.... And the Consequences.
--
~~ शिवाथर्वशीर्षम् ~~
एषो ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः।
स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः।
एको रुद्रो न द्वितीयाय तस्मै य इमाँल्लोकानीशत ईशनीभिः।
प्रत्यङ्जनास्तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोप्ता।
यो योनिं योनिमधितिष्ठत्येको येनेदं सर्वं विचरति सर्वम्।
तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति।
क्षमां हित्वा हेतुजालस्य मूलं बुद्ध्या सञ्चितं स्थापयित्वा तु रुद्रे रुद्रमेकत्वमाहुः।
....... ।।५।।
एषः ह देवः प्रदिशः नु सर्वाः पूर्वः ह जातः सः उ गर्भे अन्तः सः एव जातः सः जनिष्यमाणः प्रत्यङ्जनाः तिष्ठति सर्वतोमुखः ।एकः रुद्रः न द्वितीयाय तस्मै यः इमान् लोकान् ईशते ईशनीभिः। प्रत्यङ्जनाः तिष्ठति सञ्चुकोच अन्तकाले संसृज्य विश्वाः भुवनानि गोप्ता। यः योनिं योनिं अधितिष्ठति एकः येन इदं सर्वं विचरति सर्वम्। तं ईशानं वरदं देवं ईड्यं निचाय्य इमाम् शान्तिं अत्यन्तं एति । क्षमां हित्वा हेतुजालस्य मूलं बुद्ध्या सञ्चितं स्थापयित्वा तु रुद्रे रुद्रं-एकत्वं आहुः ।
--
This sacred text points out that how ending of the conflict is already there, in the very emergence of the conflict itself.
--
No comments:
Post a Comment