श्रीः
॥ अरुणाचलपञ्चरत्नम् ॥
करुणापूर्णसुधाब्धे
कबलितघनविश्वरूपकिरणावल्या ॥
अरुणाचलपरमात्मन्
अरुणो भव चित्तकञ्जसुविकासाय ॥1
त्वय्यरुणाचल सर्वं
भूत्वा स्थित्वा प्रलीनमेतच्चित्रम् ॥
हृद्यहमित्यात्मतया
नृत्यसि भोस्ते वदन्ति हृदयं नाम ॥2
अहमिति कुत आयाती ---
त्यन्विष्यान्तः प्रविष्टयाऽत्यमलधिया ॥
अवगम्य स्वं रूपं
शाम्यत्यरुणाचल त्वयि नदीवाब्धौ ॥3
त्यक्त्वाविषयं बाह्यं
रुद्धप्राणेन रुद्धमनसाऽन्तस्त्वाम् ॥
ध्यायन्पश्यति योगी
दीधितिमरुणाचल त्वयि महीयं ते ॥4
त्वय्यर्पितमनसा त्वां
पश्यन्सर्वं तवाकृतितया सततम् ॥
भजतेऽनन्यप्रीत्या
स जयत्यरुणाचल त्वयि सुखे मग्नः ॥5
--
॥ अरुणाचलपञ्चरत्नदर्पणम् ॥
श्रीभगवद्रमणमहर्षिप्रोक्तस्य अरुणाचलपञ्चरत्नस्य व्याख्या
[भारद्वाजेन कपालिना रचिता]
--
॥ श्रीरमणध्यानम् ॥
नीलारविन्दसुहृदा सदृशं प्रसादे
तुल्यं तथा महसि तोयजबान्धवेन ।
ब्राह्म्यां स्थितौ तु पितरं वटमूलवासं
संस्मारयन्तमचलं तमनुस्मरामः ॥
--
नामंनाममिदं धाम रमणं नाम भामताम् ।
पञ्चानां पद्यरत्नानां प्रशस्तिं प्रारभामहे ॥1
अरुणाचलकारुण्यवैभवादर्शविग्रहाम् ।
प्रणुमः संहतिं भासां भवान्धतमसद्रुहाम् ॥2
अद्भुतं तन्महत्किञ्चिदरुणाचलसंज्ञकम् ।
इति धीरस्य धीरस्य काचिदाबाल्यभासिनी ॥3
स्वरूपबोधसम्पन्नं धात्रीव जनकान्तिकम् ।
कुमारमेनमानैषीदरुणाचलसन्निधिं ॥4
सोऽयं महर्षिर्भगवानगासीदरुणाचलम् ।
आर्यागीतिभिरार्याणां वाण्या पञ्चभिरुज्ज्वलम् ॥5
अशिक्षितोऽपि गैर्वाणीच्छन्दोलङ्कृतिरीतिषु ।
दर्शनेनापरोक्षेण श्रवणादन्तरश्रुतेः ॥6
दुर्ग्रहाण्यपि तत्त्वानि सुग्रहाण्यादधन्मुनिः ।
रोचयन्कमनीयेन काव्यबन्धेन गीतवान् ॥7
दीप्तया पञ्चरत्नस्य प्रभया यः प्रकाश्यते ।
चिनुमस्तं समासेन रमणीयार्थसञ्चयम् ॥8
अरुणाचलसम्बुद्धिः पञ्चस्वपि च गीतिषु ।
परमात्मनि रक्तानां रतिं धत्ते रसोत्तराम् ॥9
हृदयस्य प्रसादः स्याद् ईश्वरस्य प्रसादतः ।
तदिहाद्येन पद्येन स्तूयते करुणार्णवः ॥10
नित्यः समाश्रयो विश्वस्यात्मा विश्वं तु नश्वरं ।
हृदयस्थः स हृदयं द्वितीये प्रतिपादितम् ॥11
अहमोऽन्वेषणादन्तर्दृढया शुद्धया धिया ।
स्वात्मबोधात्परा शान्तिस्तृतीये परिकीर्तिता ॥13
महिमा स महेशस्य चतुर्थे सम्प्रगीयते ।
एवं ज्ञानं च योगं च प्रसादाप्तिपुरस्सरम् ॥14
परनिःश्रेयसप्राप्तेरुपायं भगवानृषिः ।
