Wednesday, 28 July 2021

Statics and Dynamics.

PARTICLE STATICS AND PARTICLE DYNAMICS

---------------------------------------©-----------------------------------

This is about :

Attention and Meditation.

Attention and Meditation are with reference to Mind.

The Mind is found in two modes. 

The first is in the static mode. 

That is precisely what is Attention. 

Another is in the dynamic mode. 

That is activity. 

Mind had these 2 attributes.

Though there is also a third state that is when Mind is neither attentive, nor engaged in any of the activity.

Attention is therefore the consciousness of any object that is not the Mind but the matter.

Action / Activity is the state of the Mind when there is the involvement of the Mind completely identified with the object of the activity.

That is how the Mind of an ordinary / average man finds comfortable when there is either an activity or complete absence of the same. 

The complete absence of activity implies you have no object for the attention to be focused on. In this state there is anxiety or pleasure or pain. Or you are just lost.

Being lost means you are not dead but asleep only. This may be a natural sleep or a kind of sleep induced because of some drug. One can attain this state through a kind of deliberate effort on the part of the Mind. 

Thus you can 'practice' kind of something that is called 'meditation'. This is how one can often cheate one-self.

The Mind has become habitual of this kind of activity that takes it to a state of complete absorption,  where there is no outward objective world any more. Or, at least, this seems so for the time being. 

What time? How long? 

One never knows.

In 'not knowing', 'time' just disappeares.

So what is this 'time', that seems to exist when one is 'doing' nothing?

Has this 'time' real existence -like the physical objects, that one experiences during this very 'time'!

This means 'time' is illusion.

The same is true of what we call 'space'. 

Space, and Time, are therefore the inferentials only. As they assume existence in Mind only. Trying to find out their 'nature' is meaningless.

Time and Space are the imaginary intangible objects only, and could never be grasped through senses,  while the 'matter' and 'energy' are the objects one can grasp through senses.

What is consciousness? 

As the word itself suggests, it is there when there is 'attention'. Whatever exists is perceived in 'consciousness' is said to exist because of the 'attention' only. 

There is no way of saying what-so-ever about the objects, that are not there in the field of 'attention'.

So 'attention' is verily the 'consciousness' and conversely, the 'consciousness' is verily the 'attention' itself.

Meditation or the 'attention' itself is the ground where the thought germinates and takes roots. Thoughts constitute the 'memory'.

The 'memory' keeps stored and a part is always lost while a new one is kept added to it.

Next comes the question :

What is the sense or essence of 'being'? 

Isn't it basically a thought only? 

Is this thought a verbal one, or kind of a feeling? 

This means, there is a cognisance and also the  recognition of the same where one knows the existence beyond 'me' as well. 

This Reality could never be 'objectified'. 

Still, one can understand through insight.

It couldn't be denied nor refuted.

Just because you are this very Reality.

***

The last question --

Could science ever explain what is :

CONSCIOUSNESS? 

***






Friday, 23 July 2021

आचार्य क्षेमराजकृत प्रयत्यभिज्ञाहृदय

श्रीमान् क्षेमराजाचार्यकृत

प्रत्यभिज्ञाहृदयः

--

श्रीमतो राजानकक्षेमराजाचार्यस्य ग्रन्थोऽयम्,

मया अस्मिन् मम 'गूगल' इति संविद्युत् संचारव्यूहे,

(electronic network)  अवलोक (blog) स्थले

प्रकाशितः ।।

**********

Note Please! 

I started posting this text in this blog, 

on 12 July 2021. Completed today. 

The whole text has been posted in parts, beginning with this date 12-07-2021.

***


तदा प्रकाशानन्दसार ...

प्रत्यभिज्ञाहृदये 

सूत्र 20

***

इदानीम् अस्य समाधिलाभस्य फलमाह --

तदा प्रकाशानन्दसारमहामन्त्रवीर्यात्मकपूर्णाहन्तावेशात्सदा-सर्वसर्ग-संहारकारि-निजसंविद्देवताचक्रेश्वरताप्राप्तिर्भवतीति शिवम् ।।२०।।

***

नित्योदिते समाधौ लब्धे सति, 

'प्रकाशानन्दसारा' --चिदाह्लादैकघना 'महती मन्त्रवीर्यात्मिका' -- सर्वमन्त्रजीवितभूता 'पूर्णा' पराभट्टारिकारूपा या इयम् 'अहन्ता' --अकृत्रिमः स्वात्मचमत्कारः, तत्र 'आवेशात्' 'सदा कालाग्न्यादेः' चरमकलापर्यन्तस्य विश्वस्य यौ 'सर्गसंहारौ' विचित्रौ सृष्टि-प्रलयौ 'तत्कारि' यत् 'निजं संविद्देवताचक्रं' 'तदैश्वर्यस्य' 'प्राप्तिः' --- आसादनं  'भवति',  प्राकरणिकस्य परमयोगिनः इत्यर्थः, इति'एतत् सर्वं संवेद्यते, तस्य संवेदनमेव स्वरूपं, तस्यापि अन्तर्मुखविमर्शयाः प्रमातारः तत्वम्, तेषामपि विगलित-देहाद्युपाधि-संकोचाभिमाना अशेषशरीरा सदाशिवेश्वरतैव सारम्, अस्या अपि प्रकाशैकसद्भावापादित-शेषविश्वचमत्कारमयः श्रीमान् महेश्वर एव परमार्थः, --नहि पारमार्थिकप्रकाशावेशं विना कस्यापि प्रकाशमानता घटते ---स च परमेश्वरः स्वातन्त्र्य-सारत्वात् आदि-क्षान्तामायीय-शब्दराशि-परामर्शमयत्वेनैव एतत्स्वीकृत-समस्त- वाच्यवाचकमयाशेष-जगदानन्द-सद्भावापादनात् परं परिपूर्णत्वात् सर्वाकाङ्क्षाशून्यतया आनन्द-प्रसरनिर्भरः, अत एव अनुत्तराकुलस्वरूपात् अकारात् आरभ्य शक्तिस्फाररूप-ह-कलापर्यन्तं यत् विश्वं प्रसृतं, क्ष-कारस्य-प्रसर-शमन-रूपत्वात्, तत् अकार-हकाराभ्यामेव संपुटीकारयुक्त्या  प्रत्याहारन्यायेन अन्तः स्वीकृतं सत् अविभागवेदनात्मकबिन्दुरूपतया स्फुरितम् अनुत्तर एव विश्राम्यति, --इति शब्दराशिस्वरूप एव अयम् अकृतको विमर्शः। यथोक्तं 

'प्रकाशस्यात्मविश्रान्तिरहं-भावो हि कीर्तितः ।

उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः ।।

स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च ।'

इति । एषैव च अहन्ता सर्वमन्त्राणाम् उदयविश्रान्तिस्थानत्वात् एतद्बलेनैव तदर्थक्रियाकारित्वात् महती वीर्यभूमिः । तदुक्तं

'तदाक्रम्य बलं मन्त्रा...'

