Wednesday, 28 July 2021

Statics and Dynamics.

PARTICLE STATICS AND PARTICLE DYNAMICS

---------------------------------------©-----------------------------------

This is about :

Attention and Meditation.

Attention and Meditation are with reference to Mind.

The Mind is found in two modes. 

The first is in the static mode. 

That is precisely what is Attention. 

Another is in the dynamic mode. 

That is activity. 

Mind had these 2 attributes.

Though there is also a third state that is when Mind is neither attentive, nor engaged in any of the activity.

Attention is therefore the consciousness of any object that is not the Mind but the matter.

Action / Activity is the state of the Mind when there is the involvement of the Mind completely identified with the object of the activity.

That is how the Mind of an ordinary / average man finds comfortable when there is either an activity or complete absence of the same. 

The complete absence of activity implies you have no object for the attention to be focused on. In this state there is anxiety or pleasure or pain. Or you are just lost.

Being lost means you are not dead but asleep only. This may be a natural sleep or a kind of sleep induced because of some drug. One can attain this state through a kind of deliberate effort on the part of the Mind. 

Thus you can 'practice' kind of something that is called 'meditation'. This is how one can often cheate one-self.

The Mind has become habitual of this kind of activity that takes it to a state of complete absorption,  where there is no outward objective world any more. Or, at least, this seems so for the time being. 

What time? How long? 

One never knows.

In 'not knowing', 'time' just disappeares.

So what is this 'time', that seems to exist when one is 'doing' nothing?

Has this 'time' real existence -like the physical objects, that one experiences during this very 'time'!

This means 'time' is illusion.

The same is true of what we call 'space'. 

Space, and Time, are therefore the inferentials only. As they assume existence in Mind only. Trying to find out their 'nature' is meaningless.

Time and Space are the imaginary intangible objects only, and could never be grasped through senses,  while the 'matter' and 'energy' are the objects one can grasp through senses.

What is consciousness? 

As the word itself suggests, it is there when there is 'attention'. Whatever exists is perceived in 'consciousness' is said to exist because of the 'attention' only. 

There is no way of saying what-so-ever about the objects, that are not there in the field of 'attention'.

So 'attention' is verily the 'consciousness' and conversely, the 'consciousness' is verily the 'attention' itself.

Meditation or the 'attention' itself is the ground where the thought germinates and takes roots. Thoughts constitute the 'memory'.

The 'memory' keeps stored and a part is always lost while a new one is kept added to it.

Next comes the question :

What is the sense or essence of 'being'? 

Isn't it basically a thought only? 

Is this thought a verbal one, or kind of a feeling? 

This means, there is a cognisance and also the  recognition of the same where one knows the existence beyond 'me' as well. 

This Reality could never be 'objectified'. 

Still, one can understand through insight.

It couldn't be denied nor refuted.

Just because you are this very Reality.

***

The last question --

Could science ever explain what is :

CONSCIOUSNESS? 

***






Friday, 23 July 2021

आचार्य क्षेमराजकृत प्रयत्यभिज्ञाहृदय

श्रीमान् क्षेमराजाचार्यकृत

प्रत्यभिज्ञाहृदयः

--

श्रीमतो राजानकक्षेमराजाचार्यस्य ग्रन्थोऽयम्,

मया अस्मिन् मम 'गूगल' इति संविद्युत् संचारव्यूहे,

(electronic network)  अवलोक (blog) स्थले

प्रकाशितः ।।

**********

Note Please! 

I started posting this text in this blog, 

on 12 July 2021. Completed today. 

The whole text has been posted in parts, beginning with this date 12-07-2021.

***


तदा प्रकाशानन्दसार ...

प्रत्यभिज्ञाहृदये 

सूत्र 20

***

इदानीम् अस्य समाधिलाभस्य फलमाह --

तदा प्रकाशानन्दसारमहामन्त्रवीर्यात्मकपूर्णाहन्तावेशात्सदा-सर्वसर्ग-संहारकारि-निजसंविद्देवताचक्रेश्वरताप्राप्तिर्भवतीति शिवम् ।।२०।।

***

नित्योदिते समाधौ लब्धे सति, 

'प्रकाशानन्दसारा' --चिदाह्लादैकघना 'महती मन्त्रवीर्यात्मिका' -- सर्वमन्त्रजीवितभूता 'पूर्णा' पराभट्टारिकारूपा या इयम् 'अहन्ता' --अकृत्रिमः स्वात्मचमत्कारः, तत्र 'आवेशात्' 'सदा कालाग्न्यादेः' चरमकलापर्यन्तस्य विश्वस्य यौ 'सर्गसंहारौ' विचित्रौ सृष्टि-प्रलयौ 'तत्कारि' यत् 'निजं संविद्देवताचक्रं' 'तदैश्वर्यस्य' 'प्राप्तिः' --- आसादनं  'भवति',  प्राकरणिकस्य परमयोगिनः इत्यर्थः, इति'एतत् सर्वं संवेद्यते, तस्य संवेदनमेव स्वरूपं, तस्यापि अन्तर्मुखविमर्शयाः प्रमातारः तत्वम्, तेषामपि विगलित-देहाद्युपाधि-संकोचाभिमाना अशेषशरीरा सदाशिवेश्वरतैव सारम्, अस्या अपि प्रकाशैकसद्भावापादित-शेषविश्वचमत्कारमयः श्रीमान् महेश्वर एव परमार्थः, --नहि पारमार्थिकप्रकाशावेशं विना कस्यापि प्रकाशमानता घटते ---स च परमेश्वरः स्वातन्त्र्य-सारत्वात् आदि-क्षान्तामायीय-शब्दराशि-परामर्शमयत्वेनैव एतत्स्वीकृत-समस्त- वाच्यवाचकमयाशेष-जगदानन्द-सद्भावापादनात् परं परिपूर्णत्वात् सर्वाकाङ्क्षाशून्यतया आनन्द-प्रसरनिर्भरः, अत एव अनुत्तराकुलस्वरूपात् अकारात् आरभ्य शक्तिस्फाररूप-ह-कलापर्यन्तं यत् विश्वं प्रसृतं, क्ष-कारस्य-प्रसर-शमन-रूपत्वात्, तत् अकार-हकाराभ्यामेव संपुटीकारयुक्त्या  प्रत्याहारन्यायेन अन्तः स्वीकृतं सत् अविभागवेदनात्मकबिन्दुरूपतया स्फुरितम् अनुत्तर एव विश्राम्यति, --इति शब्दराशिस्वरूप एव अयम् अकृतको विमर्शः। यथोक्तं 

'प्रकाशस्यात्मविश्रान्तिरहं-भावो हि कीर्तितः ।

उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः ।।

स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च ।'

इति । एषैव च अहन्ता सर्वमन्त्राणाम् उदयविश्रान्तिस्थानत्वात् एतद्बलेनैव तदर्थक्रियाकारित्वात् महती वीर्यभूमिः । तदुक्तं

'तदाक्रम्य बलं मन्त्रा...'

इत्यादि

'... ... ... ... ... ... ... ... ... त एते शिवधर्मिणः ।।'

इत्यन्तम् श्रीस्पन्दे । शिवसूत्रेषु अपि 

'महाह्रदानुसंधानान्मन्त्रवीर्यानुभवः, (१ उ० २२ सू०)

इति । तदत्र महामन्त्रवीर्यात्मिकायां पूर्णाहन्तायाम् 'आवेशो' -- देहप्राणादिनिमज्जनात् तत्पदावाप्त्यवष्टम्भेन देहादीनामपितद्रसाप्लावनेन तन्मयीकरणम् । तथा हि -- देहसुखनीलादिवत्यत्किंचित् प्रथते, अध्यवसीयते, स्मर्यते, संकल्प्यते वा, तत्र सर्वत्रैव भगवती चितिशक्तिमयी प्रथा भित्तिभूतैव स्फुरति, --तदस्फुरणे कस्यापि अस्फुरणात् इति उक्तत्वात् । केवलं तथा स्फुरन्त्यपि सा तन्मायाशक्त्या अवभासितदेहनीलाद्युपरागदत्ताभिमानवशात् भिन्न-भिन्नस्वभावा इव भान्ति ज्ञानसंकल्पाध्यवसाया मायाप्रमातृभिः अभिमन्यते,  वस्तुतस्तु एकैव असौ चितिशक्तिः । यथोक्तम् 

'या चोखा प्रतिभा तत्तत्पदार्थक्रमरूपिता ।

अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ।।'

इति । तथा 

'मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा ।

कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः  ।।'

इति  । एवम् एषा सर्वदशासु एकैव चितिशक्तिः विजृम्भमाणा यदि तदनुप्रवेश-तदवष्टम्भयुक्त्या समासाद्यते, तत् तदावेशात् पूर्वोक्तयुक्त्या करणोन्मीलननिमीलनक्रमेण सर्वस्य सर्वमयत्वात् तत्तत्संहारादौ अपि 'सदासर्वससर्गसंहारकारि' यत् 'सहजसंवित्तिदेवताचक्रम्' अमायीयान्तर्बहिष्करणमरीचिपुञ्जः, तत्र 'ईश्वरता' --साम्राज्यं परभैरवात्मता, तत्प्राप्तिः भवति परमयोगिनः । यथोक्तम् 

'यदा त्वैकत्र संरूढस्तदा तस्य लयोद्भवौ ।

नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत्  ।।'

इति । अत्र एकत्र इति 

'एकत्रारोपयते सर्वम् ... ... ... ... ... ... ... ।'

इति । चित्सामान्यस्पन्दभूः उन्मेषात्मा व्याख्यातव्या । तस्य इति अनेन 

'पुर्यष्टकेन संरुद्ध...  ... ... ... ... ... ... ... ।'

इति उपक्रान्तं पुर्यष्टकम् एव पराम्रष्टव्यम्, न तु यथा विवरणकृतः 'एकत्र सूक्ष्मे स्थूल शरीरे वा' इति व्याकृतवन्तः । स्तुतं च मया 

'स्वतन्त्रश्चितिचक्राणां चक्रवर्ती महेश्वर ।

संवित्तिं देवताचक्रजुष्टः कोऽपि जयत्यसौ ।।'

इति । इतिशब्द उपसंहारे, यत् एतावत् उक्तप्रकरणशरीरं तत् सर्वं 'शिवम्-शिवप्राप्तिहेतुत्वात् शिवात् प्रसृतत्वात् शिवस्वरूपाभिन्नत्वात् च शिवमयमेव इति शिवम् ।।

देहप्राणसुखादिभिः प्रतिकलं संरुध्यमानो जनः पूर्णानन्दघनामिमां न चिनुते माहेश्वरीं स्वां चितिम् ।

मध्ये बोधसुधाब्धिविश्वमभितस्तत्फेनपिण्डोपमम् 

यः पश्येदुपदेशतस्तु कथितः साक्षात्स एकः शिवः ।।

येषां वृत्तः शांकरशक्तिपातो

येऽनभ्यासात्तीक्ष्णयुक्तिष्वयोग्याः ।

शक्ता ज्ञातुं नेश्वरप्रत्यभिज्ञा-मुक्तस्तेषामेष तत्त्वोपदेशः ।।

।। समाप्तमिदं प्रत्यभिज्ञाहृदयम् ।।

***

कृतिस्तत्रभवान्महामाहेश्वराचार्यवर्य श्रीमदभिनवगुप्तपादपद्मोपजीविनः श्रीमतो राजानकक्षेमराजाचार्यस्य ।।

शुभमस्तु।। 

--

( कृतिस्तत्रभवन्  कृतिस्तत्रभवान् वा ?)

।। ॐ शिवार्पणमस्तु ।। 

***


 



Thursday, 22 July 2021

समाधिसंस्कारवति व्युत्थाने

प्रत्यभिज्ञाहृदये 

***

सूत्र 19

***

मध्यविकासाच्चिदानन्दलाभः, स एव च परमयोगिनः समावेशसमापत्त्यादिपर्यायः समाधिः, तस्य नित्योदितत्वे युक्तिमाह --

समाधिसंस्कारवति व्युत्थाने भूयो भूयश्चिदैक्यामर्शान्नित्योदित-समाधिलाभः ।।१९।।

आसादितसमावेशो योगिवरो व्युत्थाने अपि समाधिरससंस्कारेण क्षीव इव सानन्दं घूर्णमानो,  भावराशिं शरदभ्रलवम् इव चिद्गगन एव लीयमानं पश्यन्, भूयो भूयः अन्तर्मुखताम् एव समवलम्बमानो, निमीलनसमाधिक्रमेण चिदैक्यमेव विमृशन् व्युत्थानाभिमतावसरे अपि समाध्येकरस एव भवति । यथोक्तं क्रमसूत्रेषु --

क्रममुद्रया अन्तःस्वरूपया बहिर्मुखः समाविष्टो भवति साधकः । तत्रादौ बाह्यात् अन्तःप्रवेशः, आभ्यन्तरात् बाह्यस्वरूपे प्रवेशः आवेशवशात् जायते, इति सबाह्याभ्यान्तरोऽयं 'मुद्राक्रमः', 

इति । अत्रायमर्थः सृष्टि-स्थिति-संहृति-संविच्चक्रात्मकं 'क्रमं' मुद्रयति, स्वाधिष्ठितम् आत्मसात् करोति येयं तुरीया चितिशक्तिः, तया 'क्रममुद्रया', 'अन्तरिति' ---पूर्णाहन्तास्वरूपया, 'बहिर्मुख' --इति, विषयेषु व्याप्पृतः अपि, 'समाविष्टः'--  साक्षात्कृतपरशक्तिस्फारः 'साधकः' --परमयोगी भवति । तत्र च 'बाह्यात्' ग्रस्यमानात् विषयग्रामात् 'अन्तः' परस्यां चितिभूमौ ग्रसनक्रमेणैव 'प्रवेशः' --समावेशो भवति । आभ्यन्तरात् चितिशक्तिस्वरूपात् च साक्षात्कृतात् 'आवेशवशात्' ---समावेशसामर्थ्यात् एव 'बाह्यस्वरूपे' ---इदन्तानिर्भासे विषयग्रामे, वमनयुक्त्या 'प्रवेशः' ---चिद्रसाश्यानताप्रथनात्मा समावेशो जायते, इति 'सबाह्यान्तरः अयं' नित्योदितसमावेशात्मा, 'मुदो' ---हर्षस्य वितरणात् परमानन्दस्वरूपत्वात् पाशद्रावणात् विश्वस्य अन्तः तुरीयसत्तायां मुद्रणात् च मुद्रात्मा, क्रमः अपि सृष्ट्यादि-क्रमाभासकत्वात् च 'क्रम' इति अभिधीयते इति।।१९।।

***

इदानीम् अस्य समाधिलाभस्य फलमाह --

तदा प्रकाशानन्दसार-महामन्त्रवीर्यात्मक-पूर्णाहन्तावेशात्सदा-सर्वसर्ग-संहारकारि-निजसंविद्देवताचक्रेश्वरता-प्राप्तिर्भवतीति शिवम्  ।।२०।।

***

(क्रमशः, follows in the next post.)

