Sunday, 18 July 2021

तदपरिज्ञाने स्वशक्तिभिर्व्यामोहितता

प्रत्यभिज्ञाहृदये 

सूत्र १२

***

यस्य पुनः सद्गुरूपदेशं विना एतत्परिज्ञानं नास्ति, 

तस्य अवच्छादितस्वरूपाभिः निजाभिः शक्तिभिः व्यामोहितत्वं भवति । -- इत्याह --

तदपरिज्ञाने स्वशक्तिभिर्व्यामोहितता संसारित्वम्  ।।१२।।

'तस्य' -एतस्य, सदा संभवतः पञ्चविध-कृत्य-कारित्वस्य 'अपरिज्ञाने' -- शक्तिपातहेतुक-स्वबलोन्मीलनात् अप्रकाशने 'स्वाभिः शक्तिभिः व्यामोहितत्वं'  --विविधलौकिकशास्त्रीयशङ्काशंकुकीलितत्वं यत्,  इयमेव 'संसारित्वम्' ।

तदुक्तं श्रीसर्ववीरभट्टारके --

'अज्ञानाच्छङ्कते लोकस्ततः सृष्टिश्च संहृतिः।। 

इति ।

'मन्त्रा वर्णात्मकाः सर्वे सर्वे वर्णा शिवात्मकाः ।।'

इति च ।

तथा हि -- चित्प्रकाशात् अव्यतिरिक्ता नित्योदितमहामन्त्ररूपा पूर्णाहं-विमर्शमयी या इदं परा वाक्शक्तिः आदि-क्षान्त-रूपाशेष-शक्तिचक्रगर्भिणी, सा तावत् पश्यन्तीमध्यमादिक्रमेण ग्राहक-भूमिकां भासयति । तत्र च परारूपत्वेन स्वरूपम् अप्रथयन्ती मायाप्रमातुः अस्फुटा-साधारणार्थावभासरूपां प्रतिक्षणं नवनवां 'विकल्पक्रियामुल्लासयति' शुद्धामपि च अविकल्पभूमिं तदाच्छादितामेव दर्शयति । तत्र च बाह्यादिदेवताधिष्ठितककारादिविचित्रशक्तिभिः व्यामोहितो देहप्राणादिमेव परिमितम् अवशम् आत्मानं मन्यते मूढजनः । ब्राह्म्यादिदेव्यः पशुदशायां भेदविषये सृष्टिस्थिती अभेदविषये च संहारं प्रथयन्त्यः परिमितविकल्पपात्रतामेव संपादयन्ति, पतिदशायां तु भेदे संहारं अभेदे च सर्गस्थिती प्रकटयन्त्यः, क्रमात्क्रमं विकल्पनिर्ह्रासनेन श्रीमद्भैरवमुद्रानुप्रवेशमयीं महतीं अविकल्पभूमिमेव उन्मीलयन्ति ।

'सर्वो ममायं विभव इत्येवं परिजानतः। 

विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ।।'

इत्यादिरूपां चिदानन्दवेशमग्नां शुद्धविकल्पशक्तिम् उल्लासयन्ति, ततः उक्तनीत्या स्वशक्ति-व्यामोहिततैव संसारित्वम् ।