इत्यादि

'... ... ... ... ... ... ... ... ... त एते शिवधर्मिणः ।।'

इत्यन्तम् श्रीस्पन्दे । शिवसूत्रेषु अपि 

'महाह्रदानुसंधानान्मन्त्रवीर्यानुभवः, (१ उ० २२ सू०)

इति । तदत्र महामन्त्रवीर्यात्मिकायां पूर्णाहन्तायाम् 'आवेशो' -- देहप्राणादिनिमज्जनात् तत्पदावाप्त्यवष्टम्भेन देहादीनामपितद्रसाप्लावनेन तन्मयीकरणम् । तथा हि -- देहसुखनीलादिवत्यत्किंचित् प्रथते, अध्यवसीयते, स्मर्यते, संकल्प्यते वा, तत्र सर्वत्रैव भगवती चितिशक्तिमयी प्रथा भित्तिभूतैव स्फुरति, --तदस्फुरणे कस्यापि अस्फुरणात् इति उक्तत्वात् । केवलं तथा स्फुरन्त्यपि सा तन्मायाशक्त्या अवभासितदेहनीलाद्युपरागदत्ताभिमानवशात् भिन्न-भिन्नस्वभावा इव भान्ति ज्ञानसंकल्पाध्यवसाया मायाप्रमातृभिः अभिमन्यते,  वस्तुतस्तु एकैव असौ चितिशक्तिः । यथोक्तम् 

'या चोखा प्रतिभा तत्तत्पदार्थक्रमरूपिता ।

अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ।।'

इति । तथा 

'मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा ।

कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः  ।।'

इति  । एवम् एषा सर्वदशासु एकैव चितिशक्तिः विजृम्भमाणा यदि तदनुप्रवेश-तदवष्टम्भयुक्त्या समासाद्यते, तत् तदावेशात् पूर्वोक्तयुक्त्या करणोन्मीलननिमीलनक्रमेण सर्वस्य सर्वमयत्वात् तत्तत्संहारादौ अपि 'सदासर्वससर्गसंहारकारि' यत् 'सहजसंवित्तिदेवताचक्रम्' अमायीयान्तर्बहिष्करणमरीचिपुञ्जः, तत्र 'ईश्वरता' --साम्राज्यं परभैरवात्मता, तत्प्राप्तिः भवति परमयोगिनः । यथोक्तम् 

'यदा त्वैकत्र संरूढस्तदा तस्य लयोद्भवौ ।

नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत्  ।।'

इति । अत्र एकत्र इति 

'एकत्रारोपयते सर्वम् ... ... ... ... ... ... ... ।'

इति । चित्सामान्यस्पन्दभूः उन्मेषात्मा व्याख्यातव्या । तस्य इति अनेन 

'पुर्यष्टकेन संरुद्ध...  ... ... ... ... ... ... ... ।'

इति उपक्रान्तं पुर्यष्टकम् एव पराम्रष्टव्यम्, न तु यथा विवरणकृतः 'एकत्र सूक्ष्मे स्थूल शरीरे वा' इति व्याकृतवन्तः । स्तुतं च मया 

'स्वतन्त्रश्चितिचक्राणां चक्रवर्ती महेश्वर ।

संवित्तिं देवताचक्रजुष्टः कोऽपि जयत्यसौ ।।'

इति । इतिशब्द उपसंहारे, यत् एतावत् उक्तप्रकरणशरीरं तत् सर्वं 'शिवम्-शिवप्राप्तिहेतुत्वात् शिवात् प्रसृतत्वात् शिवस्वरूपाभिन्नत्वात् च शिवमयमेव इति शिवम् ।।

देहप्राणसुखादिभिः प्रतिकलं संरुध्यमानो जनः पूर्णानन्दघनामिमां न चिनुते माहेश्वरीं स्वां चितिम् ।

मध्ये बोधसुधाब्धिविश्वमभितस्तत्फेनपिण्डोपमम् 

यः पश्येदुपदेशतस्तु कथितः साक्षात्स एकः शिवः ।।

येषां वृत्तः शांकरशक्तिपातो

येऽनभ्यासात्तीक्ष्णयुक्तिष्वयोग्याः ।

शक्ता ज्ञातुं नेश्वरप्रत्यभिज्ञा-मुक्तस्तेषामेष तत्त्वोपदेशः ।।

।। समाप्तमिदं प्रत्यभिज्ञाहृदयम् ।।

***

कृतिस्तत्रभवान्महामाहेश्वराचार्यवर्य श्रीमदभिनवगुप्तपादपद्मोपजीविनः श्रीमतो राजानकक्षेमराजाचार्यस्य ।।

शुभमस्तु।। 

--

( कृतिस्तत्रभवन्  कृतिस्तत्रभवान् वा ?)

।। ॐ शिवार्पणमस्तु ।। 

***


 



Thursday, 22 July 2021

समाधिसंस्कारवति व्युत्थाने

प्रत्यभिज्ञाहृदये 

***

सूत्र 19

***

मध्यविकासाच्चिदानन्दलाभः, स एव च परमयोगिनः समावेशसमापत्त्यादिपर्यायः समाधिः, तस्य नित्योदितत्वे युक्तिमाह --

समाधिसंस्कारवति व्युत्थाने भूयो भूयश्चिदैक्यामर्शान्नित्योदित-समाधिलाभः ।।१९।।

आसादितसमावेशो योगिवरो व्युत्थाने अपि समाधिरससंस्कारेण क्षीव इव सानन्दं घूर्णमानो,  भावराशिं शरदभ्रलवम् इव चिद्गगन एव लीयमानं पश्यन्, भूयो भूयः अन्तर्मुखताम् एव समवलम्बमानो, निमीलनसमाधिक्रमेण चिदैक्यमेव विमृशन् व्युत्थानाभिमतावसरे अपि समाध्येकरस एव भवति । यथोक्तं क्रमसूत्रेषु --

क्रममुद्रया अन्तःस्वरूपया बहिर्मुखः समाविष्टो भवति साधकः । तत्रादौ बाह्यात् अन्तःप्रवेशः, आभ्यन्तरात् बाह्यस्वरूपे प्रवेशः आवेशवशात् जायते, इति सबाह्याभ्यान्तरोऽयं 'मुद्राक्रमः', 