--





विकल्प-क्षयशक्तिसंकोच...

प्रत्यभिज्ञाहृदये 

***

सूत्र 18

--

मध्यविकासे युक्तिमाह 

विकल्प-क्षयशक्तिसंकोचविकासवाहच्छेदाद्यन्तकोटिनिभालनादय इहोपायाः ।।१८।।

'इह' मध्यशक्तिविकासे 'विकल्पक्षयादय उपायाः' । प्रागुपदिष्टपञ्चविधकृत्यकारित्वाद्यनुसारेण सर्वमध्यभूतायाः संविदो विकासो जायते -- इति अभिप्रायम् । उपायान्तरम् अपि तु उच्यते, -- प्राणायाममुद्राबन्धादिसमस्तयन्त्रणातंत्रत्रोटनेन सुखोपायमेव, हृदये निहितचित्तः, उक्तयुक्त्या स्वस्थितिप्रतिबन्धकं विकल्पम् अकिंचिच्चिन्तकत्वेन प्रशमयन् अविकल्पपरामर्शेन देहाद्यकलुषस्वचित्प्रमातृतानिभालनप्रवणः, अचिरादेव उन्मिषद्विकासां तुर्य-तुर्यातीतसमावेशदशाम् आसादयति । तथोक्तम् 

'विकल्पहानेनैकाग्र्यात्क्रमेणेश्वरतापदम् ।'

इति श्रीप्रत्यभिज्ञायाम् । श्रीस्पन्देऽपि 

'यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ।।'

इति । श्रीज्ञानगर्भेऽपि 

'विहाय सकलाः क्रियाः जननिं मानसीः सर्वतो

विमुक्तकरणक्रियानुसृतिपारतन्त्र्योज्ज्वलम् ।

स्थितैस्त्वदनुभावतः सपदि वेद्यते सा परा 

दशानृभिन्द्रितासमसुखामृतस्यनन्दिनी ।।'

इति । अयं च उपायो मूर्धन्यत्वात् प्रत्यभिज्ञायां प्रतिपादितत्वात् आदौ उक्तः । शक्तिसंकोचादयस्तु यद्यपि प्रत्यभिज्ञायां न प्रतिपादिताः, तथापि आम्नायिकत्वात् अस्माभिः प्रसङ्गात् प्रदर्श्यन्ते, बहुषु हि प्रदर्शितेषु कश्चित् केनचित् प्रवेक्ष्यति इति ।

'शक्तेः संकोच' --इन्द्रियद्वारेण प्रसरन्त्या एव आकुञ्चनक्रमेण उन्मुखीकरणम् । यथोक्तम् आथर्विणिकोपनिषत्सु कठवल्यां चतुर्थवल्ली प्रथममन्त्रे 

'पराञ्चि खानि व्यतृणत्स्वयंभू-

स्तस्मात्पराङ् पश्यति नान्तरात्मन् ।

कश्चिद्धीरः प्रत्यगात्मानमैक्षद् 

आवृत्तचक्षुरमृतत्वमश्नन्  ।।'

इति  । प्रसृताया अपि वा कूर्माङ्गसंकोचवत् त्राससमये हृत्प्रवेशवच्च सर्वतो निवर्तनम् । यथोक्तम् 

'तदपोद्धृते नित्योदितस्थितिः ।'

इति ।

'शक्तेर्विकासः' अन्तर्निगूढाया अक्रममेव सकलकरणचक्रविस्फारणेन 

'अन्तर्लक्ष्यो बहिर्दृष्टिर्निमेषोन्मेषवर्जितः ।'

इति । भैरवीमुद्रानुप्रवेशयुक्त्या बहिः प्रसरणम्  । 

यथोक्तं कक्ष्यास्तोत्रे 

'सर्वाः शक्तिश्चेतसा दर्शनाद्याः 

स्वे स्वे वेद्ये यौगपद्येन विष्वक् ।

क्षिप्त्वा मध्ये हाटकस्तम्भभूत-

स्तिष्ठन्विश्वाधार एकोऽवभासि ।।'

इति । श्रीभट्टकल्लेनापि उत्तमा 

'रूपादिषु परिणामात् तत्सिद्धिः ।'

इति शक्तेश्चसंकोचविकासौ,  नासापुटस्पन्दक्रमोपन्मिषत्सूक्ष्मप्राणशक्त्या भ्रूभेदनेन 'क्रमासादितोर्ध्वकुण्डलिनीपदे प्रसरविश्रान्तिदशापरिशीलनम्, अधःकुण्डलिन्यां च  षष्ठवक्त्ररूपायां प्रगुणीकृत्यशक्तिं, तन्मूल-तदग्र-तन्मध्यभूमिस्पर्शावेशः । यथोक्तं विज्ञानभट्टारके 

'वह्नेर्विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत्  ।

केवलं वायुपूर्णं वा स्मरानन्देन युज्यते ।।'

इति । अत्र वह्निः अनुप्रवेशक्रमेण संकोचभूः, विषस्थानम् प्रसरयुक्त्या विकासपदम्,  'विष्लृव्याप्तौ' इति अर्थानुगमात् ।

'वाहयोः' -- वामदक्षिणगतयोः 'छेदो' --हृदयविश्रान्तिपुरःसरम् । यथोक्तं  ज्ञानगर्भे 

'अनच्क-ककृतायतिप्रसृतपार्श्वनाडीद्वय-

च्छिदो विधृतचेतसो हृदयपङ्कजस्योदरे ।

उदेति तव दारितान्धतमसः स विद्याङ्कुरो

य एष परमेशतां जनयितुं पशोरप्यलम् ।।'

इति ।

'आदिकोटिः' हृदयाय,  'अन्तकोटिः' द्वादशान्तः, तयोः प्राणोल्लासविश्रान्त्यवसरे 'निभालनं' --चित्तनिवेशनेन परिशीलनम् । यथोक्तं विज्ञानभैरवे 

'हृद्याकाशे निलीनाक्षः पद्मसंपुटमध्यगः। 

अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात् ।।'

इति । तथा 

'यथा तथा यत्र तत्र द्वादशान्ते मनःक्षिपेत् ।

प्रतिक्षणं क्षीणवृत्तेर्वैलक्षण्यं दिनैर्भवेत् ।।'

इति । आदिपदात् उन्मेषदशानिवेशनम् 

'उन्मेष स तु विज्ञेयः स्वयं तमुपलक्षयेत् ।।'

इति स्पन्दे । तथा रमणीयविषयचर्वणादयश्च संगृहीताः यथोक्तं श्रीविज्ञानभैरवे एव 

'जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् ।

भावयेद्भरितावस्थां महानन्दमयो भवेत् ।।

गीतादिविषयास्वादासमसौख्यैकतात्मनः ।

योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता ।।

यत्र तत्र मनस्तुष्टिर्मनस्तत्रैव धारयेत् ।

तत्र तत्र परानन्दस्वरूपं संप्रकाशते ।।'

इति । 

एवमन्यदपि आनन्दपूर्णस्वात्मभावनादिकम् अनुमन्तव्यम् । इत्येवमादयः अत्र मध्यविकासे उपायाः ।।१८।।

***

(क्रमशः  follows the next post.)

***



 

Wednesday, 21 July 2021

मध्यविकासाच्चिदानन्दलाभः

प्रत्यभिज्ञाहृदये 

***

सूत्र 17

अथ कथं चिदानन्दलाभो भवति?  इत्याह 

मध्यविकासाच्चिदानन्दलाभः ।।१७।।

सर्वान्तरत्वेन वर्तमानत्वात् तद्भित्तिलग्नतां विना न कस्यचित् अपि स्वरूपानुपपत्तेः संविदेव भगवती 'मध्यम' । सा तु मायादशायां तथाभूतापि स्वरूपं गूहयित्वा 

'प्राक्संवित्प्राणे परिणता'

इति नीत्या प्राणशक्तिभूमिं स्वीकृत्य, अवरोहक्रमेण बुद्धिदेहादिभुवम् अधिशयाना, नाडीसहस्रसरणिम् अनुसृता । तत्रापि च पलाशपर्णमध्यशाखान्यायेन आब्रह्मरन्ध्रात् अधोवक्त्रपर्यन्तं प्राणशक्तिब्रह्माश्रयमध्यमनाडीरूपतया प्राधान्येन स्थिता, तत एव सर्ववृत्तीनाम् उदयात्, तत्रैव च विश्रामात् । एवं भूतापि एषा पशूनां निमीलितस्वरूपैव स्थिता । यदा तु उक्तयुक्तिक्रमेण सर्वान्तरतमत्वे मध्यभूता संविद्भगवती विकसति, यदि वा वक्ष्यमाणक्रमेण मध्यभूता ब्रह्मनाडी विकसति, तदा 'तद्विकासात् चिदानन्दस्य' उक्तरूपस्य 'लाभः' -- प्राप्तिर्भवति । ततश्च प्रागुक्ता जीवन्मुक्तिः ।।१७।।

***

मध्यविकासे युक्तिमाह 

विकल्पक्षय-शक्तिसंकोचविकासवाहच्छेदाद्यन्तकोटिनिभालनादय इहोपायाः ।।१८।।

***

(क्रमशः,  follows the next post.)

--

चिदानन्दलाभे देहादिषु

प्रत्यभिज्ञाहृदये,

सूत्र 16

***

एवं च 

चिदानन्दलाभे देहादिषु चेत्यमानेष्वपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्तिः  ।।१६।।

विश्वात्मसात्कारात्मनि समावेशरूपे 'चिदानन्दे लब्धे' व्युत्थानदशायां दलकल्पतया देहप्राणनीलसुखादिषु आभासमानेषु अपि, यत्समावेशसंस्कारबलात् प्रतिपादयिष्यमाणयुक्तिक्रमोपबृंहितात् 'चिदैकात्म्यप्रतिपत्तिदार्ढ्यम्' --अविचला चिदेकत्वप्रथा, सैव 'जीवन्मुक्तिः' -- जीवतः प्राणान् अपि धारयतो मुक्तिः, प्रत्यभिज्ञातनिजस्वरूपविद्राविताशेषपाशराशित्वात् यथोक्तं  स्पन्दशास्त्रे 

'इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् ।

स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः ।।'

इति ।।१६।।

***

अथ कथं चिदानन्दलाभो भवति?  -- इत्याह 

मध्यविकासाच्चिदानन्दलाभः ।।१७।।

(क्रमशः , follows the next post)

***

Tuesday, 20 July 2021

बललाभे विश्वमात्मसात्करोति

प्रत्यभिज्ञाहृदये 

सूत्र १५

***

यदा पुनः करणेश्वरीप्रसरसंकोचं संपाद्य सर्गसंहारक्रमपरिशीलनयुक्तिम् आविशति तदा 

बललाभे विश्वमात्मसात्करोति ।।१५।।

चितिरेव देहप्राणाद्याच्छादननिमज्जनेन स्वरूपम् उन्मग्नत्वेन स्फारयन्ती बलम्, यथोक्तं 

'तदाक्रम्य बलं मन्त्राः .........।'

इति । एवं च 'बललाभे' -- 'उन्मग्नस्वरूपाश्रयणे' क्षित्यादि-सदाशिवान्तं 'विश्वम् आत्मसात् करोति' --स्वरूपाभेदेन निर्भासयति । तदुक्तं पूर्वगुरुभिः स्वभाषामयेषु क्रमसूत्रेषु 

'यथा वह्निरुद्बोधितो दाह्यं दहति, तथा विषयपाशान् भक्षयेत्'

इति ।

'न चैवं वक्तव्यम् -- विश्वात्मसाकाररूपा समावेशभूः कादाचित्की । कथम् उपादेया इयं स्यात् इति, यतो देहाद्युन्मज्जननिमज्जनवशेन इदम् अस्याः कादाचित्कत्वम् इव आभाति । वस्तुतस्तु चितिस्वातन्त्र्यावभासितदेहाद्युन्मज्जनात् एव कादाचित्कत्वम् । एषा तु सदैव प्रकाशितमाना, अन्यथा तु देहादि अपि न प्रकाशेत । अत एव देहादिप्रमातृताभिमाननिमज्जनाय अभ्यासः, न तु सदा प्रथमानतासारप्रमातृताप्राप्त्यर्थम्, 