सङ्कीर्त्य पझ्चमे प्राह परमां भक्तिरन्तिमे ॥15
समर्प्य चित्तं सर्वेशे विश्वस्मिन्पश्यतः परम् ।
एकान्तभक्तेः सिद्धस्य गीता सम्पदनुत्तमा ॥16
परमात्मगमध्वानमेवं चरितमात्मना ।
दर्शयन्देशिकेन्द्रोऽयमस्तौषीद्रमणः परम् ॥17
अनुग्रहसमारम्भामात्मसिद्धिकथां निजाम् ।
महर्षेर्द्योतयन्नेष स्तोत्रराजो विराजते ॥18
--
तदिदं भगवता रमणेन महर्षिणा गीर्वाणवाण्या आर्यागीतिभिः गीतं अरुणाचलपञ्चरत्नं नाम पद्यपञ्चकं व्याख्यास्यते । अरुणाचलपञ्चरत्नं > ’पञ्चानां रत्नानां पद्यश्रेष्ठानां समाहारः पञ्चरत्नं’ > अरुणाचलस्य पञ्चरत्नं, > प्रतिपादकत्वसम्बन्धे षष्ठी । अरुणाचलनिरूपितप्रतिपादकत्वसम्बन्धवत्पद्यरत्नपञ्चकमिति यावत् । तस्येदमाद्यं पद्यं भवति --
करुणापूर्णसुधाब्धे
कबलितघनविश्वरूप किरणावल्या ।
अरुणाचलपरमात्मन्
अरुणो भव चित्तकञ्जसुविकासाय ॥1
--
करुणेति > करुणया अनुकम्पया, पूर्णः > समृद्धः > करुणापूर्णः, सुधायाः > अमृतपदवाच्यायाः, अब्धिः > समुद्रः, > सुधाब्धिः, करुणापूर्णश्चासौ सुधाब्धिश्च > करुणापूर्ण सुधाब्धिः तस्य सम्बुद्धिः । किरणावल्या > मयूखमालया, कबलितघनविश्वरूप ! > कबलितघनं विश्वस्य रूपं येन तस्य सम्बोधनम् । अरुणः > सूर्यवाची ज्योतिष उपलक्षणम् । तथा चेदं तैजसलिङ्गक्षेत्रमाहुः स्थलपुराणविदः । तस्मादक्षरस्य ज्योतिषः परमात्मनः सम्बोधनं बोध्यम् । तच्च ज्योतिरक्षरं परमात्मपदव्यवहार्यं चित्तकमलविकासाय भासतामपि चतुर्थचरणेन प्रार्थयते । चित्तकञ्जसुविकासाय > चित्तं हृदयमेव कञ्जं, तस्य सुविकासाय > शोभनाय विकासाय, त्वं अरुणः > सूर्यो भव । पद्नायमानस्य हृदयस्य पद्मबान्धवायस्व भगवन्निति प्रार्थना ।
करुणा-पूर्ण इति > अत्र करुणा अनुग्रह-दृष्टिः भवति । अनुग्रहविधानसमृद्धिं लक्षयितुं करुणापूर्णत्वं उक्तं । सत्यां अपि अनुग्रहदृष्टौ सामग्री हि अपेक्ष्यते, यया सा निरूढव्यापारा कृतकृत्या स्यात् । सा च परमात्मनः स्वरूपं अमृतमेव सिद्धम् । येन कारुण्यं आश्रितेषु-अमोघं भवति । शोकमोहादेःमृत्योः अमृतं हि भेषजम् । अव्ययं > अनवधिकं इति द्योतयितुं अब्धिः इति उक्तम् । अनुग्रहदृष्टिसमृद्धं शोकमोहादि-मृत्युप्रध्वंसनं अव्ययं-अनवधिकं-अमृतं परमात्मनः स्वरूपं इति अर्थः ।
