Friday, 23 July 2021

तदा प्रकाशानन्दसार ...

प्रत्यभिज्ञाहृदये 

सूत्र 20

***

इदानीम् अस्य समाधिलाभस्य फलमाह --

तदा प्रकाशानन्दसारमहामन्त्रवीर्यात्मकपूर्णाहन्तावेशात्सदा-सर्वसर्ग-संहारकारि-निजसंविद्देवताचक्रेश्वरताप्राप्तिर्भवतीति शिवम् ।।२०।।

***

नित्योदिते समाधौ लब्धे सति, 

'प्रकाशानन्दसारा' --चिदाह्लादैकघना 'महती मन्त्रवीर्यात्मिका' -- सर्वमन्त्रजीवितभूता 'पूर्णा' पराभट्टारिकारूपा या इयम् 'अहन्ता' --अकृत्रिमः स्वात्मचमत्कारः, तत्र 'आवेशात्' 'सदा कालाग्न्यादेः' चरमकलापर्यन्तस्य विश्वस्य यौ 'सर्गसंहारौ' विचित्रौ सृष्टि-प्रलयौ 'तत्कारि' यत् 'निजं संविद्देवताचक्रं' 'तदैश्वर्यस्य' 'प्राप्तिः' --- आसादनं  'भवति',  प्राकरणिकस्य परमयोगिनः इत्यर्थः, इति'एतत् सर्वं संवेद्यते, तस्य संवेदनमेव स्वरूपं, तस्यापि अन्तर्मुखविमर्शयाः प्रमातारः तत्वम्, तेषामपि विगलित-देहाद्युपाधि-संकोचाभिमाना अशेषशरीरा सदाशिवेश्वरतैव सारम्, अस्या अपि प्रकाशैकसद्भावापादित-शेषविश्वचमत्कारमयः श्रीमान् महेश्वर एव परमार्थः, --नहि पारमार्थिकप्रकाशावेशं विना कस्यापि प्रकाशमानता घटते ---स च परमेश्वरः स्वातन्त्र्य-सारत्वात् आदि-क्षान्तामायीय-शब्दराशि-परामर्शमयत्वेनैव एतत्स्वीकृत-समस्त- वाच्यवाचकमयाशेष-जगदानन्द-सद्भावापादनात् परं परिपूर्णत्वात् सर्वाकाङ्क्षाशून्यतया आनन्द-प्रसरनिर्भरः, अत एव अनुत्तराकुलस्वरूपात् अकारात् आरभ्य शक्तिस्फाररूप-ह-कलापर्यन्तं यत् विश्वं प्रसृतं, क्ष-कारस्य-प्रसर-शमन-रूपत्वात्, तत् अकार-हकाराभ्यामेव संपुटीकारयुक्त्या  प्रत्याहारन्यायेन अन्तः स्वीकृतं सत् अविभागवेदनात्मकबिन्दुरूपतया स्फुरितम् अनुत्तर एव विश्राम्यति, --इति शब्दराशिस्वरूप एव अयम् अकृतको विमर्शः। यथोक्तं 

'प्रकाशस्यात्मविश्रान्तिरहं-भावो हि कीर्तितः ।

उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः ।।

स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च ।'

इति । एषैव च अहन्ता सर्वमन्त्राणाम् उदयविश्रान्तिस्थानत्वात् एतद्बलेनैव तदर्थक्रियाकारित्वात् महती वीर्यभूमिः । तदुक्तं

'तदाक्रम्य बलं मन्त्रा...'

इत्यादि

'... ... ... ... ... ... ... ... ... त एते शिवधर्मिणः ।।'

इत्यन्तम् श्रीस्पन्दे । शिवसूत्रेषु अपि 

'महाह्रदानुसंधानान्मन्त्रवीर्यानुभवः, (१ उ० २२ सू०)

