आलोक पथ - वायु
--
वायवा याहि दर्शतेमे सोमा अरङ्कृताः ।
तेषां पाहि श्रुधी हवम् ।
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः ।
सुतसोमा अहर्विदः ।
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
उरूची सोमपीतये ॥
इन्द्रवायू इमेसुता उप प्रयोभिरा गतम् ।
इन्दवो वामुशन्ति हि ॥
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
तावा यातमुप द्रवत् ॥
वाय्विन्द्रश्च सुन्वत आ यातमुप निष्कृतम् ।
मक्ष्वि१त्था धिया नरा ॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
धियं घृताची साधन्ता ॥
ऋतेन मित्रावरुणावृतावृधावृतस्पर्शा ।
क्रतुं बृहन्तमाशाथे ॥
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसम् ॥
--
वायु आ याहि दर्शत इमे सोमाः अरं कृताः ।
तेषां पाहि श्रुधी हवम् ।
वाय उक्थेभिः जरन्ते त्वाम् अच्छा जरितारः ।
सुतसोमाः अहर्विदः ।
वायो तव धेन आ जिगाति दा शुषे ।
(दा > दाने, लवने, अवखंडने > द्यति, शोधने दायति, दानं > शुद्धिः, बन्धने > दामन् > सूत्रं, )
इन्दवः वां उशन्ति हि ॥
वायु-इन्द्रः च चेतथः सुतानां वाजिनी-वसू ।
तौ आ यातम् उप द्रवत् ॥
वाय्-इन्द्रः च सुन्वत आ यातम् उप निष्कृतम् ।
मक्षु-इत्-था धिया नरा ॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
(रिश् > अद् )
धियं घृताची साधन्ता ॥
ऋतेन मित्रावरुणावृतावृधावृतस्पर्शा ।
(ऋतेन, ऋतं ...)
क्रतुं बृहन्तं आशाथे ॥
कवी नः मित्रावरुणा तुविजाताः उरुक्षयाः ।
दक्षं दधाते अपसम् ॥
--
--
वायवा याहि दर्शतेमे सोमा अरङ्कृताः ।
तेषां पाहि श्रुधी हवम् ।
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः ।
सुतसोमा अहर्विदः ।
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
उरूची सोमपीतये ॥
इन्द्रवायू इमेसुता उप प्रयोभिरा गतम् ।
इन्दवो वामुशन्ति हि ॥
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
तावा यातमुप द्रवत् ॥
वाय्विन्द्रश्च सुन्वत आ यातमुप निष्कृतम् ।
मक्ष्वि१त्था धिया नरा ॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
धियं घृताची साधन्ता ॥
ऋतेन मित्रावरुणावृतावृधावृतस्पर्शा ।
क्रतुं बृहन्तमाशाथे ॥
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसम् ॥
--
वायु आ याहि दर्शत इमे सोमाः अरं कृताः ।
तेषां पाहि श्रुधी हवम् ।
वाय उक्थेभिः जरन्ते त्वाम् अच्छा जरितारः ।
सुतसोमाः अहर्विदः ।
वायो तव धेन आ जिगाति दा शुषे ।
(दा > दाने, लवने, अवखंडने > द्यति, शोधने दायति, दानं > शुद्धिः, बन्धने > दामन् > सूत्रं, )
इन्दवः वां उशन्ति हि ॥
वायु-इन्द्रः च चेतथः सुतानां वाजिनी-वसू ।
तौ आ यातम् उप द्रवत् ॥
वाय्-इन्द्रः च सुन्वत आ यातम् उप निष्कृतम् ।
मक्षु-इत्-था धिया नरा ॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
(रिश् > अद् )
धियं घृताची साधन्ता ॥
ऋतेन मित्रावरुणावृतावृधावृतस्पर्शा ।
(ऋतेन, ऋतं ...)
क्रतुं बृहन्तं आशाथे ॥
कवी नः मित्रावरुणा तुविजाताः उरुक्षयाः ।
दक्षं दधाते अपसम् ॥
--
No comments:
Post a Comment