अरुणाचल-पदेन अक्षरं ज्योतिः अभिप्रेतं व्याख्यातम् । तस्य किरणावल्या कबलित-इति-अनेन, अलौकिकेन ज्योतिषा विश्वं व्याप्य स्थीयत इति बोध्यम् । ’घनं’ इन्द्रियग्राह्यं स्वविष्ठं तेजसा अभेदप्रायं अन्तस्तमःसान्द्रम्-इति द्योत्यते । इयत्-अनवधिक-आकाशविचरत्-बहुलगोल विश्वस्य रूपं ग्रासमात्रतया गृह्यते, अतः सहजशक्तिविशेषेण-अंशमात्रेण-इदं विश्वं सजीवं भुनक्ति इति बोधयितुं ’कबलनं’ प्रायुञ्जि ।
--
एकः परमात्मा अमृताम्भोधिः कारुण्यास्पदस्य शोकमोहादिमृत्युग्रस्तस्य लोकस्य, विश्वकबलनज्योतिर्मयः स्वयमप्रकाशस्य बहुलब्रह्माण्डस्य घनस्य विश्वरूपस्य, अचलः सर्वेषु चलत्सु सोऽयमिति प्रत्यभिज्ञानहेतुः अशेष-स्वप्रचारसाक्षी, अरुणः कमलायमानस्य हृदयस्य, एवं सुधाब्धिः ज्योतिर्मयः अचलः सूर्यः इति एकस्य परमात्मनो बहुधोल्लेखनं हृदयङ्गमं काव्यरसिकानाम् । अयं उल्लेखः नाम अलङ्कारः । किरणावलि-पदेन अलौकिकमयूखमालिनः आक्षेपः । चरमपादे च रूपकम् । तस्माद्रूपकोल्लेखयोः तिलतण्डुलन्यायेन मेलनात् संसृष्टिः ।
--
एवं कृपासमुद्रस्य परमात्मनः अनुग्रहं अभ्यर्थ्य तस्य साक्षात्कार्यतां सर्वकारणतां स्वरूपं नाम च उपपादयति द्वितीयेन --
त्वय्यरुणाचल सर्वं
भूत्वा स्थित्वा प्रलीनमेतच्चित्रम् ।
हृद्यहमित्यात्मतया
नृत्यसि भोस्ते बदन्ति हृदयं नाम ॥2
--
त्वयि इति > अरुणाचल ! भोः ज्योतिर्मय अक्षर भगवन् ! त्वयि > अधिष्ठाने आधारे वा, एतत् सर्वं परिदृश्यमानं इदं, चित्रं > आलेख्यं, भूत्वा > भवं प्राप्य, स्थित्वा > स्थितिं लब्ध्वा, प्रलीनं > विलयं गतं, च भवति, इति शेषः । सोऽसि त्वं, यतः एतस्य सर्वस्य जगद्रूपचित्रस्य जन्म-स्थिति-भङ्गं भवति । अनेन जगत्-अपेक्षया परमात्मस्वरूपं लक्षितं । सर्वस्य-अस्य चित्रत्व-उक्त्या अरुणाचलस्य चित्रपट-स्थानीयत्वं-आक्षिप्यते । जगतः वैलक्षण्यं द्योतयितुं जगत्-इति-अनुक्त्वा एतत्-सर्वं इति निर्दिश्य तत्र चित्रत्वं आरोपितम् । तेन चित्र-स्थानीयं जगत् चित्रपटस्थानीयं परमात्मानं > अरुणाचलं अन्तरा न गृह्यत इति गम्यते । जगत्-चित्रयोः साधर्म्यं तु कलानिर्मितिः इति वाच्यम् । चित्रकला-नियमानुसारेण आलेख्यं विरच्यते । सर्जनकलानियमानुसारेण जगन्निर्मीयते ।
--
