प्रत्यभिज्ञाहृदये - 1.
***
ग्रन्थः
-------
नमो मंगलमूर्तये । अथ प्रत्यभिज्ञाहृदयः ।।
नमः शिवाय सततं पञ्चकृत्यविधायिने ।
चिदानन्दघनस्वात्मपरमार्थावभासिने ।। १
शांकरोपनिषत्सारप्रत्यभिज्ञामहोदधेः ।
क्षेमेणोद्ध्रियतेसारः संसारविषशान्तये ।। २
इह ये सुकुमारमतयोऽकृततीक्ष्णतर्कशास्त्रपरिश्रमाः शक्तिपातोन्मिषित-पारमेश्वरसमावेशाभिलाषिणः कतिचित् भक्तिभाजः तेषाम् ईश्वरप्रत्यभिज्ञोपदेशतत्त्व मनाक् उन्मील्यते। तत्र स्वात्मदेवताया एव सर्वत्र कारणत्वं सुखोपायप्राप्यत्वं महाफलत्वं च अभिव्यङ्क्तुमाह :
चितिः स्वतन्त्रा विश्वसिद्धिहेतुः ।।१।।
'विश्वस्य' -सदाशिवादेः भूम्यन्तस्य 'सिद्धौ' -निष्पत्तौ, प्रकाशने, स्थित्यात्मनि, परप्रमातृविश्रान्त्यात्मनि च संहारे, पराशक्तिरूपा 'चितिः' भगवती 'स्वतन्त्रा' अनुत्तरविमर्शमयी शिवभट्टारिकाभिन्ना 'हेतुः' -कारणम् । अस्यां हि प्रसरन्त्यां जगत् उन्मिषति व्यवतिष्ठते च, निवृत्तप्रसरायां च निमिषति, -इति स्वानुभव एव अत्र साक्षी । अन्यस्य तु मायाप्रकृत्यादेः चित्प्रकाशभिन्नस्य अप्रकाशमानत्वेन असत्त्वात् न क्वचिदपि हेतुत्वम्, प्रकाशमानत्वे तु प्रकाशैकात्म्यात् प्रकाशरूपा चितिरेव हेतुः, न त्वसौ कश्चित् । अत एव देशकालाकारा एतत्सृष्टा एतदनु-प्राणिताश्च नैतत्स्वरूपं भेत्तुमलम्, -इति व्यापकनित्योदित-परिपूर्णरूपा इयम् इत्यर्थलभ्यमेव एतत् ।
ननु जगदपि चितो भिन्नो नैव किञ्चित्, अभेदे च कथं हेतुहेतुः-मद्भावः ? उच्यते । चिदेवभगवती स्वच्छस्वतन्त्ररूपा तत्तदनन्त-जगदात्मना स्फुरति, -इत्येतावत्परमार्थोऽयं कार्यकारणभावः यतश्च इयमेव प्रमातृ-प्रमाण-प्रमेयस्य सिद्धौ-प्रकाशने हेतुः, ततोऽस्याः स्वतन्त्रापरिच्छिन्नस्वप्रकाशरूपायाः सिद्धौ, अभिनवार्थप्रकाशनरूपं न प्रमाणवराकमुपयुक्तं उपपन्नं वा । तदुक्तं त्रिकसारे --
'स्वपदा स्वशिरश्छायां यद्वल्लङ्घुमीहते ।
पादोद्देशे शिरो न स्यात्तथेयं बैन्दवी कला ।।'
(बिन्दु > बैन्दवी)
इति ।
यतश्च इयं विश्वस्य सिद्धौ पराद्वयसामरस्यापादनात्मनि च संहारे हेतुः, तत एव स्वतन्त्रा । प्रत्यभिज्ञातस्वातन्त्र्या सती, भोगमोक्ष-स्वरूपाणां विश्वसिद्धीनां हेतुः ।
-- इति आवृत्त्या व्याख्येयम् ।
अपि च 'विश्वं'-नील-सुख-देह-प्राणादि, -तस्य या 'सिद्धिः' -- प्रमाणोपारोहक्रमेण विमर्शमयप्रमात्रावेशः, सैव 'हेतुः' -- परिज्ञाने उपायो यस्याः । अनेन च सुखोपायत्वमुक्तम् ।
यदुक्तं श्रीविज्ञान-भट्टारके --
'ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् ।
योगिनां तु विशेषोऽयं संबन्धे सावधानता ।।'
इति ।
'चितिः' --इति एकवचनं देशकालाद्यनवच्छिन्नताम् अभिदधत् समस्तभेदवादानाम् अवास्तवतां व्यनक्ति। 'स्वतन्त्र' शब्दो ब्रह्म-वाद-वैलक्षण्यम् आचक्षाणः चितो माहेश्वर्यसारतां ब्रूते । 'विश्व' -- इत्यादिपदम् अशेषशक्तित्वं, सर्वकारणत्वं, सुखोपायत्वमुक्तम् च आह ।।१।।
ननु विश्वस्य यदि चितिः हेतुः, तत् अस्या उपादानाद्यपेक्षायां भेद-वादापरित्यागः स्यात् --इत्याशङ्क्य आह ।
स्वेच्छया स्वभित्तौ विश्वमुन्मीलयति ।।२।।
'स्वेच्छया' न तु ब्रह्मादिवत् अन्येच्छया तथैव च, न तु उपादानाद्यपेक्षया, --एवं हि प्रागुक्त स्वातन्त्र्यहान्या चित्त्वमेव न घटेत् --'स्व भित्तौ', न तु अन्यत्र क्वापि, प्राक् निर्णीतं 'विश्वं' दर्पणे नगरवत् अभिन्नमपि भिन्नमिव 'उन्मील्यति' ।
उन्मीलनं च अवस्थितस्यैव प्रकटीकरणम् -- इत्यनेन जगतः प्रकाशैकात्म्यैन अवस्थानम् उक्तम् ।।२।।
(श्रीदक्षिणामूर्ति स्तोत्रम् --
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि बहिरिवोद्भूतं यथा निद्रया ।
यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयम्
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।)
***
"अथ विश्वस्य स्वरूपं विभागेन प्रतिपादयितुमाह ---"
(follows in the next post, निरंतर....)
---
No comments:
Post a Comment