Monday, 7 October 2019

My way to dharma

प्रश्न :
कः धर्म अनुष्ठेयः
कः धर्म पालनीयः।
किं कर्तव्याकर्तव्यम्
कथितुमर्हसि प्रभो।।
उत्तर :
श्रेयो हि ज्ञानं अभ्यासात्
ज्ञानात् ध्यानं विशिष्यते।
ध्यानात् कर्मफलत्यागः
त्यागात् शान्तिः अनंतरम्।।
अभ्यासं यत्क्रियते
ज्ञानरहितं हि यत्।
अभ्यासं तत्भयावहम्
प्रमादेन कृतं हि तत्।।
ज्ञान-ध्यानयोः धर्मः
जहदजहेन प्रवर्तते।
जहदजहत्-लक्षणयोः
झेन इति प्रकीर्तितम्।।
विरम्यन्ते यस्मात्
विचारवृत्तयः सर्वाः।
तच्चिन्तनं चिन्तो वा
शिन्तो इति विजानीयात्।।
धिया धीः चेतसायुक्ता
या स्थिरा निश्चला अथ
सा थिया थियो इति
गीर्वाणी सा ग्रीकायाम् ।।
एतया त्रीण्या-भेदया
धर्मत्रयी या उच्यते।
असौऽपि धर्म-सनातनः
वर्णाश्रमयुक्तो हि यः।।
रा दाने ला आदाने
यास्मिन्तत्वं धीयते।
वर्णाश्रमविरोधित्वात्
तमपि धर्म्यः गृह्णीयात्।।
अन्येऽपि सर्वे धर्माः
लोके ये प्रवर्तन्ते।
तेऽपि व्यवहर्तव्याः
वर्णाश्रमानुकूला ये।।
--  


  
  
 

    

No comments:

Post a Comment