यत्-वा, अचले त्वयि चलं सर्वं एतत् जन्म-अन्तवत् भवति इति एतत् चित्रं विचित्रं आश्चर्यम् । चल-अचलयोः तमः-प्रकाशयोः इव विरोधे अपि अघटितघटनापटीयसा शक्तिविशेषेण त्वत्तः अस्य सर्वस्य उदय-अस्तमय दर्शनात् । त्वत्-अन्यतः अस्य जगत्-चित्रस्य न अस्ति कारणसामग्री इति द्योतयितुं त्वयि-इति सप्तमी । यद्यपि ब्रह्माण्डकोटिचित्रस्याधारतया तव अवस्थानं भवति, तथाऽपि तस्य सर्वस्य निमित्तं त्वं-अन्तर्ज्वलसि इति उत्तरार्धेन आह ।
आत्मतया > आत्मनः भावः आत्मता तया, आत्मभावेन हृदि > हृदये > दहरे आकाशे अहंइति नृत्यसि । अस्मि इति अहं इति रूपावतारः > औणादिक-मदिक्-प्रत्यय-पर- कादसेः धातोः अस्मद्-शब्द-निष्पत्तेः । भोः भगवन्! हृदये अस्मि इति निरंतरं कुरुषे । अतो हेतोः तव नाम हृदयं वदन्ति विज्ञाः इति शेषः । अहं-इति निरंतरस्फुरणं एव नर्तनम् । सति एव अस्मि इति स्फुरति द्रष्टरि, अस्य सर्वस्य दर्शनं सम्भवति । तत्रैव जगत्-चित्र-दर्शन-अदर्शनयोः व्यवहारः सम्पद्यते । परमात्मनः नित्यत्वं, अनित्यता जगतः च अनेन प्रतिपादिते । बाह्यस्य जगदाकार-चित्रस्य-अधिष्ठानतया अखण्डस्वरूपस्य साक्षात्कारः तावत् न भवति, यावत् चित्रदर्शनं भवति । चित्रदर्शनात् निवृत्तायां दृष्टौ चित्रफलकस्थानीयं-अखण्डस्वरूपं केवला-अनन्तदृष्टिः एव अवशिष्यते । सा च अस्मिता-प्रत्यय-आस्पदं हृदयं भवति । तदेव-अहंपद-लक्ष्यार्थः अरुणाचलाख्यः परमात्मा, यस्मिन् उदयास्तमयौ लोकानां, यस्य-एव नर्तनात् अन्तर्वृत्तीनां बहिर्विषयाणां च व्यवहारः ।
अत्र श्लोके पूर्वार्धेन जगतः तत्कारणस्य अरुणाचलस्य च चित्रतदाधारात्मकः सम्बन्धः प्रतिपादितः । उत्तरार्धेन जीवस्य तदाश्रयतया अवस्थितस्य अरुणाचलस्य च स्वरूपात्मकः सम्बन्धः प्रतिपादितः । एवं जगदाधारतया च यस्य-अवस्थानं तस्य अरुणाचलस्य अहं-पद-परमार्थभूत-हृदय-शब्दवाच्यत्वं उक्तम् । अत एव उक्ता तस्य सहजनर्तनक्रिया । इमां एव मायां आहुः एके, यया सर्वभूतानि भ्रामयन् ईश्वरः हृदये तिष्ठति इति गीतासु (18/61) गीतम् ॥2
अथ अहं-अर्थभूतेन आत्मभावेन नृत्यन् अरुणाचलः अपरोक्षः चेत् स कथं साक्षात्कार्यः? अतः तत् साधनं आह तृतीयेन --
अहमिति कुत आयाती--
अन्विष्यान्तः प्रविष्टयाऽत्यमलधिया ।
अवगम्यं स्वं रूपं
शाम्यत्यरुणाचल त्वयि नदीवाब्धौ ॥3
--
