उपाधिः उपमानेव मीमान्सयानुमीयते।
अतः भवति माया विलासमात्रः बुद्धेर्या ।।१
कल्पनयाप्रेरिता सा सृजत्यावरणविक्षेपौ ।
प्रमादानवधानतया भवति सैव स्मृतिदोषापि।।२
जीवभावः तथा एव भ्रान्त्या सृजित कल्पना।
जीवभावः उपाधिः अतोऽसौ भ्रान्तकल्पना।।३
तथा हि ईश्वरोऽपि स्यात् यो गृह्यते परात्मवत् ।
एवमेव अभेदात्मनि उपाधिभेदं तत्मिथ्या।। ४
केन वा कथं लभ्यो कदा वा लब्धवानहम्।
इति आशङ्कया आशा या मिथ्याभासैव च।। ५
कोऽहमिति विचारेण लीयते तदात्म-कल्पना।
अपि लीयते च भेदं तत् यदात्मपरात्मयोः।। ६
एवं हि ज्ञात्वा स्वात्मानं तथात्मनि रमते इहैव ।
स हि भवेद्ब्रह्मविच्च सैव आत्मवेत्ता तथा।। ७
इति यद्रचितं अत्र एतत् जीवभावेन ।
न बुद्धिविलासं तु अपि च तद्विवेकैव ।। ८
ये पठन्ति इदमष्टकं प्रमादरहितं भूत्वा ।
सावधानेन गृहीत्वा च तेषां शान्तिर्भविष्यति।।
--
No comments:
Post a Comment