इति श्रीप्रत्यभिज्ञाकाराः ।।१५।।

***

एवं च 

चिदानन्दलाभे देहादिषु चेत्यमानेष्वपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्तिः ।।१६।।

***

(क्रमशः  follows the next post) 

--

 

चितिवह्निरवरोहपदे छन्नोऽपि

सूत्र 14

--

ननु यदि पारमार्थिकं चिच्छक्तिपदं सकल-भेद-कवलन-स्वभावं, तत् अस्य मायापदेऽपि तथारूपेणभवितव्यं यथा जलदाच्छादितस्यापि भानुः भावावभासकत्त्वम् । इत्याशङ्क्य आह 

चितिवह्निरवरोहपदे छन्नोऽपि मात्रया मेयेन्धनं प्लुष्यति  ।।१४।।

'चितिरेव' विश्वग्रसनशीलत्वात् 'वह्निः', असौ एव 'अवरोहपदेमायाप्रमातृतायां छन्नोऽपि' -- स्वातन्त्र्यात् आच्छादितस्वभावोऽपि, भूरिभूतिच्छन्नाग्निवत् 'मात्रया' -- अंशेन, नीलपीतादिप्रमेयेन्धनं प्लुष्यति -- स्वात्मसात् करोति । मात्रापदस्य इदम् आकूतम् -- यत् कवलयन् अपि सार्वात्म्येन न ग्रसते, अपि तु अंशेन,  संस्कारात्मना उत्थापयति । 

ग्रासकत्वं च सर्वप्रमातृऽणां*१ स्वानुभवत एव सिद्धम् । यदुक्तं श्रीमदुत्पलदेवपादैः निजस्तोत्रेषु 

'वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः ।

ग्रसमानास्ततो वन्दे देव*२ विश्वं भवन्मयम्  ।।'

इति  ।।१४।।

***

(*१ न ह्रस्वं, अपि च दीर्घं ऋकारं अत्र दृष्टव्यं) 

*२वा, देवं... वर्तनीत्रुटिः?)

यदा पुनः करणेश्वरीप्रसरसंकोचं संपाद्य सर्गसंहारक्रमपरिशीलन युक्तिम् आविशति  तदा 

बललाभे विश्वमात्मसात्करोति ।।१५।।

(क्रमशः  -follows the next post)

***



Monday, 19 July 2021

तत्परिज्ञाने चित्तमेव....

प्रत्यभिज्ञाहृदये 

सूत्र 12

***

उक्तं च प्रत्यभिज्ञाटीकायाम् :

'शरीरमेव घट्यादि वा ये षट्त्रिंशतत्त्वमयं ।

शिवरूपतया पश्यन्ति तेऽपि सिद्ध्यन्ति ।।'

इति  ।।१२।।

--

उक्तसूत्रार्थ प्रातिपक्ष्येण तत्त्वदृष्टिं दर्शयितुमाह --

तत्परिज्ञाने चित्तमेव अन्तर्मुखीभावेन, 

चेतनपदाध्यारोहात् चितिः ।।१३।।

पूर्वसूत्रव्याख्याप्रसङ्गेन प्रमेयदृष्ट्या वितत्य व्याख्यातप्रायमेतत् सूत्रम्, शब्दसंगत्या तु अधुना व्याख्यायते । 'तस्य' आत्मीयस्य पञ्चकृत्यकारित्वस्य 'परिज्ञाने' सति अपरिज्ञानलक्षणकारणापगमात् स्वशक्तिव्यामोहिततानिवृत्तौ स्वातन्त्र्यलाभात् प्राक् व्याख्यातं यत् 'चित्तं' तदेव संकोचिनीं बहिर्मुखतां जहत् अन्तर्मुखीभावेन चेतनपदाध्यारोहात्, ग्राहकभूमिकाक्रमणक्रमेण संकोचकलाया अपि विगलनेन स्वरूपापत्त्या 'चितिर्' भवति, स्वां चिन्मयीं परां भूमिमाविशति इत्यर्थः ।।१३।।

***

(क्रमशः  follows in the next post.)


Sunday, 18 July 2021

तदपरिज्ञाने स्वशक्तिभिर्व्यामोहितता

प्रत्यभिज्ञाहृदये 

सूत्र १२

***

यस्य पुनः सद्गुरूपदेशं विना एतत्परिज्ञानं नास्ति, 

तस्य अवच्छादितस्वरूपाभिः निजाभिः शक्तिभिः व्यामोहितत्वं भवति । -- इत्याह --

तदपरिज्ञाने स्वशक्तिभिर्व्यामोहितता संसारित्वम्  ।।१२।।

'तस्य' -एतस्य, सदा संभवतः पञ्चविध-कृत्य-कारित्वस्य 'अपरिज्ञाने' -- शक्तिपातहेतुक-स्वबलोन्मीलनात् अप्रकाशने 'स्वाभिः शक्तिभिः व्यामोहितत्वं'  --विविधलौकिकशास्त्रीयशङ्काशंकुकीलितत्वं यत्,  इयमेव 'संसारित्वम्' ।

तदुक्तं श्रीसर्ववीरभट्टारके --

'अज्ञानाच्छङ्कते लोकस्ततः सृष्टिश्च संहृतिः।। 

इति ।

'मन्त्रा वर्णात्मकाः सर्वे सर्वे वर्णा शिवात्मकाः ।।'

इति च ।

तथा हि -- चित्प्रकाशात् अव्यतिरिक्ता नित्योदितमहामन्त्ररूपा पूर्णाहं-विमर्शमयी या इदं परा वाक्शक्तिः आदि-क्षान्त-रूपाशेष-शक्तिचक्रगर्भिणी, सा तावत् पश्यन्तीमध्यमादिक्रमेण ग्राहक-भूमिकां भासयति । तत्र च परारूपत्वेन स्वरूपम् अप्रथयन्ती मायाप्रमातुः अस्फुटा-साधारणार्थावभासरूपां प्रतिक्षणं नवनवां 'विकल्पक्रियामुल्लासयति' शुद्धामपि च अविकल्पभूमिं तदाच्छादितामेव दर्शयति । तत्र च बाह्यादिदेवताधिष्ठितककारादिविचित्रशक्तिभिः व्यामोहितो देहप्राणादिमेव परिमितम् अवशम् आत्मानं मन्यते मूढजनः । ब्राह्म्यादिदेव्यः पशुदशायां भेदविषये सृष्टिस्थिती अभेदविषये च संहारं प्रथयन्त्यः परिमितविकल्पपात्रतामेव संपादयन्ति, पतिदशायां तु भेदे संहारं अभेदे च सर्गस्थिती प्रकटयन्त्यः, क्रमात्क्रमं विकल्पनिर्ह्रासनेन श्रीमद्भैरवमुद्रानुप्रवेशमयीं महतीं अविकल्पभूमिमेव उन्मीलयन्ति ।

'सर्वो ममायं विभव इत्येवं परिजानतः। 

विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ।।'

इत्यादिरूपां चिदानन्दवेशमग्नां शुद्धविकल्पशक्तिम् उल्लासयन्ति, ततः उक्तनीत्या स्वशक्ति-व्यामोहिततैव संसारित्वम् ।

किंच चितिशक्तिरेव भगवती विश्ववमनात् संसारवामाचारत्वाच्च वामेश्वर्याख्या सती, खेचरी-गोचरी-दिक्चरी-भूचरीरूपैः अशेषैः प्रमातृ-अन्तःकरण-बहिष्करण-भावस्वभावैः परिस्फुरन्ती, पशुभूमिकायां शून्यपदविश्रान्ता किंचित्कर्तृत्वाद्यात्मकः-कलादि-शक्त्यात्मनागोपितपारमार्थिकचिद्गगनचरीत्वस्वरूपेण चकास्ति, भेदनिश्चयाभिमानविकल्पनप्रधानान्तःकरणदेवीरूपेण गोचरीचक्रेण गोपिताभेदनिश्चयाद्यात्मकपारमार्थिकस्वरूपेण प्रकाशते, भेदालोचनादिप्रधानबहिष्करण-देवतात्मना च दिक्चरीचक्रेण गोपिताभेदप्रथात्मकपारमार्थिकस्वरूपेण स्फुरति, सर्वतो व्यवच्छिन्नाभासस्वभावप्रमेयात्मना च भूचरीचक्रेण गोपित-सार्वात्म्यस्वरूपेण पशुहृदयव्यामोहिना भाति । पतिभूमिकायां तु सर्शकर्तृत्वादिशक्त्यात्मक चिद्गगनचरीत्वेन,  अभेदनिश्चयाद्यात्मना गोचरीत्वेन, अभेदालोचनाद्यात्मना दिक्चरीत्वेन,  स्वाङ्गकल्पाद्वयप्रथासारप्रमेयात्मना च भूचरीत्वेन पतिहृदयविकासिना स्फुरति । तथा च उक्तं सहजचमत्कारपरिजनिताकृतदारेण भट्टदामोदरेन विमुक्तकेषु

'पूर्णावच्छिन्नमात्रान्तर्बहिष्करणभावगाः ।

वामेशाद्याः परिज्ञानाज्ञानात्स्युर्मुक्तिबन्धदाः ।।'

इति । एवं च निजशक्तिव्यामोहिततैव संसारित्वम् । 

अपि च चिदात्मनः परमेश्वरस्य स्वा अनपायिनी* एकैव स्फुरत्तासारकर्तृतात्मा ऐश्वर्यशक्तिः । 

(*अन्-अपायिनी?) 

सा यदा स्वरूपं गोपयित्वा पाशवे पदे प्राणापान-समान-शक्तिदशाभिः जाग्रत्स्वप्न-सुषुप्तभूमिभिः देहप्राणपुर्यष्टक-कलाभिश्च व्यामोहयति, तदा तद्व्यामोहितता संसारित्वम्, यदा तु मध्यधामोल्लासम् उदानशक्तिं, विश्वव्याप्तिसारां च व्यानशक्तिं, तुर्यदशारूपां तुर्यातीतदशारूपां च चिदानन्दघनाम् उन्मीलयति, तदा देहाद्यवस्थायामपि पतिदशात्मा जीवन्मुक्तर्भवति । एवं त्रिधा स्वशक्तिव्यामोहितता व्याख्याता  । 'चिद्वत्' इति (९) सूत्र चित्प्रकाशो गृहीतसंकोचः संसारी इत्युक्तम्, इह तु स्वशक्ति-व्यामोहितत्वेन अस्य संसारित्वं भवति,  -- इति भङ्ग्यन्तरेण उक्तम् । एवं संकुचितशक्तिः प्राणादिमानपि यदा स्वशक्तिव्यामोहितो न भवति, तदा अयम् 

..........................     शरीरी परमेश्वरः  ।'

इत्याम्नायस्थित्वा शिवभट्टारक एव, -- इति भङ्ग्या निरूपित भवति ।

यदागमः 

मनुष्यदेहमास्थाय छन्नास्ते परमेश्वराः ।'

इति । उक्तं च प्रत्यभिज्ञाटीकायाम् 

'शरीरमेव घटाद्यपि वा ये षट्त्रिंशत्तत्त्वमयं 

शिवरूपतया पश्यन्ति तेऽपि सिद्ध्यन्ति ।'

इति ।।१२।।

उक्तसूत्रार्थप्रातिपक्षेण तत्त्वदृष्टिं दर्शयितुमाह 

तत्परिज्ञाने चित्तमेव अन्तर्मुखी भावेन  ।

चेतनपदाध्यारोहात् चितिः  ।।१३।।

(क्रमशः,  follows the next post) 

***







Friday, 16 July 2021

आभासन-रक्ति-विमर्शन...

प्रत्यभिज्ञाहृदये 11

***

सूत्र 11.

आभासन-रक्ति-विमर्शन-बीजावस्थापन-विलापनस्तानि ।।११।। 

'पञ्चविधकृत्यानि करोति' इति पूर्वतः संबध्यते । श्रीमन्महार्थदृष्ट्या दृगादिदेवीप्रसरणक्रमेण यत् यत् आभाति, तत् तत् सृज्यते, तथा सृष्टे पदे तत्र प्रशान्तनिमेषं कंचित् कालं रज्यति, तदा स्थितिदेव्या तत् स्थाप्यते, चमत्कारापरपर्यायविमर्शनसमये संह्रियते । 

यथोक्तं श्रीरामेण --

समाधिवज्रेणाप्यन्यैरभेद्यो भेदभूधरः। 

परामृष्टश्च नष्टश्च त्वद्भक्तिबलशालिभिः।।

इति ।

यदा तु संह्रियमाणमपि एतत् अन्तः  विचित्राशङ्कादिसंस्कारमाधत्ते, तदा तत् पुनः उद्भविष्यत्संसारबीजभावमापन्नं विलयपदम् आध्यारोपितम् । यदा पुनः तत् तथा अन्तःस्थापितम् अन्यत् वा अनुभूयमानमेव हठपाकक्रमेण अलंग्रासयुक्त्या चिदग्निसाद्भावम् आपद्यते, तदा पूर्णतापादनेन अनुगृह्यते एव । ईदृशं च पञ्चविधकृत्यकारित्वं सर्वस्य सदा सन्निहितमपि सद्गुरूपदेशं विना न प्रकाशते, इति सद्गुरु सपर्यैव एतत्प्रथार्थम् अनुसर्तव्या ।।११।। 

यस्य पुनः सद्गुरूपदेशं विना एतत्परिज्ञानं नास्ति, 

तस्य अवच्छादितस्वरूपाभिः निजाभिः शक्तिभिः व्यामोहितत्वं भवति ।

-- इत्याह

तदपरिज्ञाने स्वशक्तिभिर्व्यामोहितता संसारित्वम् ।।१२।।

***

(क्रमशः   follows the next post) 

--



चिद्वत्तच्छक्तिसंकोचात्

प्रत्यभिज्ञाहृदये 9, 10

-----------------------

यदि एवंभूतस्य आत्मनो विभूतिः, तत् कथम् अयं मलावृतः अणुः कलादिवलितः संसारी अभिधीयते?  -इत्याह ...

