प्रत्यभिज्ञाहृदये 9, 10
-----------------------
यदि एवंभूतस्य आत्मनो विभूतिः, तत् कथम् अयं मलावृतः अणुः कलादिवलितः संसारी अभिधीयते? -इत्याह ...
चिद्वत्तच्छक्तिसंकोचात् मलावृतः संसारी ।।९।।
यदा 'चिदात्म' परमेश्वरः स्वस्वातन्त्र्यात् अभेदव्याप्तिं निमज्ज्य भेदव्याप्तिं अवलम्बते, तदा 'तदीया इच्छादिशक्तयः' असंकुचिता अपि 'संकोचवत्यो' भान्ति, तदानीमेव च अयं 'मलावृतः संसारी' भवति । तथा च अप्रतिहतस्वातन्त्र्यरूपा इच्छाशक्तिः संकुचिता सती अपूर्णंमन्यतारूपम् आणवं मलम्,
ज्ञानशक्तिः क्रमेण संकोचात् भेदे सर्वज्ञत्वस्य किंचिज्ज्ञत्वाप्तेः अन्तःकरण-बुद्धीन्द्रियतापत्तिपूर्वम् अत्यन्तं संकोचग्रहणेन भिन्नवेद्यप्रथारूपं मायीयं मलम्,
क्रियाशक्तिः क्रमेण भेदे सर्वकर्तृत्वाप्तेः कर्मेन्द्रियरूप-संकोच-ग्रहणपूर्वम् अत्यन्तं परिमिततां प्राप्ता शुभाशुभानुष्ठानमयं कार्मं मलम् ।
तथा,
सर्वकर्तृत्व सर्वज्ञत्व-पूर्णत्व-नित्यत्व-व्यापकत्वशक्तयः संकोचं गृह्णाना यथाक्रमं कला-विद्या-राग-नियति-रूपतया भान्ति । तथाविधश्च अयं शक्तिदरिद्रः संसारी उच्यते, स्वशक्तिविकासे तु शिव एव ।।९।।
ननु संसार्यवस्थायाम् अस्य किंचित् शिवतोचितम् अभिज्ञानमस्ति येन शिव एव तथावस्थितः? --इत्युद्घोष्यते 'अस्ति' --इत्याह
तथापि तद्वत् पञ्चकृत्यानि करोति ।।१०।।
इह ईश्वराद्वयदर्शनस्य ब्रह्मवादिभ्यः अयमेव विशेषः यत्
'सृष्टिसंहारकर्तारं विलयस्थितिकारकम् ।
अनुग्रहकरं देवं प्रणतार्तिविनाशनम् ।।
इति श्रीवत्स्वच्छन्दादिशासनोक्तनीत्या सदा पञ्चविध-कृत्य-कारित्वं चिदात्मनो भगवतः। यथा च भगवान् शुद्धेतराध्व-स्फारेण स्वरूपविकासरूपाणि सृष्ट्यादीनि करोति, तथा 'संकुचितचिच्छक्तितया' संसारभूमिकायामपि 'पञ्चकृत्यानि' विधत्ते । तथा हि
'तदेवं व्यवहारेऽपिप्रभुर्देवादिमाविशन् ।
भान्तमेवान्तरर्थौघमिच्छया भासयेद्बहिः ।।'
इति प्रत्यभिज्ञाकारिकोक्तार्थदृष्ट्या देहप्राणादिपदम् आविशन् चिद्रूपो महेश्वरो बहिर्मुखीभावावसरे नीलादिकमर्थं नियतदेशकालादितया यदा आभासयति, तदा नियतदेशकालाद्याभासांशे अस्य स्रष्टता, अन्यदेशकालाद्याभासांशे अस्य संहर्तृता, नीलाद्याभासांशे स्थापकता, भेदेन आभासांशे विलयकारिता, प्रकाशैक्येन प्रकाशने अनुगृहीतृता । यथा च सदा पञ्चविधकृत्यकारितं भगवतः तथा मया* वितत्य स्पन्दसंदोहे निर्णीतम् ।
एवमिदं पञ्चविधकृत्यकारित्वम् आत्मीयं सदा दृढप्रतिपत्त्या परिशील्यमानं माहेश्वर्यम् उन्मीलयत्येव भक्तिभाजाम् । अत एव ये सदा एतत् परिशीलयन्ति, ते स्वरूपविकासमयं विश्वं जानाना जीवन्मुक्ता-इत्याम्नाताः । ये तु न तथा, ते सर्वतो विभिन्नं मेयजातं पश्यन्तो बद्धात्मानः ।।१०।।
न अयमेव प्रकारः पञ्चविधकृत्यकारित्वे, यावत् अन्योऽपि कश्चित् रहस्यरूपोऽस्ति । -- इत्याह
आभासन-रक्ति-विमर्शन-बीजावस्थापन-विलापनतस्तानि।।११।।
(क्रमशः, follows the next post)
***
No comments:
Post a Comment