Patanjal Yoga-Sutra :
vibhUtipada 21-22,
पातञ्जल योग-सूत्र :
विभूतिपाद योग-सूत्र २१-२२,
-------------------------------------
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंयोगेऽन्तर्धानम्।।२१।।
(काय-रूप-संयमात् तत् ग्राह्यशक्ति-स्तम्भे चक्षुः प्रकाश असंयोगे अन्तर्धानम्।।)
एतेन शब्दाद्यन्तर्धानमुक्तम्।।२२।।
(एतेन शब्देन आदिना अन्तर्धानम् उक्तम्।।)
In this योग-सूत्र २१ / Aphorism 21, and the next योग-सूत्र २२ / Aphorism 22 it is described how a योगी / yogi sometimes attains this सिद्धि / विभूति / vibhUti either during while he is practicing the योग / Yoga or maybe even after attaining the ultimate and final goal; - the spiritual Realization.
Here destiny plays the crucial and the most important role, because as is suggested in the
श्री रमण गीता द्वादशः अध्यायः --
Sri Ramana Gita : Chapter 12,
परिपाकेन काले स्युः सिद्धयस्तात पश्यतः।।
प्रारब्धं यदि ताभिः स्याद् विहारो ज्ञानिनोऽपि च।।२०।।
(परिपाकेन काले स्युः सिद्धयः तात पश्यतः। प्रारब्धं यदि ताभिः स्याद् विहारः ज्ञानिनः अपि।।)
अध्याय १४ / Chapter 14,
मुक्तो भवति जीवन्यो महात्माऽऽत्मनि संस्थितः।।
प्राणाः समवलीयन्ते तस्यैवात्र नरर्षभ।।८।।
(मुक्तः भवति जीवन् यः महात्मा आत्मनि संस्थितः। प्राणाः समवलीयन्ते तस्य एव अत्र नरर्षभ।।)
जीवन्मुक्तस्य कालेन तपसः परिपाकतः।। स्पर्शाभावोऽपि सिद्धः स्याद्रूपे सत्यपि कुत्रचित्।।९।।
(जीवन्मुक्तस्य कालेन तपसः परिपाकतः। स्पर्शाभावः अपि सिद्धः स्यात् रूपे सति अपि कुत्रचित्।।)
भूयश्च परिपाकेन रूपाभावोऽपि सिद्ध्यति।।
केवलं चिन्मयो भूत्वा स सिद्धो विहरिष्यति।।१०।।
(भूयश्च परिपाकेन रूपाभावः अपि सिद्ध्यति। केवलं चिन्मयः भूत्वा सः सिद्धः विहरिष्यति।।)
भेदमेतं पुरस्कृत्य तारतम्यं न सम्पदि।।
देहवानशरीरो वा मुक्त आत्मनि संस्थितः।।११।।
(भेदं एतं पुरस्कृत्य तारतम्यं न सम्पदि। देहवान् अशरीरः वा मुक्त आत्मनि संस्थितः।।)
नाडीद्वारार्चिराद्येन मार्गेणोर्ध्वगतिर्नरः।।
तत्रोत्पन्नेन बोधेन सद्यो मुक्तो भविष्यति।।१२।।
(नाडीद्वारा अर्चिरा आद्येन मार्गेण ऊर्ध्वगतिः नरः। तत्र उत्पन्नेन बोधेन सद्य मुक्तः भविष्यति।।)
उपासकस्य सुतरां पक्वचित्तस्य योगिनः।।
ईश्वरानुग्रहात्प्रोक्ता नाडीद्वारोत्तमा गतिः।।१३।।
(उपासकस्य सुतरां पक्वचित्तस्य योगिनः। ईश्वर-अनुग्रहात् प्रोक्ता नाडीद्वारा-उत्तमा।।)
सर्वेषु कामचारोऽस्य लोकेषु परिकीर्तितः।।
इच्छयाऽनेकदेहानां ग्रहणं चाप्यनुग्रहः।।१५।।
(सर्वेषु कामचारः अस्य लोकेषु परिकीर्तितः। इच्छया अनेक देहानां ग्रहणं च अपि अनुग्रहः।।)
कैलासं केऽपि मुक्तानां लोकमाहुर्मनीषिणः।।
एके वदन्ति वैकुण्ठं परे त्वादित्यमण्डलम्।।१६।।
कैलासं के अपि वदन्ति मुक्तानां लोकं आहुः मनीषिणः। एके वदन्ति वैकुण्ठं परे तु आदित्यमण्डलम्।।)
मुक्तलोकाश्च ते सर्वे विद्वन् भूम्यादिलोकवत्।।
चित्रवैभवया शक्त्या स्वरूपे परिकल्पिताः।।१७।।
मुक्तलोकाः च ते सर्वे विद्वन् भूमि आदि लोकवत्। चित्रवैभवया शक्त्या स्वरूपे परिकल्पिताः।।)
।।इति चतुर्दशोऽध्यायः।।
Summarily in this text Sri Ramana Gita, it is said that a योगी / yogi who begins practicing eventually attains these various सिद्धि / siddhi / the occult mysterious powers if it is in the destiny. Accordingly, may become invisible or even acquire so many forms and appear at different places and at the same moment.
These two योग-सूत्र २१, २२ / Aphorisms 21, 22 therefore indicate this much only :
-how this happens.
and could neither be proved nor needs to be proved or claimed by any-one who-so-ever or how-so-ever great योगी / yogi one is.
***
No comments:
Post a Comment