इति । अत्रायमर्थः सृष्टि-स्थिति-संहृति-संविच्चक्रात्मकं 'क्रमं' मुद्रयति, स्वाधिष्ठितम् आत्मसात् करोति येयं तुरीया चितिशक्तिः, तया 'क्रममुद्रया', 'अन्तरिति' ---पूर्णाहन्तास्वरूपया, 'बहिर्मुख' --इति, विषयेषु व्याप्पृतः अपि, 'समाविष्टः'--  साक्षात्कृतपरशक्तिस्फारः 'साधकः' --परमयोगी भवति । तत्र च 'बाह्यात्' ग्रस्यमानात् विषयग्रामात् 'अन्तः' परस्यां चितिभूमौ ग्रसनक्रमेणैव 'प्रवेशः' --समावेशो भवति । आभ्यन्तरात् चितिशक्तिस्वरूपात् च साक्षात्कृतात् 'आवेशवशात्' ---समावेशसामर्थ्यात् एव 'बाह्यस्वरूपे' ---इदन्तानिर्भासे विषयग्रामे, वमनयुक्त्या 'प्रवेशः' ---चिद्रसाश्यानताप्रथनात्मा समावेशो जायते, इति 'सबाह्यान्तरः अयं' नित्योदितसमावेशात्मा, 'मुदो' ---हर्षस्य वितरणात् परमानन्दस्वरूपत्वात् पाशद्रावणात् विश्वस्य अन्तः तुरीयसत्तायां मुद्रणात् च मुद्रात्मा, क्रमः अपि सृष्ट्यादि-क्रमाभासकत्वात् च 'क्रम' इति अभिधीयते इति।।१९।।

***

इदानीम् अस्य समाधिलाभस्य फलमाह --

तदा प्रकाशानन्दसार-महामन्त्रवीर्यात्मक-पूर्णाहन्तावेशात्सदा-सर्वसर्ग-संहारकारि-निजसंविद्देवताचक्रेश्वरता-प्राप्तिर्भवतीति शिवम्  ।।२०।।

***

(क्रमशः, follows in the next post.)

--





विकल्प-क्षयशक्तिसंकोच...

प्रत्यभिज्ञाहृदये 

***

सूत्र 18

--

मध्यविकासे युक्तिमाह 

विकल्प-क्षयशक्तिसंकोचविकासवाहच्छेदाद्यन्तकोटिनिभालनादय इहोपायाः ।।१८।।

'इह' मध्यशक्तिविकासे 'विकल्पक्षयादय उपायाः' । प्रागुपदिष्टपञ्चविधकृत्यकारित्वाद्यनुसारेण सर्वमध्यभूतायाः संविदो विकासो जायते -- इति अभिप्रायम् । उपायान्तरम् अपि तु उच्यते, -- प्राणायाममुद्राबन्धादिसमस्तयन्त्रणातंत्रत्रोटनेन सुखोपायमेव, हृदये निहितचित्तः, उक्तयुक्त्या स्वस्थितिप्रतिबन्धकं विकल्पम् अकिंचिच्चिन्तकत्वेन प्रशमयन् अविकल्पपरामर्शेन देहाद्यकलुषस्वचित्प्रमातृतानिभालनप्रवणः, अचिरादेव उन्मिषद्विकासां तुर्य-तुर्यातीतसमावेशदशाम् आसादयति । तथोक्तम् 

'विकल्पहानेनैकाग्र्यात्क्रमेणेश्वरतापदम् ।'

इति श्रीप्रत्यभिज्ञायाम् । श्रीस्पन्देऽपि 

'यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ।।'

इति । श्रीज्ञानगर्भेऽपि 

'विहाय सकलाः क्रियाः जननिं मानसीः सर्वतो

विमुक्तकरणक्रियानुसृतिपारतन्त्र्योज्ज्वलम् ।

स्थितैस्त्वदनुभावतः सपदि वेद्यते सा परा 

दशानृभिन्द्रितासमसुखामृतस्यनन्दिनी ।।'

इति । अयं च उपायो मूर्धन्यत्वात् प्रत्यभिज्ञायां प्रतिपादितत्वात् आदौ उक्तः । शक्तिसंकोचादयस्तु यद्यपि प्रत्यभिज्ञायां न प्रतिपादिताः, तथापि आम्नायिकत्वात् अस्माभिः प्रसङ्गात् प्रदर्श्यन्ते, बहुषु हि प्रदर्शितेषु कश्चित् केनचित् प्रवेक्ष्यति इति ।

'शक्तेः संकोच' --इन्द्रियद्वारेण प्रसरन्त्या एव आकुञ्चनक्रमेण उन्मुखीकरणम् । यथोक्तम् आथर्विणिकोपनिषत्सु कठवल्यां चतुर्थवल्ली प्रथममन्त्रे 

'पराञ्चि खानि व्यतृणत्स्वयंभू-

स्तस्मात्पराङ् पश्यति नान्तरात्मन् ।

कश्चिद्धीरः प्रत्यगात्मानमैक्षद् 

आवृत्तचक्षुरमृतत्वमश्नन्  ।।'

इति  । प्रसृताया अपि वा कूर्माङ्गसंकोचवत् त्राससमये हृत्प्रवेशवच्च सर्वतो निवर्तनम् । यथोक्तम् 

'तदपोद्धृते नित्योदितस्थितिः ।'

इति ।

'शक्तेर्विकासः' अन्तर्निगूढाया अक्रममेव सकलकरणचक्रविस्फारणेन 

'अन्तर्लक्ष्यो बहिर्दृष्टिर्निमेषोन्मेषवर्जितः ।'

इति । भैरवीमुद्रानुप्रवेशयुक्त्या बहिः प्रसरणम्  । 

यथोक्तं कक्ष्यास्तोत्रे 

'सर्वाः शक्तिश्चेतसा दर्शनाद्याः 

स्वे स्वे वेद्ये यौगपद्येन विष्वक् ।

क्षिप्त्वा मध्ये हाटकस्तम्भभूत-

स्तिष्ठन्विश्वाधार एकोऽवभासि ।।'

इति । श्रीभट्टकल्लेनापि उत्तमा 

'रूपादिषु परिणामात् तत्सिद्धिः ।'

इति शक्तेश्चसंकोचविकासौ,  नासापुटस्पन्दक्रमोपन्मिषत्सूक्ष्मप्राणशक्त्या भ्रूभेदनेन 'क्रमासादितोर्ध्वकुण्डलिनीपदे प्रसरविश्रान्तिदशापरिशीलनम्, अधःकुण्डलिन्यां च  षष्ठवक्त्ररूपायां प्रगुणीकृत्यशक्तिं, तन्मूल-तदग्र-तन्मध्यभूमिस्पर्शावेशः । यथोक्तं विज्ञानभट्टारके 

'वह्नेर्विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत्  ।

केवलं वायुपूर्णं वा स्मरानन्देन युज्यते ।।'

इति । अत्र वह्निः अनुप्रवेशक्रमेण संकोचभूः, विषस्थानम् प्रसरयुक्त्या विकासपदम्,  'विष्लृव्याप्तौ' इति अर्थानुगमात् ।

