(स आत्मा वा पुरुषऽयम्।)
स ईक्षत कथं न्विदं मदृते स्यादिति
स ईक्षत कतरेण प्रपद्या इति ।
स ईक्षत यदि वाचाभिव्याहृतं कोऽहम् ?--
यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं
यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं
यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं
यदि शिश्नेन विसृष्टमथ कोऽहमिति ।।११
(अध्याय १, खण्ड ३)
--
सः ईक्षतः (?) कथं नु इदं
मत् ऋते स्यात् इति
स ईक्षतः (?) कतरेण प्रपद्यै इति।
स ईक्षतः (?) यदि वाचा अभिव्याहृतं
यदि प्राणेन अभिप्राणितं
यदि चक्षुषा दृष्टं
यदि मनसा ध्यातं
यदि अपानेन अभ्यपानितं
यदि शिश्नेन विसृष्टं अथ
कः अहं इति।
--
स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत।
सैषा विदृतिर्नाम द्वास्तदेतन्नान्दनम् ।
तस्य त्रय आवसथास्त्रयः स्वप्नाः ।
अयमावसथोऽयमावसथोऽयमावसथ इति ।।१२
(अध्याय १, खण्ड ३)
--
सः एतं एव सीमानं विदार्य एतया द्वारा प्रापद्यत।
सा एषा विदृतिः नाम द्वाः तत् एतत् नान्दनम्।
तस्य त्रयः आवसथाः त्रयः स्वप्नाः।
अयं आवसथः अयं आवसथः अयं आवसथः इति।।
--
स जातो भूतान्यभिव्यैख्यत् किमिहान्यं वावदिषदिति।
स एतमेव पुरुषं ब्रह्म ततममपश्यत् ।
इदमदर्शमिति३ ।। १३
(अध्याय १, खण्ड ३)
--
सः जातः भूतादि अभिव्यैख्यत किं इह अन्यं वा अवदिषत् इति। सः एतं एव पुरुषं ब्रह्म ततमं अपश्यत्।
इदं अदर्शं इति।।
--
तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण ।
परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः।। १४
--
तस्मात् इदन्द्रो नाम ह वै नाम तं इन्द्रं सन्तं इन्द्रः इति आचक्षते परोक्षेण। परोक्षप्रियाः इव हि देवाः परोक्षप्रियाः इव हि देवाः।।
--
केनोपनिषद् :
--
तस्माद् वा इन्द्रोऽतितरामिवान्यान् देवान् स ह्येन्नेदिष्ठं पस्पर्श, स ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति।। ३
--
तस्मात् वा इन्द्रः अतितराम् इव अन्यान् देवान् सः हि एनत् नेदिष्ठं पस्पर्श, सः हि एनत् प्रथमः विदाञ्चकार ब्रह्म इति।।
--
No comments:
Post a Comment