चिद्वत्तच्छक्तिसंकोचात् मलावृतः संसारी  ।।९।।

यदा 'चिदात्म' परमेश्वरः स्वस्वातन्त्र्यात् अभेदव्याप्तिं निमज्ज्य भेदव्याप्तिं अवलम्बते, तदा 'तदीया इच्छादिशक्तयः' असंकुचिता अपि 'संकोचवत्यो' भान्ति,  तदानीमेव च अयं 'मलावृतः संसारी' भवति । तथा च अप्रतिहतस्वातन्त्र्यरूपा इच्छाशक्तिः संकुचिता सती अपूर्णंमन्यतारूपम् आणवं मलम्, 

ज्ञानशक्तिः क्रमेण संकोचात् भेदे सर्वज्ञत्वस्य किंचिज्ज्ञत्वाप्तेः अन्तःकरण-बुद्धीन्द्रियतापत्तिपूर्वम् अत्यन्तं संकोचग्रहणेन भिन्नवेद्यप्रथारूपं मायीयं मलम्, 

क्रियाशक्तिः क्रमेण भेदे सर्वकर्तृत्वाप्तेः कर्मेन्द्रियरूप-संकोच-ग्रहणपूर्वम् अत्यन्तं परिमिततां प्राप्ता शुभाशुभानुष्ठानमयं कार्मं मलम् । 

तथा,

सर्वकर्तृत्व सर्वज्ञत्व-पूर्णत्व-नित्यत्व-व्यापकत्वशक्तयः संकोचं गृह्णाना यथाक्रमं कला-विद्या-राग-नियति-रूपतया भान्ति । तथाविधश्च अयं शक्तिदरिद्रः संसारी उच्यते, स्वशक्तिविकासे तु शिव एव ।।९।।

ननु संसार्यवस्थायाम् अस्य किंचित् शिवतोचितम् अभिज्ञानमस्ति येन शिव एव तथावस्थितः?  --इत्युद्घोष्यते 'अस्ति' --इत्याह

तथापि तद्वत् पञ्चकृत्यानि करोति ।।१०।।

इह ईश्वराद्वयदर्शनस्य ब्रह्मवादिभ्यः अयमेव विशेषः यत्

'सृष्टिसंहारकर्तारं विलयस्थितिकारकम् ।

अनुग्रहकरं देवं प्रणतार्तिविनाशनम् ।।

इति श्रीवत्स्वच्छन्दादिशासनोक्तनीत्या सदा पञ्चविध-कृत्य-कारित्वं चिदात्मनो भगवतः। यथा च भगवान् शुद्धेतराध्व-स्फारेण स्वरूपविकासरूपाणि सृष्ट्यादीनि करोति, तथा 'संकुचितचिच्छक्तितया' संसारभूमिकायामपि 'पञ्चकृत्यानि' विधत्ते । तथा हि 

'तदेवं व्यवहारेऽपिप्रभुर्देवादिमाविशन् ।

भान्तमेवान्तरर्थौघमिच्छया भासयेद्बहिः ।।'

इति प्रत्यभिज्ञाकारिकोक्तार्थदृष्ट्या देहप्राणादिपदम् आविशन् चिद्रूपो महेश्वरो बहिर्मुखीभावावसरे नीलादिकमर्थं नियतदेशकालादितया यदा आभासयति, तदा नियतदेशकालाद्याभासांशे अस्य स्रष्टता, अन्यदेशकालाद्याभासांशे अस्य संहर्तृता, नीलाद्याभासांशे  स्थापकता, भेदेन आभासांशे विलयकारिता, प्रकाशैक्येन प्रकाशने अनुगृहीतृता । यथा च सदा पञ्चविधकृत्यकारितं भगवतः तथा मया* वितत्य स्पन्दसंदोहे निर्णीतम् ।

एवमिदं पञ्चविधकृत्यकारित्वम् आत्मीयं सदा दृढप्रतिपत्त्या परिशील्यमानं माहेश्वर्यम् उन्मीलयत्येव भक्तिभाजाम् । अत एव ये सदा एतत् परिशीलयन्ति, ते स्वरूपविकासमयं विश्वं जानाना जीवन्मुक्ता-इत्याम्नाताः । ये तु न तथा, ते सर्वतो विभिन्नं मेयजातं पश्यन्तो बद्धात्मानः ।।१०।।

न अयमेव प्रकारः पञ्चविधकृत्यकारित्वे, यावत् अन्योऽपि कश्चित् रहस्यरूपोऽस्ति । -- इत्याह 

आभासन-रक्ति-विमर्शन-बीजावस्थापन-विलापनतस्तानि।।११।।

(क्रमशः,  follows the next post)

***


Thursday, 15 July 2021

तद्भूमिकाः सर्वदर्शनस्थितयः ।।

प्रत्यभिज्ञाहृदये 8

***

एवं च 

तद्भूमिकाः सर्वदर्शनस्थितयः ।।८।।

'सर्वेषां' चार्वाकादिदर्शनानां 'स्थितयः'-सिद्धान्ताः 'तस्य' एतस्य आत्मनो नटस्येव स्वेच्छावग्रहीताः कृत्रिमा भूमिका ।

तथा च,

'चैतन्यविशिष्टं शरीरमात्मा ।'

नैयायिकादयो ज्ञानादिगुणगणाश्रयं बुद्धितत्त्वप्रायमेव आत्मानं संसृतौ मन्यन्ते, अपवर्गे तु तदुच्छेदे शून्यप्रायम् ।

अहंप्रतीतिप्रत्येयः सुखदुःखाद्युपाधिभिः तिरस्कृतः आत्मा-इति मन्वाना मीमांसका अपि बुद्धावेव निविष्टाः ।

ज्ञानसंतान एव तत्त्वम्-इति सौगता बुद्धिवृत्तिषु एव पर्यवसिताः ।

प्राण एव आत्मा--इति केचित् श्रुत्यन्तविदः ।

असदेव इदमासीत्-इत्यभावब्रह्मवादिनः शून्यभुवमवगाह्य स्थिताः । माध्यमिका अपि एवमेव ।

परा प्रकृतिः भगवान् वासुदेवः तद्विस्फुल्लिङ्गप्राया एव जीवाः - इति पाञ्चरात्राः परस्या प्रकृतेः परिणामाभ्युपगमात् अव्यक्ते एव अभिनिविष्टाः ।

सांख्यादयस्तु विज्ञानाकलप्रायां भूमिम् अवलम्बन्ते ।

सदेव इदमग्र आसीत्-इति ईश्वरतत्त्वपदमाश्रिता अपरे श्रुत्यन्तविदः ।

शब्दब्रह्ममयं पश्यन्तीरूपम् आत्मतत्त्वम्-इति वैयाकरणाः श्रीसदाशिवपदमध्यासिताः । एवमन्यदपि अनुमन्तव्यम् । एतच्च आगमेषु

'बुद्धितत्त्वे स्थिता बौद्धा गुणेष्वार्हताः स्थिताः। 

स्थिता वेदविदः पुंसि अव्यक्ते पाञ्चरात्रिकाः ।।'

इत्यादिना निरूपितम् ।

विश्वोत्तीर्णमात्मतत्त्वम्--इति तान्त्रिकाः। 

विश्वमयम् इति--कुलाद्याम्नायनिविष्टाः।

विश्वोत्तीर्णं विश्वमयं च --इति त्रिकादिदर्शनविदः।। 

एवम् एकस्यैव चिदात्मनो भगवतः स्वातन्त्र्यावभासिताः सर्वा इमा भूमिकाः स्वातन्त्र्यप्रच्छादनोन्मीलनतारतम्यभेदिताः । अत एक एव एतावद्व्याप्तिक आत्मा ।मितदृष्टयस्तु अंशाशिकासु तदिच्छयैव अभिमानं ग्राहिताः, येन देहादिषु भूमिषु पूर्वपूर्वप्रमातृ व्याप्तिसारताप्रथायामपि उक्तरूपां महाव्याप्तिं परशक्तिपातं विना न लभन्ते । यथोक्तम् 

'वैष्णवाद्यास्तु ये केचिद्विद्यारागेणरञ्जिताः। 

न विदन्ति परं देवं सर्वज्ञं ज्ञानशालिनम् ।।'

इति । तथा 

'भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ।।'

इति ।

'त आत्मोपासकाः शैवं न गच्छन्ति परं पदम्।'

इति च ।

अपि च 'सर्वेषां दर्शनानां'-- समस्तानां नीलसुखादिज्ञानानां याः 'स्थितयः' 

--अन्तर्मुखरूपा विश्रान्तयः ताः 'तद्भूमिकाः' -- चिदानन्दघनस्वात्मस्वरूपाभिव्यक्त्युपायाः । तथा हि यदा यदा बहिर्मुखं रूपं स्वरूपे विश्राम्यति, तदा तदा बाह्यवस्तूपसंहारः, अन्तः प्रशान्तपदावस्थितिः,  तत्तदुदेष्यत्संतत्यासूत्रणम्, -इति सृष्टि-स्थितिसंहारमेलनरूपा इदं तुरीया संविद्भट्टारिका तत्तत्सृष्ट्यादि भेदान् उद्वमन्ती संस्तुति च, सदा पूर्णा च, कृशा च, उभयरूपा च अनुभयात्मा च अक्रममेव स्फुरन्ती स्थिता । 

उक्तं च श्रीप्रत्यभिज्ञाटीकायाम् ।

'तावदर्थावलेहेन उत्तिष्ठति,  पूर्णा च भवति'

इति । एषा च भट्टारिका क्रमात्क्रमम् अधिकमनुशील्यमाना स्वात्मसात्करोत्येव भक्तजनम् ।।८।।

***

यदि एवंभूतस्य आत्मनो विभूतिः, तत् कथं अयं मलावृतः अणुः कलादिवलितः संसारी अभिधीयते?  इत्याह --

चिद्वत्तच्छक्तिसंकोचात् मलावृतः संसारी ।।९।।

(क्रमशः  Follows in the next post) 

***






Wednesday, 14 July 2021

स चैको द्विरूपस्त्रिमयश्चतुरात्मा

प्रत्यभिज्ञाहृदये 7.

-------------------------

अस्यैव सम्यक् स्वरूपज्ञानात् यतो हि मुक्तिः, असम्यक् तु संसारः, ततः तिलश एतत्स्वरूपं निर्भङ्क्तुमाह 

स चैको द्विरूपस्त्रिमयश्चतुरात्मा सप्तपञ्चकस्वभावः  ।।७।।

निर्णीतदृशा चिदात्मा शिवभट्टारक एव 'एक' आत्मा, न तु अन्यः  कश्चित्, प्रकाशस्य देशकालादिभिः भेदयोगात्, जडस्य तु ग्राहकत्वानुपपत्तेः। प्रकाश एव यतः स्वातन्त्र्यात्  गृहीतप्राणादि-संकोचः संकुचितार्थ-ग्राहकतामश्नुते, ततः असौ प्रकाश-रूपत्व-संकोचावभासवत्त्वाभ्यां 'द्विरूपः' आणव-मायीय-कार्म-मलावृतत्त्वात् 'त्रिमयः'। शून्य-प्राण-पुर्यष्टक-शरीरस्वभावत्त्वात् 'चतुरात्मा'। 'सप्तपञ्चकानि'-शिवादिपृथिव्यन्तानि पञ्च-त्रिंशत्तत्त्वानि तत्-स्वभावः' । तथा शिवादि-सकलान्त-प्रमातृ-सप्तकस्वरूपः, चिदानन्देच्छा-ज्ञान-क्रियाशक्तिरूपत्त्वेऽपि अख्यातिवशात् कला-विद्या-राग-काल-नियति-कञ्चुक-कवलितत्त्वात् पञ्चकस्वरूपः एवं च शिवैकरूपत्त्वेन पञ्चत्रिंशत्तत्त्वेन, प्रमातृसप्तस्वभावत्त्वेन चिदादिशक्ति-पञ्चकात्मकत्त्वेन च अयं प्रत्यभिज्ञायमानो मुक्तिदः, अन्यथा तु संसारहेतुः ।।७।।

***

एवं च

तद्भूमिकाः सर्वदर्शनस्थितयः ।।८।।

(क्रमशः  follows the next post)

***

तन्मयो माया प्रमाता।।

प्रत्यभिज्ञाहृदये 6.

-----------------------

चित्तमेव तु मायाप्रमातुः स्वरूपम्--इत्याह :

तन्मयो मायाप्रमाता  ।।६।।

देहप्राणपदं तावत् चित्तप्रधानमेव, शून्यभूमिरपि चित्तसंस्कारवत्येव, अन्यथा ततो व्युत्थितस्य स्वकर्तव्यानुधावनाभावः स्यात्,  -- इति चित्तमय एव मायीयः प्रमाता । अमुनैव आशयेन शिवसूत्रेषुवस्तुवृत्तानुसारेण 

'चैतन्यमात्मा' (१-१)

इत्यभिधाय, मायाप्रमातृलक्षणावसरे पुनः

'चित्तमात्मा' (३-३)

इत्युक्तम् ।।६।।

***

अस्यैव सम्यक् स्वरूपज्ञानात् यतो मुक्तिः, असम्यक् तु संसारः, ततः तिलश एतत्स्वरूपं निर्भङ्क्तुमाह 

स चैको द्विरूपस्त्रिमयश्चतुरात्मा सप्तपञ्चकस्वभावः ।।७।।

***

Tuesday, 13 July 2021

चितिरेव चेतनपदादवरूढा

 प्रत्यभिज्ञाहृदये 5.

