प्रत्यभिज्ञाहृदये - 3
--
यथा च भगवान् विश्वशरीरः, तथा
चितिसंकोचात्मा चेतनोऽपि संकुचितविश्वमयः ।।४।।
श्रीपरमशिवः स्वात्मैक्येन स्थितं विश्वं सदाशिवाद्युतेन रूपेण अवभासयिषुः पूर्वं चिदैक्याख्यातिमयानाश्रितशिवपर्यायशून्याति-शून्यात्मतया प्रकाशाभेदेन प्रकाशमानतया स्फुरति, ततः चिद्रसा-श्यानतारूपाशेषतत्त्वभुवनभाव-तत्तत्प्रमात्राद्यात्मतयापि ब्रूते। यथा च एवं भगवान् विश्वशरीरः, तथा 'चितिसंकोचात्मा' संकुचितः चिद्रूप 'चेतना' ग्राहकोऽपि वटधानिकावत् संकुचिता-शेषविश्वरूपः।। तथा च सिद्धान्तवचनम् --
'विग्रहो विग्रही चैव सर्वविग्रहविग्रही।'
इति ।
त्रिशिरो-मतेऽपि
'सर्वदेवमयः कायस्तं चेदानीं शृणु प्रिये।
पृथिवी कठिनत्वेन द्रवत्वेऽम्भः प्रकीर्तितम्।'
इत्युपक्रम्य
'त्रिशिरो भैरवः साक्षाद्व्याप्य विश्वं व्यवस्थितः ।।'
इत्यन्तेन ग्रन्थेन ग्राहकस्य संकुचितविश्वमयत्वमेव व्याहरति ।
अयं च अत्राशयः --
ग्राहकोऽपि अयं प्रकाशैकात्म्यैन उक्तागमयुक्त्या च विश्वशरीरशिवैकरूप एव, केवलं तन्मायाशक्त्या अनभिव्यक्त-स्वरूपत्वात् संकुचित इव आभाति, संकोचोऽपि विचार्यमाणः चिदैकात्म्यैन प्रथमानत्वात् चिन्मय एव, अन्यथा तु न किंचित । -- इति सर्वो ग्राहको विश्वशरीरः शिवभट्टारक एव ।
तदुक्तं मयैव --
'अख्यातिर्यदि न ख्याति ख्यातिरेवावशिष्यते।
ख्याति चेत् ख्यातिरूपत्वात् ख्यातिरेवावशिष्यते ।।'
इति । अनेनैव आशयेन श्रीस्पन्दशास्त्रेषु
'यस्मात्सर्वमयो जीवः...........।'
इत्युपक्रम्य
'तेन शब्दार्थचिन्तासु न सावस्था न यः शिवः ।।'
इत्यादिना शिवजीवयोरभेद एव उक्तः ।
एतत्तत्त्वपरिज्ञानमेव मुक्तिः, एतत्तत्त्वापरिज्ञानमेव च बन्धः, इति भविष्यति एव एतत् ।।४।।
ननु ग्राहकोऽयम् विकल्पमयः, विकल्पनं च चित्तहेतुकं, सति च चित्ते, कथमस्यशिवात्मकत्वम्?
-- इति शङ्कित्वा चित्तमेव निर्णेतुमाह --
चितिरेव चेतनपदारूढा चेत्यसंकोचिनी चित्तम् ।।५।।
क्रमशः प्रत्यभिज्ञाहृदये ...
***
No comments:
Post a Comment