'वाहयोः' -- वामदक्षिणगतयोः 'छेदो' --हृदयविश्रान्तिपुरःसरम् । यथोक्तं  ज्ञानगर्भे 

'अनच्क-ककृतायतिप्रसृतपार्श्वनाडीद्वय-

च्छिदो विधृतचेतसो हृदयपङ्कजस्योदरे ।

उदेति तव दारितान्धतमसः स विद्याङ्कुरो

य एष परमेशतां जनयितुं पशोरप्यलम् ।।'

इति ।

'आदिकोटिः' हृदयाय,  'अन्तकोटिः' द्वादशान्तः, तयोः प्राणोल्लासविश्रान्त्यवसरे 'निभालनं' --चित्तनिवेशनेन परिशीलनम् । यथोक्तं विज्ञानभैरवे 

'हृद्याकाशे निलीनाक्षः पद्मसंपुटमध्यगः। 

अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात् ।।'

इति । तथा 

'यथा तथा यत्र तत्र द्वादशान्ते मनःक्षिपेत् ।

प्रतिक्षणं क्षीणवृत्तेर्वैलक्षण्यं दिनैर्भवेत् ।।'

इति । आदिपदात् उन्मेषदशानिवेशनम् 

'उन्मेष स तु विज्ञेयः स्वयं तमुपलक्षयेत् ।।'

इति स्पन्दे । तथा रमणीयविषयचर्वणादयश्च संगृहीताः यथोक्तं श्रीविज्ञानभैरवे एव 

'जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् ।

भावयेद्भरितावस्थां महानन्दमयो भवेत् ।।

गीतादिविषयास्वादासमसौख्यैकतात्मनः ।

योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता ।।

यत्र तत्र मनस्तुष्टिर्मनस्तत्रैव धारयेत् ।

तत्र तत्र परानन्दस्वरूपं संप्रकाशते ।।'

इति । 

एवमन्यदपि आनन्दपूर्णस्वात्मभावनादिकम् अनुमन्तव्यम् । इत्येवमादयः अत्र मध्यविकासे उपायाः ।।१८।।

***

(क्रमशः  follows the next post.)

***



 

Wednesday, 21 July 2021

मध्यविकासाच्चिदानन्दलाभः

प्रत्यभिज्ञाहृदये 

***

सूत्र 17

अथ कथं चिदानन्दलाभो भवति?  इत्याह 

मध्यविकासाच्चिदानन्दलाभः ।।१७।।

सर्वान्तरत्वेन वर्तमानत्वात् तद्भित्तिलग्नतां विना न कस्यचित् अपि स्वरूपानुपपत्तेः संविदेव भगवती 'मध्यम' । सा तु मायादशायां तथाभूतापि स्वरूपं गूहयित्वा 

'प्राक्संवित्प्राणे परिणता'

इति नीत्या प्राणशक्तिभूमिं स्वीकृत्य, अवरोहक्रमेण बुद्धिदेहादिभुवम् अधिशयाना, नाडीसहस्रसरणिम् अनुसृता । तत्रापि च पलाशपर्णमध्यशाखान्यायेन आब्रह्मरन्ध्रात् अधोवक्त्रपर्यन्तं प्राणशक्तिब्रह्माश्रयमध्यमनाडीरूपतया प्राधान्येन स्थिता, तत एव सर्ववृत्तीनाम् उदयात्, तत्रैव च विश्रामात् । एवं भूतापि एषा पशूनां निमीलितस्वरूपैव स्थिता । यदा तु उक्तयुक्तिक्रमेण सर्वान्तरतमत्वे मध्यभूता संविद्भगवती विकसति, यदि वा वक्ष्यमाणक्रमेण मध्यभूता ब्रह्मनाडी विकसति, तदा 'तद्विकासात् चिदानन्दस्य' उक्तरूपस्य 'लाभः' -- प्राप्तिर्भवति । ततश्च प्रागुक्ता जीवन्मुक्तिः ।।१७।।

***

मध्यविकासे युक्तिमाह 

विकल्पक्षय-शक्तिसंकोचविकासवाहच्छेदाद्यन्तकोटिनिभालनादय इहोपायाः ।।१८।।

***

(क्रमशः,  follows the next post.)

--

चिदानन्दलाभे देहादिषु

प्रत्यभिज्ञाहृदये,

सूत्र 16

***

एवं च 

चिदानन्दलाभे देहादिषु चेत्यमानेष्वपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्तिः  ।।१६।।

विश्वात्मसात्कारात्मनि समावेशरूपे 'चिदानन्दे लब्धे' व्युत्थानदशायां दलकल्पतया देहप्राणनीलसुखादिषु आभासमानेषु अपि, यत्समावेशसंस्कारबलात् प्रतिपादयिष्यमाणयुक्तिक्रमोपबृंहितात् 'चिदैकात्म्यप्रतिपत्तिदार्ढ्यम्' --अविचला चिदेकत्वप्रथा, सैव 'जीवन्मुक्तिः' -- जीवतः प्राणान् अपि धारयतो मुक्तिः, प्रत्यभिज्ञातनिजस्वरूपविद्राविताशेषपाशराशित्वात् यथोक्तं  स्पन्दशास्त्रे 

'इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् ।

स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः ।।'

इति ।।१६।।

***

अथ कथं चिदानन्दलाभो भवति?  -- इत्याह 

मध्यविकासाच्चिदानन्दलाभः ।।१७।।

(क्रमशः , follows the next post)

***

Tuesday, 20 July 2021

बललाभे विश्वमात्मसात्करोति

प्रत्यभिज्ञाहृदये 

सूत्र १५

***

यदा पुनः करणेश्वरीप्रसरसंकोचं संपाद्य सर्गसंहारक्रमपरिशीलनयुक्तिम् आविशति तदा 

बललाभे विश्वमात्मसात्करोति ।।१५।।

चितिरेव देहप्राणाद्याच्छादननिमज्जनेन स्वरूपम् उन्मग्नत्वेन स्फारयन्ती बलम्, यथोक्तं 

'तदाक्रम्य बलं मन्त्राः .........।'

इति । एवं च 'बललाभे' -- 'उन्मग्नस्वरूपाश्रयणे' क्षित्यादि-सदाशिवान्तं 'विश्वम् आत्मसात् करोति' --स्वरूपाभेदेन निर्भासयति । तदुक्तं पूर्वगुरुभिः स्वभाषामयेषु क्रमसूत्रेषु 

'यथा वह्निरुद्बोधितो दाह्यं दहति, तथा विषयपाशान् भक्षयेत्'