--------------------------

चितिरेव चेतनपदादवरूढा चेत्यसंकोचिनी चित्तम् ।।५।।

न चित्तं नाम अन्यत् किंचित्, अपि तु सैव भगवती तत्  । तथा हि सा स्वं स्वरूपं गोपयित्वा यदा संकोचं गृह्णाति, तदा द्वयी गतिः, कदाचित् उल्लसितमपि संकोचं गुणीकृत्यं चित्प्राधान्येन स्फुरति, कदाचित् संकोच-प्रधानतया । चित्प्राधान्यपक्षे सहजे, प्रकाशमात्रप्रधानत्वे विज्ञान-कलता, प्रकाशपरामर्शप्रधानत्वे तु विद्याप्रमातृता । 

तत्रापि, 

क्रमेण संकोचस्य तनुतायाम्, ईश-सदाशिवानाश्रितरूपता । समाधिप्रयत्नोपार्जिते तु चित्प्रधानत्वे शुद्धाध्वप्रमातृता क्रमात्क्रमं प्रकर्षवती । संकोच-प्राधान्ये तु शून्यादि-प्रमातृता । एवमवस्थिते सति, 'चितिरेव' संकुचितग्राहक-रूपा 'चेतनपदात् अवरूढा' -- अर्थग्रहणोन्मुखी सती 'चेत्येन' -- नील-सुखादिना 'संकोचिनी उभयसंकोचसंकुचितैव चित्तम् । तथा च --

'स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या ।

मायातृतीये ते एव पशोः सत्त्वं रजस्तमः ।।'

इत्यादिना स्वातन्त्र्यात्मा चितिशक्तिरेव ज्ञानक्रिया-मायाशक्ति-रूपा पशुदशायां संकोचप्रकर्षात् सत्त्व-रजस्तमः स्वभाव-चितात्मतयास्फुरति, इति श्रीप्रत्यभिज्ञायामुक्तम् अत एव श्रीतत्त्वगर्भस्तोत्रे विकल्पदशायामपि तात्त्विकस्वरूपसद्भावात् तदनुसरणाभिप्रायेण उक्तम् --

'अत एव तु ये केचित्परमार्थानुसारिणः ।

तेषां तत्र स्वरूपस्य स्वज्योतिष्ट्वं न लुप्यते ।।'

इति ।।५।।

***

चित्तमेव तु मायाप्रमातुः स्वरूपम्--इत्याह 

तन्मयो मायाप्रमाता ।।६।।

(क्रमशः  follows in the next post.)

***



यथा च भगवान् विश्वशरीरः,

प्रत्यभिज्ञाहृदये - 3

--

यथा च भगवान् विश्वशरीरः, तथा 

चितिसंकोचात्मा चेतनोऽपि संकुचितविश्वमयः ।।४।।

श्रीपरमशिवः स्वात्मैक्येन स्थितं विश्वं सदाशिवाद्युतेन रूपेण अवभासयिषुः पूर्वं चिदैक्याख्यातिमयानाश्रितशिवपर्यायशून्याति-शून्यात्मतया प्रकाशाभेदेन प्रकाशमानतया स्फुरति, ततः चिद्रसा-श्यानतारूपाशेषतत्त्वभुवनभाव-तत्तत्प्रमात्राद्यात्मतयापि ब्रूते। यथा च एवं भगवान् विश्वशरीरः, तथा 'चितिसंकोचात्मा' संकुचितः चिद्रूप 'चेतना' ग्राहकोऽपि वटधानिकावत् संकुचिता-शेषविश्वरूपः।। तथा च सिद्धान्तवचनम् --

'विग्रहो विग्रही चैव सर्वविग्रहविग्रही।'

इति ।

त्रिशिरो-मतेऽपि

'सर्वदेवमयः कायस्तं चेदानीं शृणु प्रिये।

पृथिवी कठिनत्वेन द्रवत्वेऽम्भः प्रकीर्तितम्।'

इत्युपक्रम्य 

'त्रिशिरो भैरवः साक्षाद्व्याप्य विश्वं व्यवस्थितः ।।'

इत्यन्तेन ग्रन्थेन ग्राहकस्य संकुचितविश्वमयत्वमेव व्याहरति ।

अयं  च अत्राशयः  --

ग्राहकोऽपि अयं प्रकाशैकात्म्यैन उक्तागमयुक्त्या च विश्वशरीरशिवैकरूप एव, केवलं तन्मायाशक्त्या अनभिव्यक्त-स्वरूपत्वात् संकुचित इव आभाति, संकोचोऽपि विचार्यमाणः चिदैकात्म्यैन प्रथमानत्वात् चिन्मय एव,  अन्यथा तु न किंचित  । -- इति  सर्वो ग्राहको विश्वशरीरः शिवभट्टारक एव । 

तदुक्तं मयैव  --

'अख्यातिर्यदि न ख्याति ख्यातिरेवावशिष्यते। 

ख्याति चेत् ख्यातिरूपत्वात् ख्यातिरेवावशिष्यते ।।'

इति । अनेनैव आशयेन श्रीस्पन्दशास्त्रेषु 

'यस्मात्सर्वमयो जीवः...........।'

इत्युपक्रम्य 

'तेन शब्दार्थचिन्तासु न सावस्था न यः शिवः ।।'

इत्यादिना शिवजीवयोरभेद एव उक्तः । 

एतत्तत्त्वपरिज्ञानमेव मुक्तिः, एतत्तत्त्वापरिज्ञानमेव च बन्धः, इति भविष्यति एव एतत् ।।४।।

ननु ग्राहकोऽयम् विकल्पमयः, विकल्पनं च चित्तहेतुकं,  सति च चित्ते,  कथमस्यशिवात्मकत्वम्?

-- इति शङ्कित्वा चित्तमेव निर्णेतुमाह --

चितिरेव चेतनपदारूढा चेत्यसंकोचिनी चित्तम् ।।५।।

क्रमशः प्रत्यभिज्ञाहृदये ...

***


Monday, 12 July 2021

अथ विश्वस्य स्वरूपं

प्रत्यभिज्ञाहृदये -- 2.

--------------------------

.... अथ विश्वस्य स्वरूपं विभागेन प्रतिपादयितुमाह --

तन्नाना अनुरूपग्राह्यग्राहकभेदात् ।।३।।

'तत्' विश्वं 'नाना' -- अनेकप्रकारम्  ।

कथं?

'अनुरूपाणां' -- परस्परौ चित्यावस्थितीनां 'ग्राह्याणां ग्राहकाणां' च 'भेदात्' -- वैचित्र्यात् । 

तथा च सदाशिवतत्त्वे अहन्ताच्छादित-अस्फुटेदन्तामयं यादृशं परापररूपं विश्वं ग्राह्यं, तादृगेव श्रीसदाशिवभट्टारकाधिष्ठितो मन्त्रमहेश्वराख्यः प्रमातृवर्गः परमेश्वरेच्छावकल्पिततथावस्थानः । 

ईश्वरतत्त्वे स्फुटेदन्ताहन्ता-सामानाधिकरण्यात्म यादृक् विश्वं ग्राह्यं, तथाविध एव ईश्वर-भट्टारकाधिष्ठितो मन्त्रेश्वरवर्गः । 

विद्यापदे श्रीमदनन्तभट्टारकाधिष्ठिता बहुशाखावान्तरभेदभिन्ना यथाभूता मन्त्राः प्रमातारः, तथाभूतमेव भेदैकसारं विश्वमपि प्रमेयम् । 

मायोर्ध्वे यादृशा विज्ञानाकलाः कर्तृताशून्यशुद्ध-बोधात्मानः, तादृगेव तदभेदसारं सकल-प्रलयात्मक-पूर्वावस्थापरिचितम् एषां प्रमेयम् । मायायां शून्यप्रमातृणां प्रलयकेवलिनां स्वोचितं प्रलीन-कल्पं प्रमेयम् । क्षितिपर्यन्तावस्थितानां तु सकलानां सर्वतो भिन्नानां परिमितानां तथाभूतमेव प्रमेयम् । तदुत्तीर्णशिवभट्टारकस्य प्रकाशैकवपुषः प्रकाशैकरूपा एव भावाः । श्रीमत्परमशिवस्य पुनः विश्वोत्तीर्ण-विश्वात्मक-परमानन्दमय-प्रकाशैकघनस्य एवंविधमेव शिविका धरण्यन्तम् अखिलम् अभेदेनैव स्फुरति,  न तु वस्तुतः अन्यत् किञ्चित् ग्राह्यं ग्राहकं वा, अपि तु श्रीपरमशिवभट्टारक एव इत्थ नानावैचित्र्य-सहस्रैः स्फुरति-इत्यभिहितप्रायम्।। ३।।

यथा च भगवान् विश्वशरीरः, तथा 

चितिसंकोचात्मा चेतनोऽपि संकुचितविश्वमयः।। ४।।

(क्रमशः,  follows in the next post) 

***


प्रत्यभिज्ञाहृदय

प्रत्यभिज्ञाहृदये - 1.
***
ग्रन्थः
-------
नमो मंगलमूर्तये । 
अथ प्रत्यभिज्ञाहृदयः ।।
नमः शिवाय सततं पञ्चकृत्यविधायिने । 
चिदानन्दघनस्वात्मपरमार्थावभासिने ।। १
शांकरोपनिषत्सारप्रत्यभिज्ञामहोदधेः ।
क्षेमेणोद्ध्रियतेसारः संसारविषशान्तये ।। २
इह ये सुकुमारमतयोऽकृततीक्ष्णतर्कशास्त्रपरिश्रमाः शक्तिपातोन्मिषित-पारमेश्वरसमावेशाभिलाषिणः कतिचित् भक्तिभाजः तेषाम् ईश्वरप्रत्यभिज्ञोपदेशतत्त्व मनाक् उन्मील्यते। तत्र स्वात्मदेवताया एव सर्वत्र कारणत्वं सुखोपायप्राप्यत्वं महाफलत्वं च अभिव्यङ्क्तुमाह :
चितिः स्वतन्त्रा विश्वसिद्धिहेतुः ।।१।।
'विश्वस्य' -सदाशिवादेः भूम्यन्तस्य 'सिद्धौ' -निष्पत्तौ, प्रकाशने, स्थित्यात्मनि, परप्रमातृविश्रान्त्यात्मनि च संहारे, पराशक्तिरूपा 'चितिः' भगवती 'स्वतन्त्रा' अनुत्तरविमर्शमयी शिवभट्टारिकाभिन्ना 'हेतुः' -कारणम् । अस्यां हि प्रसरन्त्यां जगत् उन्मिषति व्यवतिष्ठते च, निवृत्तप्रसरायां च निमिषति, -इति स्वानुभव एव अत्र साक्षी । अन्यस्य तु मायाप्रकृत्यादेः चित्प्रकाशभिन्नस्य अप्रकाशमानत्वेन असत्त्वात् न क्वचिदपि हेतुत्वम्, प्रकाशमानत्वे तु प्रकाशैकात्म्यात् प्रकाशरूपा चितिरेव हेतुः, न त्वसौ कश्चित् । अत एव देशकालाकारा एतत्सृष्टा एतदनु-प्राणिताश्च नैतत्स्वरूपं भेत्तुमलम्, -इति व्यापकनित्योदित-परिपूर्णरूपा इयम् इत्यर्थलभ्यमेव एतत् ।
ननु जगदपि चितो भिन्नो नैव किञ्चित्, अभेदे च कथं हेतुहेतुः-मद्भावः ? उच्यते । चिदेवभगवती स्वच्छस्वतन्त्ररूपा तत्तदनन्त-जगदात्मना स्फुरति, -इत्येतावत्परमार्थोऽयं कार्यकारणभावः यतश्च इयमेव प्रमातृ-प्रमाण-प्रमेयस्य सिद्धौ-प्रकाशने हेतुः, ततोऽस्याः स्वतन्त्रापरिच्छिन्नस्वप्रकाशरूपायाः सिद्धौ, अभिनवार्थप्रकाशनरूपं न प्रमाणवराकमुपयुक्तं उपपन्नं वा । तदुक्तं त्रिकसारे --
'स्वपदा स्वशिरश्छायां यद्वल्लङ्घुमीहते ।
पादोद्देशे शिरो न स्यात्तथेयं बैन्दवी कला ।।'
(बिन्दु > बैन्दवी) 
इति ।
यतश्च इयं विश्वस्य सिद्धौ पराद्वयसामरस्यापादनात्मनि च संहारे हेतुः, तत एव स्वतन्त्रा । प्रत्यभिज्ञातस्वातन्त्र्या सती, भोगमोक्ष-स्वरूपाणां विश्वसिद्धीनां हेतुः ।
-- इति आवृत्त्या व्याख्येयम् ।
अपि च 'विश्वं'-नील-सुख-देह-प्राणादि, -तस्य या 'सिद्धिः' -- प्रमाणोपारोहक्रमेण विमर्शमयप्रमात्रावेशः, सैव 'हेतुः' -- परिज्ञाने उपायो यस्याः । अनेन च सुखोपायत्वमुक्तम् । 
यदुक्तं श्रीविज्ञान-भट्टारके --
'ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् । 
योगिनां तु विशेषोऽयं संबन्धे सावधानता ।।'
इति ।
'चितिः' --इति एकवचनं देशकालाद्यनवच्छिन्नताम् अभिदधत् समस्तभेदवादानाम् अवास्तवतां व्यनक्ति। 'स्वतन्त्र' शब्दो ब्रह्म-वाद-वैलक्षण्यम् आचक्षाणः चितो माहेश्वर्यसारतां ब्रूते । 'विश्व' -- इत्यादिपदम् अशेषशक्तित्वं, सर्वकारणत्वं, सुखोपायत्वमुक्तम् च आह ।।१।।
ननु विश्वस्य यदि चितिः हेतुः, तत् अस्या उपादानाद्यपेक्षायां भेद-वादापरित्यागः स्यात् --इत्याशङ्क्य आह ।
स्वेच्छया स्वभित्तौ विश्वमुन्मीलयति  ।।२।।
'स्वेच्छया' न तु ब्रह्मादिवत् अन्येच्छया तथैव च, न तु उपादानाद्यपेक्षया, --एवं हि प्रागुक्त स्वातन्त्र्यहान्या चित्त्वमेव न घटेत् --'स्व भित्तौ', न तु अन्यत्र क्वापि, प्राक् निर्णीतं 'विश्वं' दर्पणे नगरवत् अभिन्नमपि भिन्नमिव 'उन्मील्यति' । 
उन्मीलनं च अवस्थितस्यैव प्रकटीकरणम् -- इत्यनेन जगतः प्रकाशैकात्म्यैन अवस्थानम् उक्तम् ।।२।।
(श्रीदक्षिणामूर्ति स्तोत्रम् -- 
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि बहिरिवोद्भूतं यथा निद्रया ।
यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयम् 
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।)
***
"अथ विश्वस्य स्वरूपं विभागेन प्रतिपादयितुमाह ---"
(follows in the next post,  निरंतर....) 
---