अहं-इति > अहं इति धीः स्मृतिः वा, कुतः > कस्मात्, आयाति > आगच्छति ? उदेति यावत् । इति अन्तः प्रविष्टया > अति अमलया धिया, अन्विष्य > वोचित्य, स्व-रूपं अहमः परमार्थं > स्वरूपं, अवगम्य > बिद्ध्वा, भोः अरुणाचल-भगवन्! त्वयि शाम्यति > शान्तो भवति, अहङ्कारी जीव इति शेषः । अब्धौ > सागरे, नदी-इव-इति उपमानेन अहं-धियः परमात्मनि शान्तिः उक्ता । ’अहं ब्रह्माऽस्मि इत्यादिवृत्तिविचारनिरपेक्षं स्वरूपान्वेषणं साक्षात्साधनं निरालम्बं उपदिष्टम् । सर्वस्य अपि अहं अस्मि इति प्रत्ययप्रसिद्धेः अहं प्रत्ययात् परतरस्य असिद्धेः च अहं, अतो अन्वेषणेन स्वरूपागतिः भवति । अन्वेषणक्रिया तु अहंधिया एव साध्यते । तस्याः एव स्वरूपावगतिः प्रवृत्तेः । अहंधिया वृत्ति-विक्षिप्तायां स्वरूपजिज्ञासा एव न जायते । तस्यां स्वरूपात् अन्यत्र वृत्तिषु विषयेषु वा चलन्त्यां सत्त्वं अशुद्धं भवति । तीव्रजिज्ञासया प्रेरिता अहंधीः सर्वार्थतायां अविमूढा स्वच्छा स्वरूपं अन्वेष्टुं प्रवर्तते । अत एव ’अन्तः प्रविष्टया अति अमलधिया’ इति उक्तम् ॥
--
अत्र साधकः साधनं सिद्धिः इति त्रिके अपि अहं-पदार्थः एव बोध्यः । विशेषविवेकः तु एवम् । अहंपद वाच्यार्थः आत्माभासः तु अहङ्कृतिः, स्वरूप-जिज्ञासुः एव साधकः, स्वरूपान्वेषणपरा शुद्धसत्त्वा अहंधीः एव साधनम् । आत्मा हृदयनामा सत्ताप्रत्ययाश्रयः, अस्मि-इति हृदि स्फुरन् केवलः अपरोक्षानुभवः, अहंपद-लक्ष्यार्थः एव स्वतःसिद्धः भवति । एवं साधनस्य आदौ मध्ये अन्ते च निरन्तरं अहं एव अप्रतिहतार्थः भवति इति अवगन्तव्यम् । अथ सर्वासां वृत्तीनां अव्ययः अहमर्थः गतिः इति बोधनाय नदीनां सागरः गतिः इति औपम्यं उक्तम् । अम्भोधि सङ्गमात् अनन्तरं यथा नद्याः पृथक्सत्ता व्यापारो वा नास्ति, तथा अहमि स्वरूपं प्राप्ते शान्तिः अखण्डा भवति पुनरावृत्तिः न विद्यते । ’साधकोऽहं सिद्धोऽहं’ इति अहंद्वयं न इति बोधयितुं ’सोऽहमस्मि’ इति द्रढयितुं ’स्वं रूपं-अवगम्य शाम्यति’ इति उक्तम् ॥
--
इदं च स्वात्मान्वेषणरूपं साक्षात्साधनं अत्यन्तपक्वानां एकेषां एव सुकरम् । येषां अन्तःकरणवृत्तयः बाह्येन विषयेण अबाधिताः अन्तर्मुखतया अवतिष्ठन्ते, तेषां अन्तःप्रविष्टया शुद्धया धिया स्वरूपान्वेषणं उपदिष्टं । येषां पुनः, बाह्ये सक्तं चित्तं तेषां साधनं उपदिशति चतुर्थेन पद्यरत्नेन --
त्यक्त्त्वा विषयं बाह्यं
रुद्धप्राणेन रुद्धमनसाऽन्तस्वाम् ।
ध्यायन्पश्यति योगी
दीधितिमरुणाचल त्वयि महीयं ते ॥4
--