इति ।

'न चैवं वक्तव्यम् -- विश्वात्मसाकाररूपा समावेशभूः कादाचित्की । कथम् उपादेया इयं स्यात् इति, यतो देहाद्युन्मज्जननिमज्जनवशेन इदम् अस्याः कादाचित्कत्वम् इव आभाति । वस्तुतस्तु चितिस्वातन्त्र्यावभासितदेहाद्युन्मज्जनात् एव कादाचित्कत्वम् । एषा तु सदैव प्रकाशितमाना, अन्यथा तु देहादि अपि न प्रकाशेत । अत एव देहादिप्रमातृताभिमाननिमज्जनाय अभ्यासः, न तु सदा प्रथमानतासारप्रमातृताप्राप्त्यर्थम्, 

इति श्रीप्रत्यभिज्ञाकाराः ।।१५।।

***

एवं च 

चिदानन्दलाभे देहादिषु चेत्यमानेष्वपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्तिः ।।१६।।

***

(क्रमशः  follows the next post) 

--

 

चितिवह्निरवरोहपदे छन्नोऽपि

सूत्र 14

--

ननु यदि पारमार्थिकं चिच्छक्तिपदं सकल-भेद-कवलन-स्वभावं, तत् अस्य मायापदेऽपि तथारूपेणभवितव्यं यथा जलदाच्छादितस्यापि भानुः भावावभासकत्त्वम् । इत्याशङ्क्य आह 

चितिवह्निरवरोहपदे छन्नोऽपि मात्रया मेयेन्धनं प्लुष्यति  ।।१४।।

'चितिरेव' विश्वग्रसनशीलत्वात् 'वह्निः', असौ एव 'अवरोहपदेमायाप्रमातृतायां छन्नोऽपि' -- स्वातन्त्र्यात् आच्छादितस्वभावोऽपि, भूरिभूतिच्छन्नाग्निवत् 'मात्रया' -- अंशेन, नीलपीतादिप्रमेयेन्धनं प्लुष्यति -- स्वात्मसात् करोति । मात्रापदस्य इदम् आकूतम् -- यत् कवलयन् अपि सार्वात्म्येन न ग्रसते, अपि तु अंशेन,  संस्कारात्मना उत्थापयति । 

ग्रासकत्वं च सर्वप्रमातृऽणां*१ स्वानुभवत एव सिद्धम् । यदुक्तं श्रीमदुत्पलदेवपादैः निजस्तोत्रेषु 

'वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः ।

ग्रसमानास्ततो वन्दे देव*२ विश्वं भवन्मयम्  ।।'

इति  ।।१४।।

***

(*१ न ह्रस्वं, अपि च दीर्घं ऋकारं अत्र दृष्टव्यं) 

*२वा, देवं... वर्तनीत्रुटिः?)

यदा पुनः करणेश्वरीप्रसरसंकोचं संपाद्य सर्गसंहारक्रमपरिशीलन युक्तिम् आविशति  तदा 

बललाभे विश्वमात्मसात्करोति ।।१५।।

(क्रमशः  -follows the next post)

***



Monday, 19 July 2021

तत्परिज्ञाने चित्तमेव....

प्रत्यभिज्ञाहृदये 

सूत्र 12

***

उक्तं च प्रत्यभिज्ञाटीकायाम् :

'शरीरमेव घट्यादि वा ये षट्त्रिंशतत्त्वमयं ।

शिवरूपतया पश्यन्ति तेऽपि सिद्ध्यन्ति ।।'

इति  ।।१२।।

--

उक्तसूत्रार्थ प्रातिपक्ष्येण तत्त्वदृष्टिं दर्शयितुमाह --

तत्परिज्ञाने चित्तमेव अन्तर्मुखीभावेन, 

चेतनपदाध्यारोहात् चितिः ।।१३।।

पूर्वसूत्रव्याख्याप्रसङ्गेन प्रमेयदृष्ट्या वितत्य व्याख्यातप्रायमेतत् सूत्रम्, शब्दसंगत्या तु अधुना व्याख्यायते । 'तस्य' आत्मीयस्य पञ्चकृत्यकारित्वस्य 'परिज्ञाने' सति अपरिज्ञानलक्षणकारणापगमात् स्वशक्तिव्यामोहिततानिवृत्तौ स्वातन्त्र्यलाभात् प्राक् व्याख्यातं यत् 'चित्तं' तदेव संकोचिनीं बहिर्मुखतां जहत् अन्तर्मुखीभावेन चेतनपदाध्यारोहात्, ग्राहकभूमिकाक्रमणक्रमेण संकोचकलाया अपि विगलनेन स्वरूपापत्त्या 'चितिर्' भवति, स्वां चिन्मयीं परां भूमिमाविशति इत्यर्थः ।।१३।।

***

(क्रमशः  follows in the next post.)


Sunday, 18 July 2021

तदपरिज्ञाने स्वशक्तिभिर्व्यामोहितता

प्रत्यभिज्ञाहृदये 

सूत्र १२

***

यस्य पुनः सद्गुरूपदेशं विना एतत्परिज्ञानं नास्ति, 

तस्य अवच्छादितस्वरूपाभिः निजाभिः शक्तिभिः व्यामोहितत्वं भवति । -- इत्याह --

तदपरिज्ञाने स्वशक्तिभिर्व्यामोहितता संसारित्वम्  ।।१२।।

'तस्य' -एतस्य, सदा संभवतः पञ्चविध-कृत्य-कारित्वस्य 'अपरिज्ञाने' -- शक्तिपातहेतुक-स्वबलोन्मीलनात् अप्रकाशने 'स्वाभिः शक्तिभिः व्यामोहितत्वं'  --विविधलौकिकशास्त्रीयशङ्काशंकुकीलितत्वं यत्,  इयमेव 'संसारित्वम्' ।

तदुक्तं श्रीसर्ववीरभट्टारके --

'अज्ञानाच्छङ्कते लोकस्ततः सृष्टिश्च संहृतिः।। 

इति ।

'मन्त्रा वर्णात्मकाः सर्वे सर्वे वर्णा शिवात्मकाः ।।'

इति च ।

तथा हि -- चित्प्रकाशात् अव्यतिरिक्ता नित्योदितमहामन्त्ररूपा पूर्णाहं-विमर्शमयी या इदं परा वाक्शक्तिः आदि-क्षान्त-रूपाशेष-शक्तिचक्रगर्भिणी, सा तावत् पश्यन्तीमध्यमादिक्रमेण ग्राहक-भूमिकां भासयति । तत्र च परारूपत्वेन स्वरूपम् अप्रथयन्ती मायाप्रमातुः अस्फुटा-साधारणार्थावभासरूपां प्रतिक्षणं नवनवां 'विकल्पक्रियामुल्लासयति' शुद्धामपि च अविकल्पभूमिं तदाच्छादितामेव दर्शयति । तत्र च बाह्यादिदेवताधिष्ठितककारादिविचित्रशक्तिभिः व्यामोहितो देहप्राणादिमेव परिमितम् अवशम् आत्मानं मन्यते मूढजनः । ब्राह्म्यादिदेव्यः पशुदशायां भेदविषये सृष्टिस्थिती अभेदविषये च संहारं प्रथयन्त्यः परिमितविकल्पपात्रतामेव संपादयन्ति, पतिदशायां तु भेदे संहारं अभेदे च सर्गस्थिती प्रकटयन्त्यः, क्रमात्क्रमं विकल्पनिर्ह्रासनेन श्रीमद्भैरवमुद्रानुप्रवेशमयीं महतीं अविकल्पभूमिमेव उन्मीलयन्ति ।

