसिताः ।

प्राण एव आत्मा--इति केचित् श्रुत्यन्तविदः ।

असदेव इदमासीत्-इत्यभावब्रह्मवादिनः शून्यभुवमवगाह्य स्थिताः । माध्यमिका अपि एवमेव ।

परा प्रकृतिः भगवान् वासुदेवः तद्विस्फुल्लिङ्गप्राया एव जीवाः - इति पाञ्चरात्राः परस्या प्रकृतेः परिणामाभ्युपगमात् अव्यक्ते एव अभिनिविष्टाः ।

सांख्यादयस्तु विज्ञानाकलप्रायां भूमिम् अवलम्बन्ते ।

सदेव इदमग्र आसीत्-इति ईश्वरतत्त्वपदमाश्रिता अपरे श्रुत्यन्तविदः ।

शब्दब्रह्ममयं पश्यन्तीरूपम् आत्मतत्त्वम्-इति वैयाकरणाः श्रीसदाशिवपदमध्यासिताः । एवमन्यदपि अनुमन्तव्यम् । एतच्च आगमेषु

'बुद्धितत्त्वे स्थिता बौद्धा गुणेष्वार्हताः स्थिताः। 

स्थिता वेदविदः पुंसि अव्यक्ते पाञ्चरात्रिकाः ।।'

इत्यादिना निरूपितम् ।

विश्वोत्तीर्णमात्मतत्त्वम्--इति तान्त्रिकाः। 

विश्वमयम् इति--कुलाद्याम्नायनिविष्टाः।

विश्वोत्तीर्णं विश्वमयं च --इति त्रिकादिदर्शनविदः।। 

एवम् एकस्यैव चिदात्मनो भगवतः स्वातन्त्र्यावभासिताः सर्वा इमा भूमिकाः स्वातन्त्र्यप्रच्छादनोन्मीलनतारतम्यभेदिताः । अत एक एव एतावद्व्याप्तिक आत्मा ।मितदृष्टयस्तु अंशाशिकासु तदिच्छयैव अभिमानं ग्राहिताः, येन देहादिषु भूमिषु पूर्वपूर्वप्रमातृ व्याप्तिसारताप्रथायामपि उक्तरूपां महाव्याप्तिं परशक्तिपातं विना न लभन्ते । यथोक्तम् 

'वैष्णवाद्यास्तु ये केचिद्विद्यारागेणरञ्जिताः। 

न विदन्ति परं देवं सर्वज्ञं ज्ञानशालिनम् ।।'

इति । तथा 

'भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ।।'

इति ।

'त आत्मोपासकाः शैवं न गच्छन्ति परं पदम्।'

इति च ।

अपि च 'सर्वेषां दर्शनानां'-- समस्तानां नीलसुखादिज्ञानानां याः 'स्थितयः' 

--अन्तर्मुखरूपा विश्रान्तयः ताः 'तद्भूमिकाः' -- चिदानन्दघनस्वात्मस्वरूपाभिव्यक्त्युपायाः । तथा हि यदा यदा बहिर्मुखं रूपं स्वरूपे विश्राम्यति, तदा तदा बाह्यवस्तूपसंहारः, अन्तः प्रशान्तपदावस्थितिः,  तत्तदुदेष्यत्संतत्यासूत्रणम्, -इति सृष्टि-स्थितिसंहारमेलनरूपा इदं तुरीया संविद्भट्टारिका तत्तत्सृष्ट्यादि भेदान् उद्वमन्ती संस्तुति च, सदा पूर्णा च, कृशा च, उभयरूपा च अनुभयात्मा च अक्रममेव स्फुरन्ती स्थिता । 

उक्तं च श्रीप्रत्यभिज्ञाटीकायाम् ।

'तावदर्थावलेहेन उत्तिष्ठति,  पूर्णा च भवति'

इति । एषा च भट्टारिका क्रमात्क्रमम् अधिकमनुशील्यमाना स्वात्मसात्करोत्येव भक्तजनम् ।।८।।

***

यदि एवंभूतस्य आत्मनो विभूतिः, तत् कथं अयं मलावृतः अणुः कलादिवलितः संसारी अभिधीयते?  इत्याह --

चिद्वत्तच्छक्तिसंकोचात् मलावृतः संसारी ।।९।।

(क्रमशः  Follows in the next post) 

***






No comments:

Post a Comment