त्यक्त्वा-इति > भोः अरुणाचल परमात्मन्! योगी प्राणरोधेन चित्तरोधे प्रवृत्तः बाह्यं विषयं रूपादिं जाग्रत्प्रज्ञभूमि, त्यक्त्वा > विहाय, रुद्धप्राणेन > रुद्धेन संयतेन प्राणेन वायुना कुम्भकेन इति यावत्, रुद्धमनसा > रुद्धेन निगृहीतेन मनसा, मनोनिग्रहेण इति यावत्, त्वां परमं अन्तःहृदये ध्यायन् > प्रणिदधानः, त्वयि अधिष्ठाने दीधितिं किरणं ज्योतिः इति अर्थः, पश्यति > साक्षात्कुरुते । ’इयं ते मही’ इयं योगिजनान्तर्ध्यानगम्यज्योतिःस्वरूपा ते > तव मही > चित्प्रकाश-भूमिः इति अर्थः । यस्यां चित्प्रकाश-भूमिकायां मनःप्राणसंयमवान् योगी अन्तरात्मध्यानेन स्वरूपं ज्योतिः पश्यति, सा तव महत्ता इति भावः । बाह्यविषयकलुषितस्य मनसः अन्तर्मुखता बाह्यविषयसङ्गत्यागेन साधनीया । प्राणशुद्धिः क्वचित्-विषयसङ्गप्रध्वंसानाय प्रभवति । अत एव रुद्धप्राणेन इति उक्तम् । अपक्वपुरुषस्य प्राण भोगेच्छा-परतन्त्रः भवति, तं अनुधावति मनः च । प्राणरोधेन विषयात्-निवृत्तिः सुकरा । मनः च तेन वशयितुं शक्यं इति प्राणशुद्धिः मनःशुद्धिः च प्राणायामादि-योगाङ्गतया अभ्यस्येते योगिना । विषयसङ्गः एव अशुद्धिः । तस्मात् निवृत्तिः इष्यते । तत्-उपायः मनःप्राणरोध-साधनविशेषबलात् सम्पाद्यत इति उक्तम् । केवलमनःप्राणरोधात् तु न वस्तुसिद्धिः । तस्मात् अन्तर्ध्यानं उक्तम् । यदि अन्तर्मुखत्वं प्राक्-एव परिपाकवशात्-विषयाकृष्टेः बलीयः भवेत्, मनोरोधः यावत्-अपेक्षं-अयत्नतः सिद्धस्यात् । अन्तर्ध्यान-उपकारित्वं मनःप्राणयोः अवगन्तव्यम् । न तु तावता एव स्वरूपावगतिः । ताभ्यां अन्तर्गाढाभ्यां लयाख्यः समाधिविशेषः एव सिध्येत्, न तु आत्मबोधः । स च अहमः परमार्थसाक्षात्कारणेन भवति, न पुनः अहमः विस्मारकेण लययोगादिना । तस्माद्यत्-अहं इति स्मृतेः भानस्थानं गमयति, तत् सर्वं साधनाङ्गतया स्वीकार्यं इति आशयेन ज्ञान-अध्वनि भक्तिमता योगिना प्राणसंयम-मनोनिग्रहोपायः अभिमन्यते ॥
दीधितिं > पश्यति अनेन शुद्धान्तःकरणसचिवेन अन्तर्ध्यानेन युक्तस्य हृदये ज्योतिर्दर्शनं भवति इति उक्तम् । इदं च ज्योतिः अलौकिकं परमात्मनि अरुणाचले स्वरूपे हृदये नित्यं अस्मि-इति स्फुरतः अहं-अर्थस्य प्रकाशकं बोध्यम् । न इह दृग्दृश्यभेद-अभ्युपगमात् द्वैतापत्तिः शङ्क्या । अन्तर्ध्यानगम्यस्य हृदयज्योतिषः आत्मनः अनन्यत्वात् । अहंवृत्तेः अन्या एव हि अहं स्फूर्तिः । नर्मदे हरस्तोत्रम्!
