Monday, 27 August 2018

मदालसा : मार्कन्डेय पुराण

 संस्कृत दिवस
शुद्धोऽसि रे तात न तेऽस्ति नाम
कृतं हि ते कल्पनयाधुनैव ।
पञ्चात्मकं देहमिदं न तेऽस्ति
नैवास्य त्वं रोदिषि कस्य हेतोः ॥
न वा भवान् रोदिति वै स्वजन्मा
शब्दोऽयमासाद्य महीश सूनुम् ।
विकल्प्यमाना विविधा गुणास्ते-
ऽगुणाश्च भौताः सकलेन्द्रियेषु ॥
भूतानि भूतैः परि दुर्बलानि
वृद्धिं समायान्ति यथेह पुंसः ।
अन्नाम्बुदानादिभिरेव कस्य
 न तेऽस्ति वृद्धिर्न च तेऽस्ति हानिः ॥
त्वं कञ्चुके शौर्यमाणे निजेऽस्मि
स्तस्मिंश्च देहे मूढतां मा व्रजेथाः ।
शुभाशुभैः कर्मभिर्दहमेत-
न्मदादि मूढैः कञ्चुकस्ते पिनद्धः ॥
तातेति किञ्चित् तनयेति किञ्चि-
दम्बेति किञ्चिद्दवितेति किञ्चित्
ममेति किञ्चिन्न ममेति किँचित्
त्वं भूतसंघ बहु मानयेथाः ॥
दुःखानि दुःखापगमाय भोगान्
सुखाय जानाति विमूढचेताः ।
तान्येव दुःखानि पुनः सुखानि
जानाति विद्वान्विमूढचेता ॥
हासोऽस्थिर्सदर्शनमक्षि युग्म-
मत्युज्ज्वलं यत्कलुषम् वसायाः ।
कुचादि पीनं पिशितं पनं तत्
स्थानं रतेः किं नरकं न योषित ॥
यानं क्षितौ यानगतश्च देहो
देहेऽपि चान्यः पुरुषो निविष्टः ।
ममत्वमुर्व्यां न यथा तथा स्वे
देहेऽतिमात्रं च विमूढतैषा ॥
धन्योऽसि रे यो वसुधामशत्रु-
रेकश्चिरं पालयितासि पुत्र ।
तत्पालनादस्तु सुखोपभोगो
धर्मात्फलं प्राप्स्यसि चामरत्वम् ॥
धरामरान् पर्वसु तर्पयेथाः
समीहितम् बंधुषु पूरयेथाः ।
हितं परस्मै हृदि चिन्तयेथाः
मनः परस्त्रीषु निवर्तयेथाः ॥
सदा मुरारिं हृदि चिन्तयेथा-
स्तद्ध्यानतोऽन्तःषडरीञ्जयेथाः ।
मायां प्रबोधेन निवारयेथाः
यशोऽर्जनायार्थमपि व्ययेथाः ।
परोपवादश्रवणाद्विभीथाः
विपद्समुद्राज्जनमुद्धरेथाः ॥
--
आज संस्कृत दिवस पर यह सुना !

No comments:

Post a Comment