 

Sunday, 11 July 2021

।। शास्त्र ।।

vinayvaidya
ब्लॉग में दो तीन दिन पहले एक पोस्ट लिखा था :
"The Scriptures".
उसका सन्दर्भ आदि शंकराचार्य विरचित विवेकचूडामणि के  इस श्लोक में पाया जा सकता है :
अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला। 
विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला।। ५९
तात्पर्य यह है कि यदि परम तत्त्व का साक्षात्कार नहीं हुआ है, तो (उसके लिए) शास्त्रों का अध्ययन करना निरर्थक है, और यदि परम तत्त्व का साक्षात्कार हो चुका है, तो फिर उसके बाद भी शास्त्रों का अध्ययन वृथा ही है। 
उपरोक्त पोस्ट में मैंने शास्त्रों के विभिन्न प्रकारों का वर्णन कुछ इस तरह से किया था :
1. Descriptive
2. Instructive 
3. Narrative
4. Cryptic 
5. Mystic
6. Historical
मैंने उसमें इनके अतिरिक्त दो और प्रकार
Philosophical, Literary 
भी लिखे थे ।
इसे हिन्दी में क्रमशः कुछ ऐसे कहा जा सकता है :
1. वर्णनात्मक
2. शिक्षात्मक
3. विवरणात्मक
4. जटिल
5. रहस्यात्मक / गूढ
6. ऐतिहासिक
तथा दार्शनिक एवं साहित्यिक। 
वर्णनात्मक और शिक्षात्मक दोनों के अन्तर्गत निगम एवं आगम आते हैं। इनमें किसी वस्तु या विषय की जानकारी दी जाती है।  वह विषय कर्मकाण्ड, ज्ञानकाण्ड या मीमांसा हो सकता है। कर्मकाण्ड के अन्तर्गत योग, कर्म, भक्ति आदि या पदार्थ-शास्त्र भी हो सकता है।
ज्ञानकाण्ड के अन्तर्गत सांख्य दर्शन आता है।
विवरणात्मक के अंतर्गत षट्दर्शन और तंत्र-सिद्धान्त आदि आते हैं। 
उस पोस्ट का प्रारंभ ही हमारे युग के एक सुप्रसिद्घ वक्ता के इस  उद्धरण : "The Description is not the Described."
से किया था।
वास्तव में यह वचन भी श्री शङ्कराचार्य के उस श्लोक की ही  प्रतिध्वनि है, जिसे अभी-अभी यहाँ उद्धृत कर चुका हूँ।
अपने उस अंग्रेजी ब्लॉग में, और इस ब्लॉग में भी काल-स्थान, गणित, विज्ञान तथा क्वान्टम सिद्धान्त आदि की मर्यादा के बारे में, लिख चुका हूँ।
इस पोस्ट से पहले जो पोस्ट "दो ध्रुव" लिखा, उसके दूसरे भाग  में श्वेताश्वतरोपनिषद् के छठे अध्याय का सन्दर्भ देने से अपने आप को नहीं रोक सका।
जैसा कि इस अध्याय के प्रथम श्लोक में कहा गया है :
स्वभावमेके कवयो वदन्ति 
कालं तथान्ये परिमुह्यमानाः ।
से स्पष्ट है कि जिस "काल" की माप-जोख भौतिक-विज्ञान के   
शास्त्रज्ञ करते हैं, वह वही काल है जिसे गीता में :
"कालः कलयतामहम्।"
(अध्याय १०)
के माध्यम से भगवान् श्रीकृष्ण ने कहा है, और इसी गीताशास्त्र में भगवान् श्रीकृष्ण ने ही यह भी कहा है :
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः। 
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ।।१६
(अध्याय ४)
शिवाथर्वशीर्षम् में काल का वर्णन इस रूप में किया जाता है :
"अक्षरात्संजायते कालो कालाद् व्यापकः उच्यते व्यापको हि भगवान्रुद्रो भोगायमानो... 
यदा शेते रुद्रो संहरति प्रजाः।।
इस प्रकार सृष्टि और प्रलय का तात्पर्य निर्माण और विनाश नहीं, बल्कि जगत का अव्यक्त से व्यक्त रूप में प्रकट होना, और पुनः व्यक्त से अव्यक्त में विलीन होना मात्र है। 
सभी दृष्टियों से काल-स्थान की स्वतंत्र सत्ता है ही नहीं, काल तो  केवल कलनात्मक, अनुमानपरक है।
vinayvaidya  ब्लॉग में ही  Quantum शीर्षक पोस्ट में यही स्पष्ट किया है, कि विचार ही Quantum-movement  है,  और ऐसा क्यों है,  इस विषय में आज के भौतिकीविदों के तमाम काल्पनिक संदेहों का निवारण भी कर दिया है, जहाँ आप  David Bohm, Heisenberg, Schrodinger आदि का उल्लेख देख सकते हैं।
तात्पर्य  यह कि आज के विज्ञान का प्रारंभ ही मूलतः गलत अवधारणाओं से हुआ है, और इसी प्रकार 
Philosophy, Psychology, Medical Science, Religion, Linguistics,  Philology,  Literature, Art, Music आदि का भी। 
इसका अर्थ यह नहीं कि वह संपूर्णतः ही गलत है,  इसका अर्थ केवल इतना है कि उनके प्रारंभ में ही कोई न कोई त्रुटि है। 
जहाँ तक तकनीक (तक्ष / तज्ञ) / technique का प्रश्न है, वह अवश्य ही युक्तिसंगत है।
इसके मूल में भी यही कारण है, कि अब्राहमिक रिलीजन (न कि धर्म) के तीनों मत (cults) सनातन-धर्म-विरोधी हैं। उनकी यह द्वेष-बुद्धि ही उनकी उन्नति में बाधक है, इस सच्चाई को देख न पाने से ही वे अपने ही जाल में फँस हुए हैं। सनातन-धर्म इसके विपरीत धर्म को प्राणिमात्र की शरण और स्वभाव मानते हुए किसी से भी द्वेष नहीं करता -"मा विद्विषावहै।"  से ही तो उसके दर्शन का आरंभ होता है और वह इस प्रकार से सहिष्णुतापूर्वक प्रत्येक को आश्रय प्रदान करता है ।
किस भाषा से किस भाषा की उत्पत्ति हुई इस विषय में वे सतत अनुसंधान करते दिखाई देते हैं और यह स्थापित करने की चेष्टा करता हैं, कि संस्कृत एवं लैटिन दोनों भाषाओं का उद्भव किसी तीसरी प्राचीन भाषा से हुआ है। ऐसे ही एक 'भाषाविद' ने तो उस भाषा का प्रारूप भी बना डाला है, ताकि इस मत की पुष्टि हो सके। 
वे देवी अथर्वशीर्ष का उल्लेख भी नहीं करना चाहते जो भाषाओं के उद्गम के बारे में कहता है! 
धर्म के लिए उसका अंग्रेजी अनुवाद 'रिलीजन'  शब्द से करते हुए इस तथ्य को कूड़े में डाल दिया गया, कि धर्म संप्रदाय या मत नहीं उससे भिन्न कोई आत्यंतिक तत्व है। 
इस प्रकार हिन्दू, मुस्लिम, सिख, जैन, बौद्ध, ईसाई, कैथोलिक, पारसी, यहूदी, आदि cults / sects को धर्म कहकर केवल भ्रान्ति ही फैलाई जा रही है। 
यह क्रम अभी भी निरंतर चल रहा है। 
धर्म या सनातन-धर्म में अपने स्वाभाविक धर्म का अनुष्ठान करने को ही सर्वाधिक महत्वपूर्ण माना गया है, इसके लिए आवश्यक है कि हर मनुष्य 'अपना धर्म क्या है?' इसकी खोज खुद ही करे, -न कि परंपरा से प्राप्त संप्रदाय-मत (cult / sect / religion) को धर्म कह कर एक दूसरे को भय या प्रलोभन के माध्यम से प्रभावित करते हुए अपने संप्रदाय में मतान्तरित करे। 
गीता में यही कहा गया है :
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।। ३५
(अध्याय ३)
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्।। ४७
(अध्याय १८)
पुनः गीता में ही वर्णाश्रम धर्म को ही धर्म कहा है, जिसका सृजन स्वयं परमेश्वर ने ही किया है :
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः।
तस्य कर्तारमपि मां विद्धि विद्ध्यकर्तारमव्ययम् ।। १३
(अध्याय ४)
इस दृष्टि से भी यही प्रमाणित होता है, कि सनातन-धर्म भी  एकेश्वरवादी है। नास्तिकों और अब्राहमिक मत को माननेवालों ने  एकेश्वरवाद के लिए mono-theism शब्द चुना और इस तथ्य को हमारी दृष्टि से ओझल कर दिया कि सनातन-धर्म के वेद एवं अन्य ग्रन्थ बहुदेववाद (polytheism) के ही सन्दर्भ में उनके और जगत के एक ही स्वामी ईश्वर को एकमेव परम सत्ता  मानते हैं ।
इसी एकमेव परम सत्ता 'ईश्वर' के उपाधि के अनुसार देवता रूपी असंख्य भेद हैं ।
वही ईश्वर कर्ता की तरह, प्रकृति के गुण-कर्मों के आधार पर सभी का के जीवन का विधाता है। गुण-कर्मों के ही कारण हर मनुष्य की प्रकृति और इसलिए उसका वर्ण भी दूसरे मनुष्यों से भिन्न होता है। 
इस प्रकार सभी मनुष्य मूलतः इन्हीं चार वर्णों में उत्पन्न होते हैं।
और मनुष्य जाने-अनजाने भी अपनी इसी प्रकृति से प्रेरित हो कर कर्म करता है। किन्तु इसे ही वह सचेत होकर सतर्कता से करे तो यह उसका स्वधर्म हो जाता है। इसे जानने के लिए मनुष्य में जिज्ञासा होना चाहिए। शास्त्र तो जिज्ञासुओं के लिए ही उपयोगी होते हैं। जिज्ञासु नित्य-अनित्य के चिंतन से विवेक प्राप्त करते हैं और विवेक से ही वैराग्यवान तथा मुमुक्षु।
यही आध्यात्मिक उत्थान का क्रम है। इस क्रम को न जानने पर शास्त्र निरर्थक हैं, और इस क्रम के पूर्ण हो जाने पर,  परमात्मा की प्राप्ति हो जाने पर भी शास्त्र व्यर्थ ही होते हैं। 
इसलिए तत्व को जानने पर भी शास्त्र का और कोई उपयोग नहीं होता तथा तत्व को न जानने पर भी।
इसलिए पहले तो यह जानना बहुत आवश्यक है कि धर्म, अर्थात् मेरा धर्म क्या है! और तब मेरा आभासी धर्म तथा वास्तविक धर्म क्या है, इसे भी जानना उससे भी अधिक आवश्यक है। 
***










संयोगवश

।। ज्ञानबलक्रिया च तत्सांख्ययोगाधिगम्यम् ।।

"भक्तिदर्शनम्" पोस्ट शेयर करने के बाद सोच रहा था कि सूत्रों का यथासंभव भावार्थ लिखूँ। किन्तु सुबह 03:49 पर नींद खुली तो "दो ध्रुव" कविता के शब्द मन में उमड़ रहे थे। 

उसे पूरा किया और उसके संदर्भ के लिए मेरा प्रिय वाक्य :

"य एषः सुप्तेषु जागर्ति।।"

कहाँ है, -इसे खोज रहा था।  पर नहीं मिला।  किन्तु एकाएक श्वेताश्वतरोपनिषद् के छठे अध्याय के एक श्लोक पर दृष्टि पड़ी तो पूरा अध्याय ही छाप दिया!

वैसे खुशी ही हुई।  तय नहीं कर पा रहा था कि उसमें से कौन सा श्लोक अधिक महत्वपूर्ण है और कौन सा कम! 

