अगस्त्यमुनिना भगवते श्रीरामचन्द्राय उपदिष्टं --
आदित्यहृदयस्तोत्रम्
(स्तोत्र के अंत में दिए गए विनियोग तथा न्यास आदि करने के बाद ही स्तोत्रपाठ प्रारंभ करना चाहिए)
--
स्तोत्रम् --
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ।।१
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्।
उपगम्याब्रवीद् राममगस्त्यो भगवान्स्तदा ।।२
राम राम महाबाहो शृणु गुह्यं सनातनम्।
येन सर्वानरीन् वत्स समरे विजयिष्यसे।।३
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्।
जयावहं जपं नित्यमक्षयं परमं शिवं।।४
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्।
चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ।।५
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ।।६
[तुम इनका --
रश्मिमते नमः
समुद्यते नमः
देवासुरनमस्कृताय नमः
विवस्वते नमः
भास्कराय नमः
भुवनेश्वराय नमः
इन नाम-मन्त्रों द्वारा पूजन करो]
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः।।७
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।
महेन्द्रः धनदः कालो यमः सोमो ह्यपां पतिः।।८
पितरो वसवः साध्या अश्विनौ मरुतो मनुः।
वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः।।९
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः।।१०
हरिदश्च सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डोंऽशुमान्।।११
हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रवि।
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः।।१२
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ।।१३
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः।।१४
नक्षत्रग्रहताराणामधिपो विश्वभावनः।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ।।१५
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः।
ज्योतिर्गणानां पतये दिनाधिपतये नमः।।१६
जयाय जयभद्राय हर्यश्वाय नमो नमः।
नमो नमः सहस्रांशो आदित्याय नमो नमः ।।१७
नम उग्राय वीराय सारङ्गाय नमो नमः ।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते।।१८
ब्रह्मेशानायच्युतेशाय सूरायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः।।१९
तमोघ्नाय हिमोघ्नाय शत्रुघ्नायामितात्मने।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः।।२०
तप्तचामीकराभाय हरये विश्वकर्मणे।
नमस्तमोऽभिनिघ्नाय रुचये लोक साक्षिणे।।२१
नाशयत्येष वै भूतं तमेव सृजति प्रभुः।
पापयत्येष तपत्येष वर्षत्येष गभस्तिभिः।।२२
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्।।२३
देवाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः।।२४
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव।।२५
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्।
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यति ।।२६
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम्।।२७
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा।
धारयामास सुप्रीतो राघवः प्रयतात्मवान्।।२८
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्।।२९
रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमत्।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ।।३०
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ।।३१
***
इति श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये युद्धकाण्डे पञ्चाधिकशततमः सर्गः
***
इस 'आदित्यहृदयस्तोत्रम्' नामक स्तोत्र का विनियोग एवं न्यासविधि इस प्रकार है :
विनियोगः --
ॐ अस्य आदित्यहृदयस्तोत्रस्यागस्त्यऋषिरनुष्टुप्छंदः, आदित्यहृदयभूतो भगवान् ब्रह्मा देवता नियस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्रजयसिद्धौ च विनियोगः।
ऋष्यादिन्यासः --
ॐ अगस्त्यऋषये नमः, शिरसि।
अनुष्टुप्छन्दसे नमः, मुखे।
आदित्यहृदयभूतब्रह्मदेवतायै नमः, हृदि।
ॐ बीजाय नमः, गुह्ये।
ॐ रश्मिमते शक्तये नमः, पादयोः।
ॐ तत्सवितुरित्यादिगायत्रीकीलकाय नमः, नाभौ।
करन्यासः --
इस स्तोत्र के अङ्गन्यास और करन्यास तीन प्रकार से किये जाते हैं।
केवल प्रणव से, गायत्रीमन्त्र से अथवा 'रश्मिमते नमः' इत्यादि छः नाम-मन्त्रों से।
यहाँ नाम-मन्त्रों से किये जानेवाले न्यास का प्रकार बताया जाता है --
ॐ रश्मिमते अङ्गुष्ठाभ्यां नमः।
ॐ समुद्यते तर्जनीभ्यां नमः।
ॐ देवासुरनमस्कृताय मध्यमाभ्यां नमः।
ॐ विवस्वते अनामिकाभ्यां नमः।
ॐ भास्कराय कनिष्ठिकाभ्यां नमः।
ॐ भुवनेश्वराय करतलकरपृष्ठाभ्यां नमः।
हृदयादि अङ्गन्यासः --
ॐ रश्मिमते हृदयाय नमः।
ॐ समुद्यते शिरसे स्वाहा।
ॐ देवासुरनमस्कृताय शिखायै वषट्।
ॐ विवस्वते कवचाय हुम्।
ॐ भास्कराय नेत्रत्रयाय वौषट्।
ॐ भुवनेश्वराय आस्त्राय फट्।
इस प्रकार न्यास करके निम्नांकित मन्त्र से भगवान् सूर्य का ध्यान एवं नमस्कार करना चाहिए --
ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्।
तत्पश्चात् 'आदित्यहृदयस्तोत्रम्' का पाठ प्रारंभ करना चाहिए ।***
कोरोना काल में इसका महत्व इसलिए भी है कि सूर्यमण्डल को ही CORONA कहा जाता है।
आशा है कि श्रद्धावान के लिए यह पोस्ट उपयोगी और संग्रहणीय सिद्ध होगी।
***
No comments:
Post a Comment