स्वरूपं ध्यायन्ती अहंवृत्तिः अहंस्फूर्तौ पर्यवस्यति इति ग्राह्यम् । अपि च ज्योतिर्दर्शनं आत्मदर्शनात् न अतिरिच्यते । दर्शनं च साक्षात्कारः । प्राक्-वस्तुसिद्धेः ध्यायतः पुंसः ज्योतिर्दर्शनं हृदये परमात्मनि एव सम्पद्यते । ध्यातृ-ध्येयात्मकद्वैतस्य हृदि उपसंहारः इति सिद्धान्तं द्रढयति ’त्वयि पश्यति’ इति प्रयोगः । ’इयं ते मही’ इति उक्त्या, एवं योगिध्यानगम्यज्योतिर्भूमिः अखण्डचित्-स्वरूपस्य अरुणाचलस्य इति प्रतिपादितम् ॥4
अथ चैकान्तभक्तेः आत्मसाक्षात्कारसम्पन्नस्य पुरुषस्य विश्वं प्रति स्वरूपात् अनन्यत्वेन सिद्धे, तस्यान्तः-बहिः वा अखण्डस्वरूपं प्रत्यक्षं भवति इति तस्य सिद्धपुरुषस्य स्थितिं महिमानं च पञ्चमेन पद्यरत्नेन आह ---
--
त्वय्यर्पितमनसा त्वां
पश्यन्सर्वं तवाकृतितया सततम् ।
भजतेऽनन्यप्रीत्या
स जयत्यरुणाच्ल त्वयि सुखे मग्नः ॥5
--
त्वयि-इति > भोः अरुणाचल! त्वयि परमात्मनि अर्पितमनसा > अर्पितेन मनसा अन्तःकरणेन सर्वं विश्वं तवाकृतितया त्वत्-स्वरूपभावेन सततं देशतः कालतः च निरन्तरं पश्यन् यः इत्याधार्यं चतुर्थचरणे तत्-शब्दप्रयोगात् यत्-तदोः-नित्यसम्बन्धात् च, यः पुरुषः त्वां अनन्यप्रीत्या एकान्तभक्त्या भजते सेवते आश्रयतः इति अर्थः, सः तथाविधः सुखे > आनन्दस्वरूपे त्वयि मग्नः > शुद्ध्यर्थकान् मज्जतेः क्तः शुद्धः गाढं आप्लुतः इत्यर्थः जयति > उत्कर्षेण वर्तते । सोऽयं सिद्धः पुरुषः यः जीवन् एव मुक्तः जयति, यस्मिन् मानुषं जन्म परमं साफल्यं लभते, यस्य मनः सम्पूर्णं परमात्मनि समर्पितं तदनन्यतया विलसति, यस्य चक्षुः परमात्मानं अखण्डस्वरूपं सर्वत्र पश्यति, यश्च बहिरन्तर्वा अपरोक्षं आत्मारामः भजन् अखण्डानन्दस्वरूपे निमग्नः विजयते ॥5
पञ्चवक्त्रभाक्पञ्चरत्नकृतद्भूमिमण्डलीमङ्गलायताम् ।
रमणदेशिको यमवतां विभुर्विजयतेतराम विजयतेतराम ॥*
--
को ग्रन्थोऽयम् ’अरुणाचलपञ्चरत्नम्’ ?