'सर्वो ममायं विभव इत्येवं परिजानतः। 

विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ।।'

इत्यादिरूपां चिदानन्दवेशमग्नां शुद्धविकल्पशक्तिम् उल्लासयन्ति, ततः उक्तनीत्या स्वशक्ति-व्यामोहिततैव संसारित्वम् ।

किंच चितिशक्तिरेव भगवती विश्ववमनात् संसारवामाचारत्वाच्च वामेश्वर्याख्या सती, खेचरी-गोचरी-दिक्चरी-भूचरीरूपैः अशेषैः प्रमातृ-अन्तःकरण-बहिष्करण-भावस्वभावैः परिस्फुरन्ती, पशुभूमिकायां शून्यपदविश्रान्ता किंचित्कर्तृत्वाद्यात्मकः-कलादि-शक्त्यात्मनागोपितपारमार्थिकचिद्गगनचरीत्वस्वरूपेण चकास्ति, भेदनिश्चयाभिमानविकल्पनप्रधानान्तःकरणदेवीरूपेण गोचरीचक्रेण गोपिताभेदनिश्चयाद्यात्मकपारमार्थिकस्वरूपेण प्रकाशते, भेदालोचनादिप्रधानबहिष्करण-देवतात्मना च दिक्चरीचक्रेण गोपिताभेदप्रथात्मकपारमार्थिकस्वरूपेण स्फुरति, सर्वतो व्यवच्छिन्नाभासस्वभावप्रमेयात्मना च भूचरीचक्रेण गोपित-सार्वात्म्यस्वरूपेण पशुहृदयव्यामोहिना भाति । पतिभूमिकायां तु सर्शकर्तृत्वादिशक्त्यात्मक चिद्गगनचरीत्वेन,  अभेदनिश्चयाद्यात्मना गोचरीत्वेन, अभेदालोचनाद्यात्मना दिक्चरीत्वेन,  स्वाङ्गकल्पाद्वयप्रथासारप्रमेयात्मना च भूचरीत्वेन पतिहृदयविकासिना स्फुरति । तथा च उक्तं सहजचमत्कारपरिजनिताकृतदारेण भट्टदामोदरेन विमुक्तकेषु

'पूर्णावच्छिन्नमात्रान्तर्बहिष्करणभावगाः ।

वामेशाद्याः परिज्ञानाज्ञानात्स्युर्मुक्तिबन्धदाः ।।'

इति । एवं च निजशक्तिव्यामोहिततैव संसारित्वम् । 

अपि च चिदात्मनः परमेश्वरस्य स्वा अनपायिनी* एकैव स्फुरत्तासारकर्तृतात्मा ऐश्वर्यशक्तिः । 

(*अन्-अपायिनी?) 

सा यदा स्वरूपं गोपयित्वा पाशवे पदे प्राणापान-समान-शक्तिदशाभिः जाग्रत्स्वप्न-सुषुप्तभूमिभिः देहप्राणपुर्यष्टक-कलाभिश्च व्यामोहयति, तदा तद्व्यामोहितता संसारित्वम्, यदा तु मध्यधामोल्लासम् उदानशक्तिं, विश्वव्याप्तिसारां च व्यानशक्तिं, तुर्यदशारूपां तुर्यातीतदशारूपां च चिदानन्दघनाम् उन्मीलयति, तदा देहाद्यवस्थायामपि पतिदशात्मा जीवन्मुक्तर्भवति । एवं त्रिधा स्वशक्तिव्यामोहितता व्याख्याता  । 'चिद्वत्' इति (९) सूत्र चित्प्रकाशो गृहीतसंकोचः संसारी इत्युक्तम्, इह तु स्वशक्ति-व्यामोहितत्वेन अस्य संसारित्वं भवति,  -- इति भङ्ग्यन्तरेण उक्तम् । एवं संकुचितशक्तिः प्राणादिमानपि यदा स्वशक्तिव्यामोहितो न भवति, तदा अयम् 

..........................     शरीरी परमेश्वरः  ।'

इत्याम्नायस्थित्वा शिवभट्टारक एव, -- इति भङ्ग्या निरूपित भवति ।

यदागमः 

मनुष्यदेहमास्थाय छन्नास्ते परमेश्वराः ।'

इति । उक्तं च प्रत्यभिज्ञाटीकायाम् 

'शरीरमेव घटाद्यपि वा ये षट्त्रिंशत्तत्त्वमयं 

शिवरूपतया पश्यन्ति तेऽपि सिद्ध्यन्ति ।'

इति ।।१२।।

उक्तसूत्रार्थप्रातिपक्षेण तत्त्वदृष्टिं दर्शयितुमाह 

तत्परिज्ञाने चित्तमेव अन्तर्मुखी भावेन  ।

चेतनपदाध्यारोहात् चितिः  ।।१३।।

(क्रमशः,  follows the next post) 

***







Friday, 16 July 2021

आभासन-रक्ति-विमर्शन...

प्रत्यभिज्ञाहृदये 11

***

सूत्र 11.

आभासन-रक्ति-विमर्शन-बीजावस्थापन-विलापनस्तानि ।।११।। 

'पञ्चविधकृत्यानि करोति' इति पूर्वतः संबध्यते । श्रीमन्महार्थदृष्ट्या दृगादिदेवीप्रसरणक्रमेण यत् यत् आभाति, तत् तत् सृज्यते, तथा सृष्टे पदे तत्र प्रशान्तनिमेषं कंचित् कालं रज्यति, तदा स्थितिदेव्या तत् स्थाप्यते, चमत्कारापरपर्यायविमर्शनसमये संह्रियते । 

यथोक्तं श्रीरामेण --

समाधिवज्रेणाप्यन्यैरभेद्यो भेदभूधरः। 

परामृष्टश्च नष्टश्च त्वद्भक्तिबलशालिभिः।।

इति ।

यदा तु संह्रियमाणमपि एतत् अन्तः  विचित्राशङ्कादिसंस्कारमाधत्ते, तदा तत् पुनः उद्भविष्यत्संसारबीजभावमापन्नं विलयपदम् आध्यारोपितम् । यदा पुनः तत् तथा अन्तःस्थापितम् अन्यत् वा अनुभूयमानमेव हठपाकक्रमेण अलंग्रासयुक्त्या चिदग्निसाद्भावम् आपद्यते, तदा पूर्णतापादनेन अनुगृह्यते एव । ईदृशं च पञ्चविधकृत्यकारित्वं सर्वस्य सदा सन्निहितमपि सद्गुरूपदेशं विना न प्रकाशते, इति सद्गुरु सपर्यैव एतत्प्रथार्थम् अनुसर्तव्या ।।११।। 

