प्रत्यभिज्ञाहृदये
***
सूत्र 18
--
मध्यविकासे युक्तिमाह
विकल्प-क्षयशक्तिसंकोचविकासवाहच्छेदाद्यन्तकोटिनिभालनादय इहोपायाः ।।१८।।
'इह' मध्यशक्तिविकासे 'विकल्पक्षयादय उपायाः' । प्रागुपदिष्टपञ्चविधकृत्यकारित्वाद्यनुसारेण सर्वमध्यभूतायाः संविदो विकासो जायते -- इति अभिप्रायम् । उपायान्तरम् अपि तु उच्यते, -- प्राणायाममुद्राबन्धादिसमस्तयन्त्रणातंत्रत्रोटनेन सुखोपायमेव, हृदये निहितचित्तः, उक्तयुक्त्या स्वस्थितिप्रतिबन्धकं विकल्पम् अकिंचिच्चिन्तकत्वेन प्रशमयन् अविकल्पपरामर्शेन देहाद्यकलुषस्वचित्प्रमातृतानिभालनप्रवणः, अचिरादेव उन्मिषद्विकासां तुर्य-तुर्यातीतसमावेशदशाम् आसादयति । तथोक्तम्
'विकल्पहानेनैकाग्र्यात्क्रमेणेश्वरतापदम् ।'
इति श्रीप्रत्यभिज्ञायाम् । श्रीस्पन्देऽपि
'यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ।।'
इति । श्रीज्ञानगर्भेऽपि
'विहाय सकलाः क्रियाः जननिं मानसीः सर्वतो
विमुक्तकरणक्रियानुसृतिपारतन्त्र्योज्ज्वलम् ।
स्थितैस्त्वदनुभावतः सपदि वेद्यते सा परा
दशानृभिन्द्रितासमसुखामृतस्यनन्दिनी ।।'
इति । अयं च उपायो मूर्धन्यत्वात् प्रत्यभिज्ञायां प्रतिपादितत्वात् आदौ उक्तः । शक्तिसंकोचादयस्तु यद्यपि प्रत्यभिज्ञायां न प्रतिपादिताः, तथापि आम्नायिकत्वात् अस्माभिः प्रसङ्गात् प्रदर्श्यन्ते, बहुषु हि प्रदर्शितेषु कश्चित् केनचित् प्रवेक्ष्यति इति ।
'शक्तेः संकोच' --इन्द्रियद्वारेण प्रसरन्त्या एव आकुञ्चनक्रमेण उन्मुखीकरणम् । यथोक्तम् आथर्विणिकोपनिषत्सु कठवल्यां चतुर्थवल्ली प्रथममन्त्रे
'पराञ्चि खानि व्यतृणत्स्वयंभू-
स्तस्मात्पराङ् पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्षद्
आवृत्तचक्षुरमृतत्वमश्नन् ।।'
इति । प्रसृताया अपि वा कूर्माङ्गसंकोचवत् त्राससमये हृत्प्रवेशवच्च सर्वतो निवर्तनम् । यथोक्तम्
'तदपोद्धृते नित्योदितस्थितिः ।'
इति ।
'शक्तेर्विकासः' अन्तर्निगूढाया अक्रममेव सकलकरणचक्रविस्फारणेन
'अन्तर्लक्ष्यो बहिर्दृष्टिर्निमेषोन्मेषवर्जितः ।'
इति । भैरवीमुद्रानुप्रवेशयुक्त्या बहिः प्रसरणम् ।
यथोक्तं कक्ष्यास्तोत्रे
'सर्वाः शक्तिश्चेतसा दर्शनाद्याः
स्वे स्वे वेद्ये यौगपद्येन विष्वक् ।
क्षिप्त्वा मध्ये हाटकस्तम्भभूत-
स्तिष्ठन्विश्वाधार एकोऽवभासि ।।'
इति । श्रीभट्टकल्लेनापि उत्तमा
'रूपादिषु परिणामात् तत्सिद्धिः ।'
इति शक्तेश्चसंकोचविकासौ, नासापुटस्पन्दक्रमोपन्मिषत्सूक्ष्मप्राणशक्त्या भ्रूभेदनेन 'क्रमासादितोर्ध्वकुण्डलिनीपदे प्रसरविश्रान्तिदशापरिशीलनम्, अधःकुण्डलिन्यां च षष्ठवक्त्ररूपायां प्रगुणीकृत्यशक्तिं, तन्मूल-तदग्र-तन्मध्यभूमिस्पर्शावेशः । यथोक्तं विज्ञानभट्टारके
'वह्नेर्विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत् ।
केवलं वायुपूर्णं वा स्मरानन्देन युज्यते ।।'
इति । अत्र वह्निः अनुप्रवेशक्रमेण संकोचभूः, विषस्थानम् प्रसरयुक्त्या विकासपदम्, 'विष्लृव्याप्तौ' इति अर्थानुगमात् ।
'वाहयोः' -- वामदक्षिणगतयोः 'छेदो' --हृदयविश्रान्तिपुरःसरम् । यथोक्तं ज्ञानगर्भे
'अनच्क-ककृतायतिप्रसृतपार्श्वनाडीद्वय-
च्छिदो विधृतचेतसो हृदयपङ्कजस्योदरे ।
उदेति तव दारितान्धतमसः स विद्याङ्कुरो
य एष परमेशतां जनयितुं पशोरप्यलम् ।।'
इति ।
'आदिकोटिः' हृदयाय, 'अन्तकोटिः' द्वादशान्तः, तयोः प्राणोल्लासविश्रान्त्यवसरे 'निभालनं' --चित्तनिवेशनेन परिशीलनम् । यथोक्तं विज्ञानभैरवे
'हृद्याकाशे निलीनाक्षः पद्मसंपुटमध्यगः।
अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात् ।।'
इति । तथा
'यथा तथा यत्र तत्र द्वादशान्ते मनःक्षिपेत् ।
प्रतिक्षणं क्षीणवृत्तेर्वैलक्षण्यं दिनैर्भवेत् ।।'
इति । आदिपदात् उन्मेषदशानिवेशनम्
'उन्मेष स तु विज्ञेयः स्वयं तमुपलक्षयेत् ।।'
इति स्पन्दे । तथा रमणीयविषयचर्वणादयश्च संगृहीताः यथोक्तं श्रीविज्ञानभैरवे एव
'जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् ।
भावयेद्भरितावस्थां महानन्दमयो भवेत् ।।
गीतादिविषयास्वादासमसौख्यैकतात्मनः ।
योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता ।।
यत्र तत्र मनस्तुष्टिर्मनस्तत्रैव धारयेत् ।
तत्र तत्र परानन्दस्वरूपं संप्रकाशते ।।'
इति ।
एवमन्यदपि आनन्दपूर्णस्वात्मभावनादिकम् अनुमन्तव्यम् । इत्येवमादयः अत्र मध्यविकासे उपायाः ।।१८।।
***
(क्रमशः follows the next post.)
***
No comments:
Post a Comment