भक्ति-सूत्र फिर कभी! 

अभी तो इसी के रसास्वादन में निमग्न हूँ!

***

Saturday, 10 July 2021

दो ध्रुव! (कविता)

कविता : 11-07-2021

---------------©-------------

मैं और मन,

-एक,

देह और जग,

दूसरा!

मैं नहीं, 

तो मन नहीं!

मन नहीं, 

तो मैं नहीं,

देह नहीं, 

तो जग नहीं!

जग नहीं,

तो देह नहीं!

तो मन, -मैं ही! 

और मैं, -मन ही!

तो देह, -जग ही, 

और जग, -देह ही! 

फिर भी,

मैं, या मन,

सुषुप्त, स्वप्न,

या जाग्रत!

तो भी, 

देह, या जग,

सुषुप्ति, स्वप्न,

या जागृति!

कोई है, 

जो अछूता, 

जिसमें सब,

जो मैं, मन,

जो देह, जग, 

जो सुषुप्ति, 

जो स्वप्न,

जो जागृति!

जो सुषुप्त,

जो स्वप्न,

जो जागृत! 

सबमें परंतु,

सबसे विलक्षण!

***

सन्दर्भ :

--

श्वेताश्वतरोपनिषद् 

षष्ठ अध्याय

शान्तिपाठ

ॐ सह नाववतु।  सह नौ भुनक्तु।  सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु।  मा विद्विषावहै।। 

ॐ शान्तिः!  शान्तिः !! शान्तिः !!!

***

स्वभावमेके कवयो वदन्ति

कालं तथान्ये परिमुह्यमानः। 

देवस्यैष महिमा तु लोके

येनेदं भ्राम्यते ब्रह्मचक्रम्।। १

येनावृतं नित्यमिदं हि सर्वं

ज्ञः कालकालो गुणी सर्वविद्यः। 

तेनेशितं कर्म विवर्तते ह

पृथ्व्यप्तेजोऽनिलखानि चिन्त्यम् ।। २

तत्कर्म कृत्वा विनिवर्त्य भूय-

स्तत्त्वस्य तत्त्वेन समेत्य योगम्।

एकेन द्वाभ्यां त्रिभिरष्टिभिर्वा 

कालेन चैवात्मगुणैश्च सूक्ष्मैः ।। ३

आरभ्य कर्माणि गुणान्वितानि

भावांश्च सर्वान् विनियोजयेद् यः ।

तेषामभावे कृतकर्मनाशः  

कर्मक्षये याति स तत्त्वतोऽन्यः ।। ४

आदिः स संयोगनिमित्तहेतुः

परस्त्रिकालादकलोऽपि दृष्टः। 

तं विश्वरूपं भवभूतमीड्यं

देवं स्वचित्तस्थमुपास्य पूर्वम्।। ५

स वृक्षकालाकृतिभिः परोऽन्यो

यस्मात् प्रपञ्चः परिवर्ततेऽयम् ।

धर्मावहं पापनुदं भगेशं

ज्ञात्वात्मस्थममृतं विश्वधाम ।। ६

तमीश्वराणां परमं महेश्वरं 

तं देवतानां परमं च दैवतम्। 

पतिं पतीनां  परमं परस्ताद् 

विदाम देवं भुवनेशमीड्यम्।। ७

न तस्य कार्यं करणं च विद्यते 

न तत्समश्चाभ्यधिकश्च दृश्यते। 

परास्य शक्तिर्विविधैव श्रूयते

स्वाभाविकी ज्ञानबलक्रिया च।। ८

न तस्य कश्चित्पतिरस्ति लोके

न चेशिता नैव च तस्य लिङ्गम्। 

स कारणं करणाधिपाधिपो

न चास्य कश्चिज्जनिता न चाधिपः।। ९

यस्तन्तुनाभः इव तन्तुभिः प्रधानजैः स्वभावतो देव एकः स्वभावृणोत्। स नो दधाद्ब्रह्माप्ययम् ।।१०

एको देवः सर्वभूतेषु गूढः

सर्वव्यापी सर्वभूतान्तरात्मा। 

कर्माध्यक्षः सर्वभूताधिवासः

साक्षी चेता केवलो निर्गुणश्च ।। ११

एको वशी निष्क्रियाणां बहूना-

मेकं बीजं बहुधा यः करोति। 

तमात्मस्थं येऽनुपश्यन्ति धीरा-

स्तेषां सुखं शाश्वतं नेतरेषाम्।। १२

नित्यो नित्यानां चेतनश्चेतनाना-

मेको बहूनां यो विदधाति कामान्। 

तत्कारणं सांख्ययोगाधिगम्यं

ज्ञात्वा देवं मुच्यते सर्वपाशैः।। १३

न तत्र सूर्यो भाति न चन्द्रतारकं

नेमि विद्युतो भान्ति कुतोऽयमग्निः ।

तमेव भान्तमनुभान्ति सर्वं

तस्य भासा सर्वमिदं विभाति।। १४

एको ह्ँसो भुवनस्यास्य मध्ये

स एवाग्निः सलिल संनिविष्टः। 

तमेव विदित्वाऽतिमृत्युमेति

नान्यः पन्था विद्यतेऽयनाय ।। १५

स विश्वकृद् विश्वविदात्मयोनि-

र्ज्ञः कालकालो गुणी सर्वविद् यः। 

प्रधानक्षेत्रज्ञपतिर्गुणेशः

स्ँसारमोक्षस्थितिबन्धहेतुः।। १६

स तन्मयो ह्यमृत ईशसंस्थो

ज्ञः  सर्वगो भुवनस्यास्य गोप्ता। 

य ईशे अस्य जगतो नित्यमेव

नान्यः हेतुर्विद्यत ईशनाय।। १७

यो ब्रह्माणं विदधाति पूर्वं

यो वै वेदांश्च प्रहिणोति तस्मै। 

त्ँ ह देवात्मबुद्धिप्रकाशं

मुमुक्षुर्वै शरणमहं प्रपद्ये ।।१८

निष्कलं निष्क्रिय्ँ शान्तं निरवद्यं निरञ्जनम्। 

अमृतस्य पर्ँ सेतुं दग्धेन्धमिवानलम्।। १९

यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः। 

तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ।। २०

तपःप्रभावाद् देवप्रसादाच्च ब्रह्म

ह श्वेताश्वतरोऽथ विद्वान्। 

अत्याश्रमिभ्यः परमं पवित्रं

प्रोवाच सम्यगृषिसङ्घजुष्टम्।। २१

वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम्। 

नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः।। २२

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। 

तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः। 

                              प्रकाशन्ते महात्मनः।। २३

।। षष्ठ अध्याय समाप्त।।

।। कृष्णयजुर्वेदीय श्वेताश्वतरोपनिषद् समाप्त।। 

शान्तिपाठ 

ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु मा विद्विषावहै।। 

ॐ शान्तिः ! शान्तिः !! शान्तिः !!!

***




 



Tuesday, 6 July 2021

।।भक्तिदर्शनम्।।

पूज्यपाद महर्षि शाण्डिल्य कृत

।।भक्तिदर्शनम्।।

~~ सरलीकृत ~~

मङ्लाचरणम् 

------------------

अजन्मानोलोकाः किमवयववन्तोऽपि जगता-

मधिष्ठातारं किं भवविधिरनादृत्य भवति। 

अनीशो वा कुर्याद् भुवनजनने कः परिकरो 

यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे।। ६

त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति 

प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च।

रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां 

नृणामेको गम्यस्त्वमसि पयसामर्णव इव।। ७

मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः 

प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः।

यदालोक्याह्लादं ह्रद इव निमज्यामृतमये 

दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान्।। २५

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-

स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च।

परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं 

न विद्मस्तत्तत्वं वयमिह तु यत्त्वं न भवसि।। २६

त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा-

नकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति।

तुरीयं ते धाम ध्वनिभिरवरुन्धामणुभिः 

समस्तं व्यस्तं त्वं शरणद गृणात्योमिति पदम्।। २७

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो

नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः। 

नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः

नमः सर्वस्मै ते तदिदमिति शर्वाय च नमः।। २९

बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः

प्रबलतमसे तत्संहारे हराय नमो नमः।

जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः

प्रमहसि मदे निस्त्रैगुण्ये शिवाय नमो नमः।। ३०

***

भूमिका :

देवर्षि नारदजी ने श्री महाविष्णु से पूछा,  

प्रभो!  सत्य कहो आप तो सर्वव्यापक ही हैं, परन्तु विशेष करके किस स्थान में रहते हो? 

ऐसा नारदजी के प्रश्न करने पर श्री विष्णुजी ने कहा :

"नाहं तिष्ठामि वैकुण्ठे योगिनां हृदयेऽपि च। 

मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद।।"

श्री महाविष्णु बोले :

मैं जैसा भक्त के हृदय में प्रीति से रहता हूँ वैसा योगियों के हृदय में वा वैकुण्ठ में भी नहीं रहता। 

अर्थात् ईश्वर की प्राप्ति के विषय में सबसे श्रेष्ठ भक्ति ही है। 

भक्ति करने से साधारण अज्ञ-जन भी ईश्वर के पद को प्राप्त हो गये। अतः ईश्वरप्राप्ति के लिए यह महर्षि शाण्डिल्य प्रणीत ग्रन्थ "भक्तिदर्शनम्" जिज्ञासु भक्तों के लिए परम सुगम उपाय है। 

(सौजन्य : खेमराज श्रीकृष्णदास --"श्रीवेंकटेश्वर" प्रेस)

संवत् १९७९ में प्रकाशित स्वामी ज्ञानानन्द जी कृत ग्रन्थ के भाषा भाष्य से। 

***

प्रथमोऽध्यायः --

प्रथमाह्निकः :

ॐ अथातो भक्ति जिज्ञासा।। १

ॐ अथ अतः भक्ति-जिज्ञासा (क्रियते) ।।

सा परानुरक्तिरीश्वरे।। २

सा परा-अनुरक्तिः ईश्वरे।।

तत्संस्थस्यामृतत्वोपदेशात्।। ३

तत्-संस्थस्य-अमृतत्व-उपदेशात् ।।

ज्ञानमितिचेन्नद्विषतोऽपिज्ञानस्यतदसंस्थितेः ।। ४

ज्ञानं इति चेत्, -न, द्विषतः अपि ज्ञानस्य तत्-असंस्थिते।। 

तयोपक्षयाच्च।। ५

तया उपक्षयात् च।। 

द्वेषप्रतिपक्षभावाद्रसशब्दाच्च रसः।। ६

द्वेष-प्रतिपक्ष-भावात्-रस-शब्दात्-च रसः।। 

न क्रियाकृत्यमनपेक्षणाज्ज्ञानवत्।। ७

न क्रिया-कृत्यं-अनपेक्षणात्-ज्ञानवत् ।।

अत एव फलानन्त्यम् ।। ८

अतः एव फल-आनन्त्यम् ।।

तद्वतःप्रपत्तिशब्दाच्च नज्ञानमितरप्रपत्तिवत्।। ९

तत्-वतः प्रपत्तिशब्दात् च न ज्ञानं इतर-प्रपत्तिवत्।।

सा मुख्येतरापेक्षितत्वात् ।।१०

सा मुख्या-इतरा अपेक्षितत्वात्।। 

प्रकरणाच्च।। ११

प्रकरणात् च।। 

दर्शनफलमितिचेन्न तेनव्यवधानात्।। १२

दर्शनफलं इति चेत् न, तेन व्यवधानात्।। 

दृष्टत्वाच्च।। १३

दृष्टत्वात् च।। 

अत एव तदभावाद्बल्लवीनाम्।। १४

अतः एव तत् अभावात् बल्लवीनाम्।। 

भक्त्या जानातीतिचेन्नभिज्ञप्तया साहाय्यात्।। १५

भक्त्या जानाति इति चेत् न, अभिज्ञप्तया साहाय्यात् ।।

प्रागुक्तं च।। १६

एतेन विकल्पोऽपि प्रत्युक्तः।। १७

एतेन विकल्पः अपि प्रत्युक्तः।। 

देवभक्तिरितरस्मिन् साहचर्यात्।। १८

देवभक्तिः इतरस्मिन् साहचर्यात्।। 

योगस्तूभयार्थमपेक्षणात्प्रयाजवत्।। १९

योगः तु उभय-अर्थंं-अपेक्षणात्-प्रयाजवत् ।।

गौण्या तु समाधिसिद्धिः।। २०

गौण्या तु समाधि-सिद्धिः।।

हेया रागत्वादितिचेन्नोत्तमास्पदत्वात् सङ्गवत्।। २१

हेया रागत्वात् इति चेत् न, उत्तमा आस्पदत्वात् सङ्वत्।। 

तदेवकर्म्मिज्ञानियोगिभ्य आधिक्यशब्दात्।। २२

प्रश्ननिरूपणाभ्यामाधिक्यसिद्धेः।। २३

प्रश्न-निरूपणाभ्यां आधिक्य-सिद्धेः ।।

नैव श्रद्धा तु साधारण्यात्।। २४

न एव श्रद्धा तु साधारण्यात्।। 

तस्यांं तत्वेचानवस्थानात्।। २५

तस्यां तत्वे च अनवस्थानात्।। 

(अनवस्था-दोष :

शंका : जैसे संसार को किसी (सृष्टिकर्त्ता) ने तो बनाया होगा!

