प्रत्यभिज्ञाहृदये
***
सूत्र 19
***
मध्यविकासाच्चिदानन्दलाभः, स एव च परमयोगिनः समावेशसमापत्त्यादिपर्यायः समाधिः, तस्य नित्योदितत्वे युक्तिमाह --
समाधिसंस्कारवति व्युत्थाने भूयो भूयश्चिदैक्यामर्शान्नित्योदित-समाधिलाभः ।।१९।।
आसादितसमावेशो योगिवरो व्युत्थाने अपि समाधिरससंस्कारेण क्षीव इव सानन्दं घूर्णमानो, भावराशिं शरदभ्रलवम् इव चिद्गगन एव लीयमानं पश्यन्, भूयो भूयः अन्तर्मुखताम् एव समवलम्बमानो, निमीलनसमाधिक्रमेण चिदैक्यमेव विमृशन् व्युत्थानाभिमतावसरे अपि समाध्येकरस एव भवति । यथोक्तं क्रमसूत्रेषु --
क्रममुद्रया अन्तःस्वरूपया बहिर्मुखः समाविष्टो भवति साधकः । तत्रादौ बाह्यात् अन्तःप्रवेशः, आभ्यन्तरात् बाह्यस्वरूपे प्रवेशः आवेशवशात् जायते, इति सबाह्याभ्यान्तरोऽयं 'मुद्राक्रमः',
इति । अत्रायमर्थः सृष्टि-स्थिति-संहृति-संविच्चक्रात्मकं 'क्रमं' मुद्रयति, स्वाधिष्ठितम् आत्मसात् करोति येयं तुरीया चितिशक्तिः, तया 'क्रममुद्रया', 'अन्तरिति' ---पूर्णाहन्तास्वरूपया, 'बहिर्मुख' --इति, विषयेषु व्याप्पृतः अपि, 'समाविष्टः'-- साक्षात्कृतपरशक्तिस्फारः 'साधकः' --परमयोगी भवति । तत्र च 'बाह्यात्' ग्रस्यमानात् विषयग्रामात् 'अन्तः' परस्यां चितिभूमौ ग्रसनक्रमेणैव 'प्रवेशः' --समावेशो भवति । आभ्यन्तरात् चितिशक्तिस्वरूपात् च साक्षात्कृतात् 'आवेशवशात्' ---समावेशसामर्थ्यात् एव 'बाह्यस्वरूपे' ---इदन्तानिर्भासे विषयग्रामे, वमनयुक्त्या 'प्रवेशः' ---चिद्रसाश्यानताप्रथनात्मा समावेशो जायते, इति 'सबाह्यान्तरः अयं' नित्योदितसमावेशात्मा, 'मुदो' ---हर्षस्य वितरणात् परमानन्दस्वरूपत्वात् पाशद्रावणात् विश्वस्य अन्तः तुरीयसत्तायां मुद्रणात् च मुद्रात्मा, क्रमः अपि सृष्ट्यादि-क्रमाभासकत्वात् च 'क्रम' इति अभिधीयते इति।।१९।।
***
इदानीम् अस्य समाधिलाभस्य फलमाह --
तदा प्रकाशानन्दसार-महामन्त्रवीर्यात्मक-पूर्णाहन्तावेशात्सदा-सर्वसर्ग-संहारकारि-निजसंविद्देवताचक्रेश्वरता-प्राप्तिर्भवतीति शिवम् ।।२०।।
***
(क्रमशः, follows in the next post.)
--
No comments:
Post a Comment