इति । तदत्र महामन्त्रवीर्यात्मिकायां पूर्णाहन्तायाम् 'आवेशो' -- देहप्राणादिनिमज्जनात् तत्पदावाप्त्यवष्टम्भेन देहादीनामपितद्रसाप्लावनेन तन्मयीकरणम् । तथा हि -- देहसुखनीलादिवत्यत्किंचित् प्रथते, अध्यवसीयते, स्मर्यते, संकल्प्यते वा, तत्र सर्वत्रैव भगवती चितिशक्तिमयी प्रथा भित्तिभूतैव स्फुरति, --तदस्फुरणे कस्यापि अस्फुरणात् इति उक्तत्वात् । केवलं तथा स्फुरन्त्यपि सा तन्मायाशक्त्या अवभासितदेहनीलाद्युपरागदत्ताभिमानवशात् भिन्न-भिन्नस्वभावा इव भान्ति ज्ञानसंकल्पाध्यवसाया मायाप्रमातृभिः अभिमन्यते,  वस्तुतस्तु एकैव असौ चितिशक्तिः । यथोक्तम् 

'या चोखा प्रतिभा तत्तत्पदार्थक्रमरूपिता ।

अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ।।'

इति । तथा 

'मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा ।

कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः  ।।'

इति  । एवम् एषा सर्वदशासु एकैव चितिशक्तिः विजृम्भमाणा यदि तदनुप्रवेश-तदवष्टम्भयुक्त्या समासाद्यते, तत् तदावेशात् पूर्वोक्तयुक्त्या करणोन्मीलननिमीलनक्रमेण सर्वस्य सर्वमयत्वात् तत्तत्संहारादौ अपि 'सदासर्वससर्गसंहारकारि' यत् 'सहजसंवित्तिदेवताचक्रम्' अमायीयान्तर्बहिष्करणमरीचिपुञ्जः, तत्र 'ईश्वरता' --साम्राज्यं परभैरवात्मता, तत्प्राप्तिः भवति परमयोगिनः । यथोक्तम् 

'यदा त्वैकत्र संरूढस्तदा तस्य लयोद्भवौ ।

नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत्  ।।'

इति । अत्र एकत्र इति 

'एकत्रारोपयते सर्वम् ... ... ... ... ... ... ... ।'

इति । चित्सामान्यस्पन्दभूः उन्मेषात्मा व्याख्यातव्या । तस्य इति अनेन 

'पुर्यष्टकेन संरुद्ध...  ... ... ... ... ... ... ... ।'

इति उपक्रान्तं पुर्यष्टकम् एव पराम्रष्टव्यम्, न तु यथा विवरणकृतः 'एकत्र सूक्ष्मे स्थूल शरीरे वा' इति व्याकृतवन्तः । स्तुतं च मया 

'स्वतन्त्रश्चितिचक्राणां चक्रवर्ती महेश्वर ।

संवित्तिं देवताचक्रजुष्टः कोऽपि जयत्यसौ ।।'

इति । इतिशब्द उपसंहारे, यत् एतावत् उक्तप्रकरणशरीरं तत् सर्वं 'शिवम्-शिवप्राप्तिहेतुत्वात् शिवात् प्रसृतत्वात् शिवस्वरूपाभिन्नत्वात् च शिवमयमेव इति शिवम् ।।

देहप्राणसुखादिभिः प्रतिकलं संरुध्यमानो जनः पूर्णानन्दघनामिमां न चिनुते माहेश्वरीं स्वां चितिम् ।

मध्ये बोधसुधाब्धिविश्वमभितस्तत्फेनपिण्डोपमम् 

यः पश्येदुपदेशतस्तु कथितः साक्षात्स एकः शिवः ।।

येषां वृत्तः शांकरशक्तिपातो

येऽनभ्यासात्तीक्ष्णयुक्तिष्वयोग्याः ।

शक्ता ज्ञातुं नेश्वरप्रत्यभिज्ञा-मुक्तस्तेषामेष तत्त्वोपदेशः ।।

।। समाप्तमिदं प्रत्यभिज्ञाहृदयम् ।।

***

कृतिस्तत्रभवान्महामाहेश्वराचार्यवर्य श्रीमदभिनवगुप्तपादपद्मोपजीविनः श्रीमतो राजानकक्षेमराजाचार्यस्य ।।

शुभमस्तु।। 

--

( कृतिस्तत्रभवन्  कृतिस्तत्रभवान् वा ?)

।। ॐ शिवार्पणमस्तु ।। 

***


 



No comments:

Post a Comment