भाष्यकारस्य आख्या
--
आर्षी रमणवागेषा श्रुतिर्वेषान्तरस्थिता ।
स्तुतिर्वेदशिरोभूषा मुमुक्षूणां मुदावहा ॥1
नानारुचीनां चित्तानां रोचनार्था शिवङ्करी ।
द्वैताद्वैतादिवादानामुपसंहारदर्शिनी ॥2
ज्ञानेन भक्त्या योगेन येन केनापि वाऽध्वना ।
ईप्सतां परमं धाम सामरस्यविधायिनी ॥3
भक्तिर्भक्तश्चभगवानिति यस्य दृढा मतिः ।
तस्येयं कल्पलतिका भजनैकार्थसाधिका ॥4
भरन्यासप्रपत्तिभ्यां भजने चेन्मतं तव ।
सखे रहस्यं तस्येह दृश्यतामुत सेव्यताम् ॥5
पतिः पशुः पाश इति त्रेधा तव मतिर्यदि ।
स्वरूपमिह निर्दिष्टं बुद्ध्वा पाशाद्विमोक्ष्यसे ॥6
हरो हरिरिति द्वेधा भज्यतां वा परात्परः ।
प्रत्ययावेव भिद्येते प्रकृतिर्न कदाचन ॥7
परवस्तुनि सन्देहो भ्रातस्त्वां मैव बाधताम् ।
सन्दिहानं विचिन्वानः परस्मिँल्लीयते ध्रुवम् ॥8
लयाद्विनष्टिशङ्का चेत् स्वरूपे परमात्मनि ।
बुध्यस्व मातरं तस्या अहम्मतिपिशाचिकाम् ॥9
अहमोऽन्वेषणादेषा भ्रान्तिः सर्वा पलायते ।
स्वात्मनिष्ठो यतो जीवन्बन्धान्मुक्तो विजेष्यते ॥10
अशक्तिश्चेत्स्वमन्वेष्टु--माश्रयस्वात्मवित्तमम् ।
प्रसरन्ती प्रभा यस्य ज्वलयत्यभितो गतान् ॥11
निश्रेयसपरा सैषा भाषा भगवतो मुनेः ।
जयत्वासूर्यमाचन्द्रं पञ्चरत्नस्तवात्मिका ॥12
लघ्विदं पञ्चरत्नस्य निर्मितं मितविस्तरम् ।
गुरुप्रशस्तिसम्पुष्टं व्याख्यानं हृदयङ्गमम् ॥13
ऋज्वर्थदर्शनं यत्र न गतिः कुटिलाध्वगा ।
भानुबिम्बमिव स्वच्छे दर्पणे प्रतिभासते ॥14
अभीष्टं गुरुपादानामिदमासीन्न पूरितम् ।
तत्प्रभावानुबिम्बेन तच्छिषेणाद्य तत्कृतम् ॥15
रमणाङ्घ्रिसरोजात-रसज्ञेन कपालिना ।
काव्यकण्ठमुनेरन्तेवासिना वाग्विलासिना ॥16
कृता रमणपादाब्जकिङ्करस्यापि किङ्कृता ।
सतीव्याख्या सतां प्रीत्यै रमणस्येव कल्पताम् ॥17
सम्प्रसादमाधुरीधुरीणभव्यभानुभिः
पुष्णतोर्विभास्तमांसि मुष्णतोर्मदन्तरे ॥
मौनसारसम्पदो र्महषिपादपद्मयोः
पञ्चरत्नदर्पणं सदर्पणाय कल्पताम् ॥18॥
इति श्रीमहर्षिरमणभगवत्पादानुध्यात-
श्रीभग्वद्वासिष्ठगणपतिमुनेरन्तेवासिनः भारद्वाजस्य-
विश्वेश्वर्सूनोः कपालिनः कृतिः पञ्चरत्नदर्पणाख्या पञ्चरत्नव्याख्या समाप्ता ।
--
ॐ नमो भगवते श्रीरमणाय ॥
--
No comments:
Post a Comment