समाधान : 

यदि ऐसा हो तो प्रश्न उठता है कि फिर उस सृष्टिकर्त्ता को भी किसी न किसी ने बनाया होगा। इसे ही तर्कशास्त्र में --

"अनवस्था-दोष"

कहा जाता है। 

इसलिए सृष्टि का अर्थ निर्माण नहीं, प्रकृति (जीव तथा जगत्) का अव्यक्त से व्यक्त रूप ग्रहण करना और पुनः व्यक्त से अव्यक्त में लौट जाना है।)

बुद्धिहेतुप्रवृत्तिराविशुद्धेरवघातवत्।। २७

बुद्धि-हेतु-प्रवृत्तिः आविशुद्धेः अवघातवत्।। 

तदङ्गानाञ्च।। २८

तत्-अङ्गानां च।। 

तामैश्वर्य्यपदां काश्यपःपरत्वात्।। २९

तां ऐश्वर्य्यपदां काश्यपः-परत्वात् ।।

आत्मैकपरां बादरायणः।। ३०

आत्म-एक-परां बादरायणः।। 

उभयपरां शाण्डिल्यः शब्दोपपत्तिभ्याम्।। ३१

उभयपरां शाण्डिल्यः शब्द-उपपत्तिभ्याम् ।।

वैषम्यादऽसिद्धमितिचेन्नाभिज्ञानवदवैशिष्ट्यात्।। ३२

वैषम्यात् असिद्धं इति चेत्,  -न, अभिज्ञानवत् अवैशिष्ट्यात् ।।

न च क्लिष्टः परस्मादनन्तरं विशेषात्।। ३३

न च क्लिष्टः परस्मात् अनन्तरं विशेषात्।। 

ऐश्वर्य्ये तथेति चेन्न स्वाभाव्यात्।। ३४

ऐश्वर्य्ये तथा इति चेत्, -न, स्वाभाव्यात्।।

अप्रतिषिद्धं परैश्वर्य्यं तद्भावाच्च नैवमितरेषाम्।। ३५

अप्रतिषिद्धं पर-ऐश्वर्य्यं तत्-भावात् च न-एवं इतरेषाम्।। 

सर्वानृते किमितिचेन्नैवं बुद्ध्यानन्त्यात्।। ३६

सर्वान् ऋते किं इति चेत्, -न एवं, बुद्धि-आनन्त्यात् ।।

प्रकृत्यन्तरालादवैकार्यं चित्सत्त्वेनानुवर्तमानत्वात्।। ३७

प्रकृति-अन्तरालात् अ-वैकार्यं चित्-सत्त्वेन-अनुवर्तमानत्वात् ।।

तत्प्रतिष्ठागृहपीठवत्।। ३८

तत्-प्रतिष्ठा गृहपीठवत्।।

मिथोपेक्षणादुभयम्।। ३९

मिथा-उपेक्षणात् उभयम् ।।

(मिथोऽपेक्षणात् उभयम्?)

चैत्याचितोर्नत्रितीयम्।। ४०

चैत्य-अचितोः न त्रितीयम्।। 

(तृतीयम्?)

युक्तौ च सम्परायात्।। ४१

युक्तौ च सम्परायात्।। 

शक्तित्वान्नानृतं वेद्यम्।। ४२

शक्तित्वात्, -न अनृतं वेद्यम्।।

तत्परिशुद्धिश्च गम्यालोकवल्लिङ्गेभ्यः।। ४३

तत्-परिशुद्धिः च गम्या लोकवत् लिङ्गेभ्यः ।।

सम्मान बहुमान प्रीति विरहेतर विचिकित्सा महिमख्याति तदर्थ प्राण स्थान तदीयता सर्व तद्भावा प्रातिकूल्यादीनि स्मरणेभ्यो बाहुल्यात्।। ४४

सम्मान बहुमान प्रीति विरहा-इतर विचिकित्सा महिमा-ख्यातिः तदर्थः प्राणः स्थानः तदीयता सर्व तत्-भावा प्रातिकूल्य आदीनि च स्मरणेभ्यः बाहुल्यात्।।

द्वेषादयस्तु नैवम् ।। ४५

द्वेष-आदयः तु न एवम्।। 

तद्वाक्यशेषात् प्रादुर्भावेष्वपि सा।। ४६

तत् वाक्यशेषात् प्रादुर्भावेषु अपि सा।। 

जन्मकर्म्मविदश्चाजन्मशब्दात् ।। ४७

जन्मकर्म्मविदः च अजन्म-शब्दात् ।।

तच्च दिव्यं स्वशक्तिमात्रोद्भवात् ।। ४८

तत् च दिव्यं स्वशक्तिमात्र-उद्भवात् ।

मुख्यं तस्य हि कारुण्यम्।। ४९

मुख्यं तस्य हि कारुण्यम्।। 

प्राणित्वान्न विभूतिषु।। ५०

प्राणित्वात्, -न विभूतिषु।।

द्यूतराजसेवयोः प्रतिषेधात्।। ५१

द्यूत-राजसेवयोः प्रतिषेधात्।। 

वासुदेवे प्रीतिचेन्न आकारमात्रत्वात्।। ५२

वासुदेवे प्रीति चेत्, -न आकारमात्रत्वात्।।

प्रत्यभिज्ञानाच्च।। ५३

प्रत्यभिज्ञानात् च।। 

वृष्णिषु श्रेष्ठत्वमेतत् ।। ५४

वृष्णिषु श्रेष्ठत्वं एतत्।। 

एवं प्रसिद्धेषु ।।५५

एवं प्रसिद्धेषु।। 

भक्त्या भजनोपसंहाराद्गौण्यापरायैतद्धेतुत्वात्।। ५६

भक्त्या भजन-उपसंहारात् गौण्या परायै तत्-हेतुत्वात्।।

रागार्थे प्रकीर्तिसाहचर्य्याच्चेततरेषाम् ।।५७

राग-अर्थे प्रकीर्ति-साहचर्य्यात् च इतरेषाम्।। 

अन्तराले तु शेषाः स्युरुपास्यादौ च काण्डत्वात्।। ५८

अन्तराले तु शेषाः स्युः उपास्य आदौ च काण्डत्वात्।।

ताभ्यः पावित्र्यमुपक्रमात् ।। ५९

ताभ्यः पावित्र्यं उपक्रमात् ।।

तासु प्रधानयोगात् फलाऽऽधिक्यमेके ।। ६०

तासु प्रधानयोगात् फल आधिक्यं एके ।।

नाम्नेति जैमिनिः सम्भवात्।। ६१

नाम्ना इति जैमिनिः सम्भवात्।। 

अत्राङ्गप्रयोगानां यथाकालसंभवो गृहादिवत्।। ६२

अत्र अङ्गप्रयोगानां यथाकालसंभवः गृह आदिवत्।। 

ईश्वरतुष्टैरेकोऽपिबली ।।६३

ईश्वरतुष्टैः एकः अपि बली।। 

अबन्धोऽपर्णस्य मुखम्।। ६४

अबन्धः अपर्णस्य मुखम्।। 

(जब किसी वृक्ष में पर्ण अर्थात् अंकुर आना बन्द हो जाता है। यहाँ अपर्ण का अर्थ अर्पण किया गया है, जो पर्याय से उचित ही है।) 

ध्याननियमास्तु दृष्टसौकर्यात्।। ६५

ध्यान-नियमाः तु दृष्ट-सौकर्यात्।। 

तद्यजिः पूजायामितरेषां नैवम्।। ६६

तत्-यजिः पूजायां इतरेषां, -न एवम्।।

पादोदकं तु पाद्यमव्याप्ते।। ६७

पादोदकं तु पाद्यं अव्याप्ते।। 

स्वयमर्पितं ग्राह्यमविशेषात्।। ६८

स्वयं अर्पितं ग्राह्यं अविशेषात्।। 

निमित्तगुणानपेक्षणादपराधेषु व्यवस्था।। ६९

निमित्त-गुणान्-अपेक्षणात् अपराधेषु व्यवस्था।। 

पत्रादेर्दानमन्यथा हि वैशिष्ट्यम् ।। ७०

पत्र-आदेः दानं अन्यथा हि वैशिष्ट्यम् ।।

सुकृतत्वात्परहेतुश्च भावाश्च क्रियासु श्रेयस्य।। ७१

सुकृतत्वात् पर-हेतुः च भावाः च क्रियासु श्रेयस्य।। 

गौणं त्रैविध्यमितरेण स्तुत्यर्थत्वात् साहचर्यम्।। ७२

गौणं त्रैविध्यं अन्तरेण स्तुति-अर्थत्वात् साहचर्यम्।। 

बहिरन्तरस्थमुभयमवेष्टि सर्ववत्।। ७३

बहिः अन्तरस्थं उभयं अवेष्टि सर्ववत्।। 

(अव इष्टि) 

भूयसामननुष्ठितिरितिचेदाप्रयाणमुपसंहारान्महत्स्वपि।। ७४

भूयसां अननुष्ठितिः इति चेत् आप्रयाणं उपसंहारात् महत्सु अपि।।

स्मृतिकीर्त्योः कथादेश्चार्तौ प्रायश्चित्तभावात्।। ७५

स्मृतिकीर्त्योः कथा-आदेः च आर्तौ प्रायश्चित्तभावात्।। 

लघ्वपि भक्ताधिकारे महत्क्षेपकमपरसर्वहानात्।। ७६

लघु अपि भक्त-अधिकारे महत्-क्षेपकं अपर-सर्वहानात्।।

तत्स्थानत्वादनन्यधर्मः खले वालीवत्।। ७७

तत्-स्थानत्वात् अनन्यधर्मः खले वालीवत्।।

अनिन्द्ययोन्यधिक्रियतेपारम्पर्यात्सामान्यवत् ।। ७८

आनिन्द्ययोनि-अधिक्रियते पारम्पर्यात् सामान्यवत्।। 

अतोह्यपक्वभावानामपितल्लोके।। ७९

अतः हि अपक्वभावानां अपि तत् लोके।। 

क्रमैकगत्युपपत्तेस्तु ।। ८०

क्रम-एकगत्या उपपत्तेः तु।। 

उत्क्रान्तिस्मृतिवाक्यशेषात् ।। ८१

उत्क्रान्ति-स्मृति-वाक्यशेषात्।।

महापातकिनां तु आर्तौ ।।८२

महापातकिनां तु आर्तौ।। 

सैकान्तभावोगीतार्थप्रत्यभिज्ञानात्।। ८३

सः एकान्तभावः गीता-अर्थ-प्रत्यभिज्ञानात् ।।

परां कृत्वैव सर्वेषां तथा ह्याह ।। ८४

परां कृत्वा एव सर्वेषां  तथा हि आह।। 

भजनीयेनाद्वितीयमिदंकृत्स्नस्यतत्स्वरूपत्वात् ।। ८५

भजनीयेन अद्वितीयं इदं कृत्स्नस्य तत्-स्वरूपत्वात् ।।

तच्छक्तिर्माया जडसामान्यात्।। ८६

तत्-शक्तिः माया जडसामान्यात्।। 

व्यापकत्वाद्व्यापकानाम् ।। ८७

व्यापकत्वात् व्यापकानाम्।। 

नप्राणिबुद्धिभ्योऽसंभवात् ।। ८८

न प्राणिबुद्धिभ्यः असंभवात्।। 

निर्मायोच्चावचं श्रुतीश्चनिर्मिमीते पितृवत् ।। ८९

निर्माय उच्चावचं श्रुतिः च निर्मिमीते पितृवत्।। 

(उच्चावचं?) 

मिश्रोपदेशान्नेति चेन्न स्वल्पत्वात्।। ९०

मिश्र-उपदेशात् न इति चेत्, -न स्वल्पत्वात्।।

फलमस्मात्बादरायणो दृष्टत्वात्।। ९१

फलं अस्मात् बादरायणः दृष्टत्वात्।। 

व्युत्क्रमादप्ययस्तथादृष्टम्।। ९२

व्युत्क्रमात् अप्ययः तथा दृष्टम्।। 

तदैक्यंनानात्वैकत्वमुपाधियोगहानादादित्यवत्।। ९३

तत् ऐक्यं नानात्व एकत्वं उपाधियोग-हानात् आदित्यवत्।। 

पृथगिति चेन्नापरेणासंबन्धात्प्रकाशानाम्।। ९४

पृथक् इति चेत्, - न, अपरेण असम्बन्धात् प्रकाशानाम्।।

नविकारिणस्तुकारणविकारात् ।।९५

न विकारिणः तु कारणविकारात्।। 

अनन्यभक्त्या तद्बुद्धिर्बुद्धिलयादत्यन्तम् ।।९६

अनन्यभक्त्या तत् बुद्धिः बुद्धिलयात् अत्यन्तम् ।।

आयुश्चिरमितरेषां तु हानिरनास्पदत्वात् ।। ९७

आयुः चिरं इतरेषां तु हानिः अनास्पदत्वात्।। 

संसृतिरेषामभक्तिः स्यान्नाज्ञानात् कारणासिद्धेः।। ९८

संसृतिः एषां अभक्तिः स्यात् न अज्ञानात् कारण-असिद्धेः ।।

त्रीण्येषां नेत्राणि शब्दलिङ्गाक्षभेदाद्रुद्रवत्।। ९९

त्रीणि एषां नेत्राणि शब्द-लिङ्ग-अक्ष भेदात्-रुद्रवत् ।।

आविस्तिरोभावाविकाराःस्युःक्रियाफलसंयोगात्।। १००

आविः तिरोभावाः विकाराः स्युः क्रियाफलसंयोगात्।। 

***

।। ॐ शान्तिः शान्तिः शान्तिः ।।

।। इति महर्षि श्रीशाण्डिल्यकृत भक्तिदर्शनम् ।।

।। शिवार्पणमस्तु ।।

***