यस्य पुनः सद्गुरूपदेशं विना एतत्परिज्ञानं नास्ति, 

तस्य अवच्छादितस्वरूपाभिः निजाभिः शक्तिभिः व्यामोहितत्वं भवति ।

-- इत्याह

तदपरिज्ञाने स्वशक्तिभिर्व्यामोहितता संसारित्वम् ।।१२।।

***

(क्रमशः   follows the next post) 

--



चिद्वत्तच्छक्तिसंकोचात्

प्रत्यभिज्ञाहृदये 9, 10

-----------------------

यदि एवंभूतस्य आत्मनो विभूतिः, तत् कथम् अयं मलावृतः अणुः कलादिवलितः संसारी अभिधीयते?  -इत्याह ...

चिद्वत्तच्छक्तिसंकोचात् मलावृतः संसारी  ।।९।।

यदा 'चिदात्म' परमेश्वरः स्वस्वातन्त्र्यात् अभेदव्याप्तिं निमज्ज्य भेदव्याप्तिं अवलम्बते, तदा 'तदीया इच्छादिशक्तयः' असंकुचिता अपि 'संकोचवत्यो' भान्ति,  तदानीमेव च अयं 'मलावृतः संसारी' भवति । तथा च अप्रतिहतस्वातन्त्र्यरूपा इच्छाशक्तिः संकुचिता सती अपूर्णंमन्यतारूपम् आणवं मलम्, 

ज्ञानशक्तिः क्रमेण संकोचात् भेदे सर्वज्ञत्वस्य किंचिज्ज्ञत्वाप्तेः अन्तःकरण-बुद्धीन्द्रियतापत्तिपूर्वम् अत्यन्तं संकोचग्रहणेन भिन्नवेद्यप्रथारूपं मायीयं मलम्, 

क्रियाशक्तिः क्रमेण भेदे सर्वकर्तृत्वाप्तेः कर्मेन्द्रियरूप-संकोच-ग्रहणपूर्वम् अत्यन्तं परिमिततां प्राप्ता शुभाशुभानुष्ठानमयं कार्मं मलम् । 

तथा,

सर्वकर्तृत्व सर्वज्ञत्व-पूर्णत्व-नित्यत्व-व्यापकत्वशक्तयः संकोचं गृह्णाना यथाक्रमं कला-विद्या-राग-नियति-रूपतया भान्ति । तथाविधश्च अयं शक्तिदरिद्रः संसारी उच्यते, स्वशक्तिविकासे तु शिव एव ।।९।।

ननु संसार्यवस्थायाम् अस्य किंचित् शिवतोचितम् अभिज्ञानमस्ति येन शिव एव तथावस्थितः?  --इत्युद्घोष्यते 'अस्ति' --इत्याह

तथापि तद्वत् पञ्चकृत्यानि करोति ।।१०।।

इह ईश्वराद्वयदर्शनस्य ब्रह्मवादिभ्यः अयमेव विशेषः यत्

'सृष्टिसंहारकर्तारं विलयस्थितिकारकम् ।

अनुग्रहकरं देवं प्रणतार्तिविनाशनम् ।।

इति श्रीवत्स्वच्छन्दादिशासनोक्तनीत्या सदा पञ्चविध-कृत्य-कारित्वं चिदात्मनो भगवतः। यथा च भगवान् शुद्धेतराध्व-स्फारेण स्वरूपविकासरूपाणि सृष्ट्यादीनि करोति, तथा 'संकुचितचिच्छक्तितया' संसारभूमिकायामपि 'पञ्चकृत्यानि' विधत्ते । तथा हि 

'तदेवं व्यवहारेऽपिप्रभुर्देवादिमाविशन् ।

भान्तमेवान्तरर्थौघमिच्छया भासयेद्बहिः ।।'

इति प्रत्यभिज्ञाकारिकोक्तार्थदृष्ट्या देहप्राणादिपदम् आविशन् चिद्रूपो महेश्वरो बहिर्मुखीभावावसरे नीलादिकमर्थं नियतदेशकालादितया यदा आभासयति, तदा नियतदेशकालाद्याभासांशे अस्य स्रष्टता, अन्यदेशकालाद्याभासांशे अस्य संहर्तृता, नीलाद्याभासांशे  स्थापकता, भेदेन आभासांशे विलयकारिता, प्रकाशैक्येन प्रकाशने अनुगृहीतृता । यथा च सदा पञ्चविधकृत्यकारितं भगवतः तथा मया* वितत्य स्पन्दसंदोहे निर्णीतम् ।

एवमिदं पञ्चविधकृत्यकारित्वम् आत्मीयं सदा दृढप्रतिपत्त्या परिशील्यमानं माहेश्वर्यम् उन्मीलयत्येव भक्तिभाजाम् । अत एव ये सदा एतत् परिशीलयन्ति, ते स्वरूपविकासमयं विश्वं जानाना जीवन्मुक्ता-इत्याम्नाताः । ये तु न तथा, ते सर्वतो विभिन्नं मेयजातं पश्यन्तो बद्धात्मानः ।।१०।।

न अयमेव प्रकारः पञ्चविधकृत्यकारित्वे, यावत् अन्योऽपि कश्चित् रहस्यरूपोऽस्ति । -- इत्याह 

आभासन-रक्ति-विमर्शन-बीजावस्थापन-विलापनतस्तानि।।११।।

(क्रमशः,  follows the next post)

***


Thursday, 15 July 2021

तद्भूमिकाः सर्वदर्शनस्थितयः ।।

प्रत्यभिज्ञाहृदये 8

***

एवं च 

तद्भूमिकाः सर्वदर्शनस्थितयः ।।८।।

'सर्वेषां' चार्वाकादिदर्शनानां 'स्थितयः'-सिद्धान्ताः 'तस्य' एतस्य आत्मनो नटस्येव स्वेच्छावग्रहीताः कृत्रिमा भूमिका ।

तथा च,

'चैतन्यविशिष्टं शरीरमात्मा ।'

नैयायिकादयो ज्ञानादिगुणगणाश्रयं बुद्धितत्त्वप्रायमेव आत्मानं संसृतौ मन्यन्ते, अपवर्गे तु तदुच्छेदे शून्यप्रायम् ।

अहंप्रतीतिप्रत्येयः सुखदुःखाद्युपाधिभिः तिरस्कृतः आत्मा-इति मन्वाना मीमांसका अपि बुद्धावेव निविष्टाः ।