किंच चितिशक्तिरेव भगवती विश्ववमनात् संसारवामाचारत्वाच्च वामेश्वर्याख्या सती, खेचरी-गोचरी-दिक्चरी-भूचरीरूपैः अशेषैः प्रमातृ-अन्तःकरण-बहिष्करण-भावस्वभावैः परिस्फुरन्ती, पशुभूमिकायां शून्यपदविश्रान्ता किंचित्कर्तृत्वाद्यात्मकः-कलादि-शक्त्यात्मनागोपितपारमार्थिकचिद्गगनचरीत्वस्वरूपेण चकास्ति, भेदनिश्चयाभिमानविकल्पनप्रधानान्तःकरणदेवीरूपेण गोचरीचक्रेण गोपिताभेदनिश्चयाद्यात्मकपारमार्थिकस्वरूपेण प्रकाशते, भेदालोचनादिप्रधानबहिष्करण-देवतात्मना च दिक्चरीचक्रेण गोपिताभेदप्रथात्मकपारमार्थिकस्वरूपेण स्फुरति, सर्वतो व्यवच्छिन्नाभासस्वभावप्रमेयात्मना च भूचरीचक्रेण गोपित-सार्वात्म्यस्वरूपेण पशुहृदयव्यामोहिना भाति । पतिभूमिकायां तु सर्शकर्तृत्वादिशक्त्यात्मक चिद्गगनचरीत्वेन,  अभेदनिश्चयाद्यात्मना गोचरीत्वेन, अभेदालोचनाद्यात्मना दिक्चरीत्वेन,  स्वाङ्गकल्पाद्वयप्रथासारप्रमेयात्मना च भूचरीत्वेन पतिहृदयविकासिना स्फुरति । तथा च उक्तं सहजचमत्कारपरिजनिताकृतदारेण भट्टदामोदरेन विमुक्तकेषु

'पूर्णावच्छिन्नमात्रान्तर्बहिष्करणभावगाः ।

वामेशाद्याः परिज्ञानाज्ञानात्स्युर्मुक्तिबन्धदाः ।।'

इति । एवं च निजशक्तिव्यामोहिततैव संसारित्वम् । 

अपि च चिदात्मनः परमेश्वरस्य स्वा अनपायिनी* एकैव स्फुरत्तासारकर्तृतात्मा ऐश्वर्यशक्तिः । 

(*अन्-अपायिनी?) 

सा यदा स्वरूपं गोपयित्वा पाशवे पदे प्राणापान-समान-शक्तिदशाभिः जाग्रत्स्वप्न-सुषुप्तभूमिभिः देहप्राणपुर्यष्टक-कलाभिश्च व्यामोहयति, तदा तद्व्यामोहितता संसारित्वम्, यदा तु मध्यधामोल्लासम् उदानशक्तिं, विश्वव्याप्तिसारां च व्यानशक्तिं, तुर्यदशारूपां तुर्यातीतदशारूपां च चिदानन्दघनाम् उन्मीलयति, तदा देहाद्यवस्थायामपि पतिदशात्मा जीवन्मुक्तर्भवति । एवं त्रिधा स्वशक्तिव्यामोहितता व्याख्याता  । 'चिद्वत्' इति (९) सूत्र चित्प्रकाशो गृहीतसंकोचः संसारी इत्युक्तम्, इह तु स्वशक्ति-व्यामोहितत्वेन अस्य संसारित्वं भवति,  -- इति भङ्ग्यन्तरेण उक्तम् । एवं संकुचितशक्तिः प्राणादिमानपि यदा स्वशक्तिव्यामोहितो न भवति, तदा अयम् 

..........................     शरीरी परमेश्वरः  ।'

इत्याम्नायस्थित्वा शिवभट्टारक एव, -- इति भङ्ग्या निरूपित भवति ।

यदागमः 

मनुष्यदेहमास्थाय छन्नास्ते परमेश्वराः ।'

इति । उक्तं च प्रत्यभिज्ञाटीकायाम् 

'शरीरमेव घटाद्यपि वा ये षट्त्रिंशत्तत्त्वमयं 

शिवरूपतया पश्यन्ति तेऽपि सिद्ध्यन्ति ।'

इति ।।१२।।

उक्तसूत्रार्थप्रातिपक्षेण तत्त्वदृष्टिं दर्शयितुमाह 

तत्परिज्ञाने चित्तमेव अन्तर्मुखी भावेन  ।

चेतनपदाध्यारोहात् चितिः  ।।१३।।

(क्रमशः,  follows the next post) 

***







No comments:

Post a Comment