ज्ञानसंतान एव तत्त्वम्-इति सौगता बुद्धिवृत्तिषु एव पर्यवसिताः ।

प्राण एव आत्मा--इति केचित् श्रुत्यन्तविदः ।

असदेव इदमासीत्-इत्यभावब्रह्मवादिनः शून्यभुवमवगाह्य स्थिताः । माध्यमिका अपि एवमेव ।

परा प्रकृतिः भगवान् वासुदेवः तद्विस्फुल्लिङ्गप्राया एव जीवाः - इति पाञ्चरात्राः परस्या प्रकृतेः परिणामाभ्युपगमात् अव्यक्ते एव अभिनिविष्टाः ।

सांख्यादयस्तु विज्ञानाकलप्रायां भूमिम् अवलम्बन्ते ।

सदेव इदमग्र आसीत्-इति ईश्वरतत्त्वपदमाश्रिता अपरे श्रुत्यन्तविदः ।

शब्दब्रह्ममयं पश्यन्तीरूपम् आत्मतत्त्वम्-इति वैयाकरणाः श्रीसदाशिवपदमध्यासिताः । एवमन्यदपि अनुमन्तव्यम् । एतच्च आगमेषु

'बुद्धितत्त्वे स्थिता बौद्धा गुणेष्वार्हताः स्थिताः। 

स्थिता वेदविदः पुंसि अव्यक्ते पाञ्चरात्रिकाः ।।'

इत्यादिना निरूपितम् ।

विश्वोत्तीर्णमात्मतत्त्वम्--इति तान्त्रिकाः। 

विश्वमयम् इति--कुलाद्याम्नायनिविष्टाः।

विश्वोत्तीर्णं विश्वमयं च --इति त्रिकादिदर्शनविदः।। 

एवम् एकस्यैव चिदात्मनो भगवतः स्वातन्त्र्यावभासिताः सर्वा इमा भूमिकाः स्वातन्त्र्यप्रच्छादनोन्मीलनतारतम्यभेदिताः । अत एक एव एतावद्व्याप्तिक आत्मा ।मितदृष्टयस्तु अंशाशिकासु तदिच्छयैव अभिमानं ग्राहिताः, येन देहादिषु भूमिषु पूर्वपूर्वप्रमातृ व्याप्तिसारताप्रथायामपि उक्तरूपां महाव्याप्तिं परशक्तिपातं विना न लभन्ते । यथोक्तम् 

'वैष्णवाद्यास्तु ये केचिद्विद्यारागेणरञ्जिताः। 

न विदन्ति परं देवं सर्वज्ञं ज्ञानशालिनम् ।।'

इति । तथा 

'भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ।।'

इति ।

'त आत्मोपासकाः शैवं न गच्छन्ति परं पदम्।'

इति च ।

अपि च 'सर्वेषां दर्शनानां'-- समस्तानां नीलसुखादिज्ञानानां याः 'स्थितयः' 

--अन्तर्मुखरूपा विश्रान्तयः ताः 'तद्भूमिकाः' -- चिदानन्दघनस्वात्मस्वरूपाभिव्यक्त्युपायाः । तथा हि यदा यदा बहिर्मुखं रूपं स्वरूपे विश्राम्यति, तदा तदा बाह्यवस्तूपसंहारः, अन्तः प्रशान्तपदावस्थितिः,  तत्तदुदेष्यत्संतत्यासूत्रणम्, -इति सृष्टि-स्थितिसंहारमेलनरूपा इदं तुरीया संविद्भट्टारिका तत्तत्सृष्ट्यादि भेदान् उद्वमन्ती संस्तुति च, सदा पूर्णा च, कृशा च, उभयरूपा च अनुभयात्मा च अक्रममेव स्फुरन्ती स्थिता । 

उक्तं च श्रीप्रत्यभिज्ञाटीकायाम् ।

'तावदर्थावलेहेन उत्तिष्ठति,  पूर्णा च भवति'

इति । एषा च भट्टारिका क्रमात्क्रमम् अधिकमनुशील्यमाना स्वात्मसात्करोत्येव भक्तजनम् ।।८।।

***

यदि एवंभूतस्य आत्मनो विभूतिः, तत् कथं अयं मलावृतः अणुः कलादिवलितः संसारी अभिधीयते?  इत्याह --

चिद्वत्तच्छक्तिसंकोचात् मलावृतः संसारी ।।९।।

(क्रमशः  Follows in the next post) 

***






Wednesday, 14 July 2021

स चैको द्विरूपस्त्रिमयश्चतुरात्मा

प्रत्यभिज्ञाहृदये 7.

-------------------------

अस्यैव सम्यक् स्वरूपज्ञानात् यतो हि मुक्तिः, असम्यक् तु संसारः, ततः तिलश एतत्स्वरूपं निर्भङ्क्तुमाह 

स चैको द्विरूपस्त्रिमयश्चतुरात्मा सप्तपञ्चकस्वभावः  ।।७।।

निर्णीतदृशा चिदात्मा शिवभट्टारक एव 'एक' आत्मा, न तु अन्यः  कश्चित्, प्रकाशस्य देशकालादिभिः भेदयोगात्, जडस्य तु ग्राहकत्वानुपपत्तेः। प्रकाश एव यतः स्वातन्त्र्यात्  गृहीतप्राणादि-संकोचः संकुचितार्थ-ग्राहकतामश्नुते, ततः असौ प्रकाश-रूपत्व-संकोचावभासवत्त्वाभ्यां 'द्विरूपः' आणव-मायीय-कार्म-मलावृतत्त्वात् 'त्रिमयः'। शून्य-प्राण-पुर्यष्टक-शरीरस्वभावत्त्वात् 'चतुरात्मा'। 'सप्तपञ्चकानि'-शिवादिपृथिव्यन्तानि पञ्च-त्रिंशत्तत्त्वानि तत्-स्वभावः' । तथा शिवादि-सकलान्त-प्रमातृ-सप्तकस्वरूपः, चिदानन्देच्छा-ज्ञान-क्रियाशक्तिरूपत्त्वेऽपि अख्यातिवशात् कला-विद्या-राग-काल-नियति-कञ्चुक-कवलितत्त्वात् पञ्चकस्वरूपः एवं च शिवैकरूपत्त्वेन पञ्चत्रिंशत्तत्त्वेन, प्रमातृसप्तस्वभावत्त्वेन चिदादिशक्ति-पञ्चकात्मकत्त्वेन च अयं प्रत्यभिज्ञायमानो मुक्तिदः, अन्यथा तु संसारहेतुः ।।७।।

***

एवं च

तद्भूमिकाः सर्वदर्शनस्थितयः ।।८।।

(क्रमशः  follows the next post)

***